संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग २ पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग २ पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग २ Translation - भाषांतर २ - १-१९ - अथ गौः इति अत्र कः शब्दः ।२ - २-१९ - किम् यत् तत् सास्नालाङ्गूलककुदखुरविषाणि अर्थरूपम् सः शब्दः ।२ - ३-१९ - न इति आह ।२ - ४-१९ - द्रव्यम् नाम तत् ।२ - ५-१९ - यत् तर्हि तत् इङ्गितम् चेष्टितम् निमिषितम् सः शब्दः ।२ - ६-१९ - न इति आह ।२ - ७-१९ - क्रिया नाम सा ।२ - ८-१९ - यत् तर्हि तत् शुक्लः नीलः कृष्णः कपिलः कपोतः इति सः शब्दः ।२ - ९-१९ - न इति आह ।२ - १०-१९ - गुणः नाम सः ।२ - ११-१९ - यत् तर्हि तत् भिन्नेषु अभिन्नम् छिन्नेषु अच्छिन्नम् सामान्यभूतम् सः शब्दः ।२ - १२-१९ - न इति आह ।२ - १३-१९ - आकृतिः नाम सा ।२ - १४-१९ - कः तर्हि शब्दः ।२ - १५-१९ - येन उच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनाम् सम्प्रत्ययः भवति सः शब्दः ।२ - १६-१९ - अथ वा प्रतीतपदार्थकः लोके ध्वनिः शब्दः इति उच्यते ।२ - १७-१९ - तत् यथा शब्दम् कुरु मा शब्दम् कार्षीः शब्दकारी अयम् माणवकः इति ।२ - १८-१९ - ध्वनिम् कुर्वन् एवम् उच्यते ।२ - १९-१९ - तस्मात् ध्वनिः शब्दः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP