संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग ७ पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग ७ पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग ७ Translation - भाषांतर ७ - १-२१ - अथ एतस्मिन् शब्दोपदेशे सति किम् शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः ॒ गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति एवमादयः शब्दाः पठितव्याः ।७ - २-२१ - न इति आह ।७ - ३-२१ - अनभ्युपायः एषः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः ।७ - ४-२१ - एवम् हि श्रूयते ॒ बृहस्पतिः इन्द्राय दिव्यम् वर्षसहस्रम् प्रतिपदोक्तानाम् शब्दानाम् शब्दपारायणम् प्रोवाच न अन्तम् जगाम ।७ - ५-२१ - बृहस्पतिः च प्रवक्ता इन्द्रः च अध्येता दिव्यम् वर्षसहस्रम् अध्ययनकालः न च अन्तम् जगाम ।७ - ६-२१ - किम् पुनः अद्यत्वे ।७ - ७-२१ - यः सर्वथा चिरम् जीवति सः वर्षशतम् जीवति ।७ - ८-२१ - चतुर्भिः च प्रकारैः विद्या उपयुक्ता भवति आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेन इति ।७ - ९-२१ - तत्र च आगमकालेन एव आयुः पर्युपयुक्तम् स्यात् ।७ - १०-२१ - तस्मात् अनभ्युपायः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः ।७ - ११-२१ - कथम् तर्हि इमे शब्दाः प्रतिपत्तव्याः ।७ - १२-२१ - किम् चित् सामन्यविशेषवत् लक्षणम् प्रवर्त्यम् येन अल्पेन यत्नेन महतः महतः शब्दौघान् प्रतिपद्येरन् ।७ - १३-२१ - किम् पुनः तत् ।७ - १४-२१ - उत्सर्गापवादौ ।७ - १५-२१ - कः चित् उत्सर्गः कर्तव्यः कः चित् अपवादः ।७ - १६-२१ - कथञ्जातीयकः पुनः उत्सर्गः कर्तव्यः कथञ्जातीयकः अपवादः ।७ - १७-२१ - सामन्येन उत्सर्गः कर्तव्यः ।७ - १८-२१ - तत् यथा कर्मणि अण् ।७ - १९-२१ - तस्य विशेषेण अपवादः ।७ - २०-२१ - तत् यथा ।७ - २१-२१ - आतः अनुपसर्गे कः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP