संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग १५ पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग १५ पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग १५ Translation - भाषांतर १५ - १-८० - अथ किमर्थः वर्णानाम् उपदेशः ।१५ - २-८० - वृत्तिसमवायार्थः उपदेशः । वृत्तिसमवायार्थः वर्णानाम् उपदेशः कर्तव्यः ।१५ - ३-८० - किम् इदम् वृत्तिसमवयार्थः इति ।१५ - ४-८० - वृत्तये समवायः वृत्तिसमवायः , वृत्त्यर्थः वा समवायः वृत्तिसमवायः , वृत्तिप्रयोजनः वा वृत्तिसमवयः ।१५ - ५-८० - का पुनः वृत्तिः ।१५ - ६-८० - शास्त्रप्रवृत्तिः ।१५ - ७-८० - अथ कः समवयः ।१५ - ८-८० - वर्णानाम् आनुपूर्व्येण सन्निवेशः ।१५ - ९-८० - अथ कः उपदेशः ।१५ - १०-८० - उच्चारणम् ।१५ - ११-८० - कुतः एतत् ।१५ - १२-८० - दिशिः उच्चारणक्रियः ।१५ - १३-८० - उच्चार्य हि वर्णान् आह ॒ उपदिष्टाः इमे वर्णाः इति ।१५ - १४-८० - अनुबन्धकरणार्थः च । अनुबन्धकरणार्थः च वर्णानाम् उपदेशः कर्तव्यः ।१५ - १५-८० - अनुबन्धान् आसङ्क्ष्यामि इति ।१५ - १६-८० - न हि अनुपदिश्य वर्णान् अनुबन्धाः शक्याः आसङ्क्तुम् ।१५ - १७-८० - सः एषः वर्णानाम् उपदेशः वृत्तिसमवायार्थः च अनुबन्धकरणार्थः च ।१५ - १८-८० - वृत्तिसमवायः च अनुबन्धकरणार्थः च प्रत्याहारार्थम् ।१५ - १९-८० - प्रत्याहारः वृत्त्यर्थः ।१५ - २०-८० - इष्टबुद्ध्यर्थः च ।१५ - २१-८० - इष्टबुद्ध्यर्थः च वर्णानाम् उपदेशः ।१५ - २२-८० - इष्टान् वर्णान् भोत्स्ये इति ।१५ - २३-८० - इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः । इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः कर्तव्यः ।१५ - २४-८० - एवङ्गुणाः अपि हि वर्णाः इष्यन्ते ।१५ - २५-८० - आकृत्युपदेशात् सिद्धम् ।१५ - २६-८० - आकृत्युपदेशात् सिद्धम् एतत् ।१५ - २७-८० - अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति ।१५ - २८-८० - तथा इवर्णकुलाकृतिः ।१५ - २९-८० - तथा उवर्णकुलाकृतिः ।१५ - ३०-८० - आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः ।१५ - ३१-८० - आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः वक्तव्यः ।१५ - ३२-८० - के पुनः संवृतादयः ।१५ - ३३-८० - संवृतः कलः ध्मातः एणीकृतः अम्बूकृतः अर्धकः ग्रस्तः निरस्तः प्रगीतः उपगीतः क्ष्विण्णः रोमशः इति ।१५ - ३४-८० - अपरः आह ॒ ग्रस्तम् निरस्तम् अविलम्बितम् निर्हतम् अम्बूकृतम् ध्मातम् अथो विकम्पितम् सन्दष्टम् एणीकृतम् अर्धकम् द्रुतम् विकीर्णम् एताः स्वरदोषभावनाः इति ।१५ - ३५-८० - अतः अन्ये व्यञ्जनदोषाः ।१५ - ३६-८० - न एषः दोषः ।१५ - ३७-८० - गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति ।१५ - ३८-८० - अस्ति अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् ।१५ - ३९-८० - किम् ।१५ - ४०-८० - समुदायानाम् साधुत्वम् यथा स्यात् इति ।१५ - ४१-८० - एवम् तर्हि अष्टादशधा भिन्नाम् निवृत्तकलादिकाम् अवर्णस्य प्रत्यापत्तिम् वक्ष्यामि ।१५ - ४२-८० - सा तर्हि वक्तव्या ।१५ - ४३-८० - लिङ्गार्था तु प्रत्यापत्तिः ।१५ - ४४-८० - लिङ्गार्थ सा तर्हि भविष्यति ।१५ - ४५-८० - तत् तर्हि वक्तव्यम् ।१५ - ४६-८० - यदि अपि एतत् उच्यते अथ वा एतर्हि अनुबन्धशतम् न उच्चार्यम् इत्सञ्ज्ञा च न वक्तव्या लोपः च न वक्तव्यः ।१५ - ४७-८० - यत् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यति ।१५ - ४८-८० - सिध्यति एवम् अपाणिनीयम् तु भवति ।१५ - ४९-८० - यथान्यासम् एव अस्तु ।१५ - ५०-८० - ननु च उक्तम् आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः इति ।परिहृतम् एतत् गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति ।१५ - ५१-८० - ननु च अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् उक्तम् ।१५ - ५२-८० - किम् ।१५ - ५३-८० - समुदायानाम् साधुत्वम् यथा स्यात् इति ।१५ - ५४-८० - एवम् तर्हि उभयम् अनेन क्रियते ।१५ - ५५-८० - पाठः च एव विशेष्यते कलादयः च निवर्त्यन्ते ।१५ - ५६-८० - कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।१५ - ५७-८० - लभ्यम् इति आह ।१५ - ५८-८० - कथम् ।१५ - ५९-८० - द्विगताः अपि हेतवः भवन्ति ।१५ - ६०-८० - तत् यथा ॒ आम्राः च सिक्ताः पितरः च प्रीणिताः इति ।१५ - ६१-८० - तथा वाक्यानि अपि ड्विष्ठानि भवन्ति ।१५ - ६२-८० - श्वेतः धावति , अलम्बुसानाम् याता इति ।१५ - ६३-८० - अथ वा इदम् तावत् अयम् प्रष्टव्यः ।१५ - ६४-८० - क्वे इमे संवृतादयः श्रूयेरन् इति ।१५ - ६५-८० - आगमेषु ।१५ - ६६-८० - आगमाः शुद्धाः पठ्यन्ते ।१५ - ६७-८० - विकारेषु तर्हि ।१५ - ६८-८० - विकाराः शुद्धाः पठ्यन्ते ।१५ - ६९-८० - प्रत्ययेषु तर्हि ।१५ - ७०-८० - प्रत्ययाः शुद्धाः पठ्यन्ते ।१५ - ७१-८० - धातुषु तर्हि ।१५ - ७२-८० - धातवः अपि शुद्धाः पठ्यन्ते ।१५ - ७३-८० - प्रातिपदिकेषु तर्हि ।१५ - ७४-८० - प्रातिपदिकानि अपि शुद्धानि पठ्यन्ते ।१५ - ७५-८० - यानि तर्हि अग्रहणानि प्रातिपदिकानि ।१५ - ७६-८० - एतेषाम् अपि स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः ।१५ - ७७-८० - शशः षषः इति मा भूत् ।१५ - ७८-८० - पलाशः पलाषः इति मा भूत् ।१५ - ७९-८० - मञ्चकः मञ्जकः इति मा भूत् ।१५ - ८०-८० - आगमाः च विकाराः च प्रत्ययाः सह धातुभिः उच्चार्यन्ते ततः तेषु न इमे प्राप्ताः कलादयः । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP