संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग ११ पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग ११ पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग ११ Translation - भाषांतर ११ - १-३५ - यदि तर्हि लोकः एषु प्रमाणम् किम् शास्त्रेण क्रियते ।११ - २-३५ - लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः ।११ - ३-३५ - लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते ।११ - ४-३५ - किम् इदम् धर्मनियमः इति ।११ - ५-३५ - धर्माय नियमः धर्मनियमः धर्मार्थः वा नियमः धर्मनियमः धर्मप्रयोजनः वा नियमः धर्मनियमः ।११ - ६-३५ - यथा लौकिकवैदिकेषु ।११ - ७-३५ - प्रियतद्धिताः दाक्षिणात्याः ।११ - ८-३५ - यथा लोके वेदे च इति प्रयोक्तव्ये यथा लौकिकवैदिकेषु इति प्रयुञ्जते ।११ - ९-३५ - अथ वा युक्तः एव तद्धितार्थः ।११ - १०-३५ - यथा लौकिकेषु वैदिकेषु च कृतान्तेषु ।११ - ११-३५ - लोके तावत् अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उच्यते ।११ - १२-३५ - भक्ष्यम् च नाम क्षुत्प्रतीघातार्थम् उपादीयते ।११ - १३-३५ - शक्यम् च अनेन श्वमांसादिभिः अपि क्षुत् प्रतिहन्तुम् ।११ - १४-३५ - तत्र नियमः क्रियते ।११ - १५-३५ - इदम् भक्ष्यम् ।११ - १६-३५ - इदम् अभक्ष्यम् इति ।११ - १७-३५ - तथा खेदात् स्त्रीषु प्रवृत्तिः भवति ।११ - १८-३५ - समानः च खेदविगमः गम्यायाम् च अगम्यायाम् च ।११ - १९-३५ - तत्र नियमः क्रियते ॒ इयम् गम्या इयम् अगम्या इति ।११ - २०-३५ - वेदे खलु अपि पयोव्रतः ब्राह्मणः यवागूव्रतः राजन्यः आमिक्षाव्रतः वैश्यः इति उच्यते ।११ - २१-३५ - व्रतम् च नाम अभ्यवहारार्थम् उपादीयते ।११ - २२-३५ - शक्यम् च अनेन शालिमांसादीनि अपि व्रतयितुम् ।११ - २३-३५ - तत्र नियमः क्रियते ।११ - २४-३५ - तथा बैल्वः खादिरः वा यूपः स्यात् इति उच्यते ।११ - २५-३५ - यूपः च नाम पश्वनुबन्धार्थम् उपादीयते ।११ - २६-३५ - शक्यम् च अनेन किम् चित् एव काष्ठम् उच्छ्रित्य अनुच्छ्रित्य वा पशुः अनुबन्द्धुम् ।११ - २७-३५ - तत्र नियमः क्रियते ।११ - २८-३५ - तथा अग्नौ कपालानि अधिश्रित्य अभिमन्त्रयते ।११ - २९-३५ - भृगूणाम् अङ्गिरसाम् घर्मस्य तपसा तप्यध्वम् इति ।११ - ३०-३५ - अन्तरेण अपि मन्त्रम् अग्निः दहनकर्मा कपालानि सन्तापयति ।११ - ३१-३५ - तत्र नियमः क्रियते ।११ - ३२-३५ - एवम् क्रियमाणम् अभ्युदयकारि भवति इति ।११ - ३३-३५ - एवम् इह अपि समानायाम् अर्थगतौ शब्देन च अपशब्देन च धर्मनियमः क्रियते ।११ - ३४-३५ - शब्देन एव अर्थः अभिधेयः न अपशब्देन इति ।११ - ३५-३५ - एवम् क्रियमाणम् अभ्युदयकारि भवति इति । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP