संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग १३ पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग १३ पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग १३ Translation - भाषांतर १३ - १-५४ - किम् पुनः शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे ।१३ - २-५४ - कः च अत्र विशेषः ।१३ - ३-५४ - ज्ञाने धर्मः इति चेत् तथा अधर्मः ।१३ - ४-५४ - ज्ञाने धर्मः इति चेत् तथा अधर्मः प्राप्नोति ।१३ - ५-५४ - यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति ।१३ - ६-५४ - यथा एव शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः ।१३ - ७-५४ - अथ वा भूयान् अधर्मः प्राप्नोति ।भूयांसः अपशब्दाः अल्पीयांसः शब्दाः ।१३ - ८-५४ - एकैकस्य शब्दस्य बहवः अपभ्रंशाः ।१३ - ९-५४ - तत् यथा ।१३ - १०-५४ - गौः इति अस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः ।१३ - ११-५४ - आचारे नियमः ।१३ - १२-५४ - आचारे पुनः ऋषिः नियमम् वेदयते ।१३ - १३-५४ - ते असुराः हेलयः हेलयः इति कुर्वन्तः पराबभूवुः इति ।१३ - १४-५४ - अस्तु तर्हि प्रयोगे ।१३ - १५-५४ - प्रयोगे सर्वलोकस्य ।१३ - १६-५४ - यदि प्रयोगे धर्मः सर्वः लोकः अभ्युदयेन युज्येत ।१३ - १७-५४ - कः च इदानीम् भवतः मत्सरः यदि सर्वः लोकः अभ्युदयेन युज्येत ।१३ - १८-५४ - न खलु कः चित् मत्सरः ।१३ - १९-५४ - प्रयत्नानर्थक्यम् तु भवति ।१३ - २०-५४ - फलवता च नाम प्रयत्नेन भवितव्यम् न च प्रयत्नः फलात् व्यतिरेच्यः ।१३ - २१-५४ - ननु च ये कृतप्रयत्नाः ते साधीयः शब्दान् प्रयोक्ष्यन्ते ।१३ - २२-५४ - ते एव साधीयः अभ्युदयेन योक्ष्यन्ते ।१३ - २३-५४ - व्यतिरेकः अपि वै लक्ष्यते ।१३ - २४-५४ - दृश्यन्ते हि कृतप्रयत्नाः च अप्रवीणाः अकृतप्रयत्नाः च प्रवीणाः ।१३ - २५-५४ - तत्र फलव्यतिरेकः अपि स्यात् ।१३ - २६-५४ - एवम् तर्हि न अपि ज्ञाने एव धर्मः न अपि प्रयोगे एव ।१३ - २७-५४ - किम् तर्हि शास्त्रपूर्वके प्रयोगे अभ्युदयः तत् तुल्यम् वेदशब्देन ।१३ - २८-५४ - शास्त्रपूर्वकम् यः शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते ।१३ - २९-५४ - तत् तुल्यम् वेदशब्देन ।१३ - ३०-५४ - वेदशब्दाः अपि एवम् अभिवदन्ति ।१३ - ३१-५४ - यः अग्निष्टोमेन यजते यः उ च एनम् एवम् वेद ।१३ - ३२-५४ - यः अग्निम् नाचिकेतम् चिनुते यः उ च एनम् एवम् वेद ।१३ - ३३-५४ - अपरः आह ॒ तत् तुल्यम् वेदशब्देन इति ।१३ - ३४-५४ - यथा वेदशब्दाः नियमपूर्वम् अधीताः फलवन्तः भवन्ति एवम् यः शास्त्रपूर्वकम् शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते इति ।१३ - ३५-५४ - अथ वा पुनः अस्तु ज्ञाने एव धर्मः इति ।१३ - ३६-५४ - ननु च उक्तम् ज्ञाने धर्मः इति चेत् तथा अधर्मः इति ।१३ - ३७-५४ - न एषः दोषः ।१३ - ३८-५४ - शब्दप्रमाणकाः वयम् ।१३ - ३९-५४ - यत् शब्दः आह तत् अस्माकम् प्रमाणम् ।१३ - ४०-५४ - शब्दः च शब्दज्ञाने धर्मम् आह न अपशब्दज्ञाने अधर्मम् ।१३ - ४१-५४ - यत् च पुनः अशिष्टाप्रतिषिद्धम् न एव तत् दोषाय भवति न अभ्युदयाय ।१३ - ४२-५४ - तत् यथा ।१३ - ४३-५४ - हिक्कितहसितकण्डूयितानि न एव दोषाय भवन्ति न अपि अभ्युदयाय ।१३ - ४४-५४ - अथ वा अभ्युपायः एव अपशब्दज्ञानम् शब्दज्ञाने ।१३ - ४५-५४ - यः अपशब्दान् जानाति शब्दान् अपि असौ जानाति ।१३ - ४६-५४ - तत् एवम् ज्ञाने धर्मः इति ब्रुवतः अर्थात् आपन्नम् भवति अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्मः इति ।१३ - ४७-५४ - अथ वा कूपखानकवत् एतत् भवति ।१३ - ४८-५४ - तत् यथा कूपखानकः खनन् यदि अपि मृदा पांसुभिः च अवकीर्णः भवति सः अप्सु सञ्जातासु ततः एव तम् गुणम् आसादयति येन सः च दोषः निर्हण्यते भूयसा च अभ्युदयेन योगः भवति एवम् इह अपि यदि अपि अपशब्दज्ञाने अधर्मः तथा अपि यः तु असौ शब्दज्ञाने धर्मः तेन सः च दोषः निर्घानिष्यते भूयसा च अभ्युदयेन योगः भविष्यति ।१३ - ४९-५४ - यत् अपि उच्यते आचारे नियमः इति याज्ञे कर्मणि सः नियमः ।१३ - ५०-५४ - एवम् हि श्रूयते ।१३ - ५१-५४ - यर्वाणः तर्वाणः नाम ऋषयः बभूवुः प्रत्यक्षधर्माणः परापरज्ञाः विदितवेदितव्याः अधिगतयाथातथ्याः ।१३ - ५२-५४ - ते तत्रभवन्तः यत् वा नः तत् वा नः इति प्रोयोक्तव्ये यर् वा णः तर् वा णः इति प्रयुञ्जते याज्ञे पुनः कर्मणि न अपभाषन्ते ।१३ - ५३-५४ - तैः पुनः असुरैः याज्ञे कर्मणि अपभाषितम् ।१३ - ५४-५४ - ततः ते पराबभूताः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP