संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग ४ पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग ४ पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग ४ Translation - भाषांतर ४.१ - १-८ - इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि ।४.१ - २-८ - ते असुराः , दुष्टः शब्दः , यत् अधीतम् , यः तु प्रयुङ्क्ते , अविद्वांसः , विभक्तिम् कुर्वन्ति , यः वै इमाम् , चत्वारि , उत त्वः , सक्तुम् इव , सारस्वतीम् , दशम्याम् पुत्रस्य , सुदेवः असि वरुण इति ।४.१ - ३-८ - ते असुराः ।४.१ - ४-८ - ते असुराः हेलयः हेलयः इति कुर्वन्तः परा बभूवुः ।४.१ - ५-८ - तस्मात् ब्राह्मणेन न म्लेच्छितवै न अपभाषितवै ।४.१ - ६-८ - म्लेच्छः ह वै एषः यत् अपशब्दः ।४.१ - ७-८ - म्लेच्छाः मा भूम इति अध्येयम् व्याकरणम् ।४.१ - ८-८ - ते असुराः४.२ - १-५ - दुष्टः शब्दः ।४.२ - २-५ - दुष्टः शब्दः स्वरतः वर्णतः वा मिथ्या प्रयुक्तः न तम् अर्थम् आह ।४.२ - ३-५ - सः वाग्वज्रः यजमानम् हिनस्ति यथा इन्द्रशत्रुः स्वरतः अपराधात् ।४.२ - ४-५ - दुष्टान् शब्दान् मा प्रयुक्ष्महि इति अध्येयम् व्याकरणम् ।४.२ - ५-५ - दुष्टः शब्दः ।४.३ - १-३ - यत् अधीतम् ।४.३ - २-३ - यत् अधीतम् अविज्ञातम् निगदेन एव शब्द्यते अनग्नौ इव शुष्कैधः न तत् ज्वलति कर्हि चित् ।४.३ - ३-३ - तस्मात् अनर्थकम् मा अधिगीष्महि इति अध्येयम् व्याकरणम्. यत् अधीतम् ।४.४ - १-२७ - यः तु प्रयुङ्क्ते ।४.४ - २-२७ - यः तु प्रयुङ्क्ते कुशलः विशेषे शब्दान् यथावत् व्यवहारकाले सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः ।४.४ - ३-२७ - कः ।४.४ - ४-२७ - वाग्योगवित् एव ।४.४ - ५-२७ - कुतः एतत् ।४.४ - ६-२७ - यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति ।४.४ - ७-२७ - यथा एव हि शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः ।४.४ - ८-२७ - अथ वा भूयान् अधर्मः प्राप्नोति ।४.४ - ९-२७ - भूयांसः अपशब्दाः अल्पीयांसः शब्दाः ।४.४ - १०-२७ - एकैकस्य हि शब्दस्य बहवः अपशब्दाः ।४.४ - ११-२७ - तत् यथा गौः इति अस्य शब्दस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः ।४.४ - १२-२७ - अथ यः अवाग्योगवित् ।४.४ - १३-२७ - अज्ञानम् तस्य शरणम् ।४.४ - १४-२७ - न अत्यन्ताय अज्ञानम् शरणम् भवितुम् अर्हति ।४.४ - १५-२७ - यः हि अजानन् वै ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात्. एवम् तर्हि सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः ।४.४ - १६-२७ - कः. अवाग्योगवित् एव ।४.४ - १७-२७ - अथ यः वाग्योगवित् ।४.४ - १८-२७ - विज्ञानम् तस्य शरणम् ।४.४ - १९-२७ - क्व पुनः इदम् पठितम् ।४.४ - २०-२७ - भ्राजाः नाम श्लोकाः ।४.४ - २१-२७ - किम् च भोः श्लोकाः अपि प्रमाणम् ।४.४ - २२-२७ - किम् च अतः ।४.४ - २३-२७ - यदि प्रमाणम् अयम् अपि श्लोकः प्रमाणम् भवितुम् अर्हति ।४.४ - २४-२७ - यत् उदुम्बरवर्णानाम् घटीनाम् मण्डलम् महत् पीतम् न स्वर्गम् गमयेत् किम् तत् क्रतुगतम् नयेत् इति ।४.४ - २५-२७ - प्रमत्तगीतः एषः तत्रभवतः ।४.४ - २६-२७ - यः तु अप्रमत्तगीतः तत् प्रमानम् ।४.४ - २७-२७ - यस् तु प्रयुङ्क्ते ।४.५ - १-४ - अविद्वांसः ।४.५ - २-४ - अविद्वांसः प्रत्यभिवादे नाम्नः ये प्लुतिम् न विदुः कामम् तेषु तु विप्रोष्य स्त्रीषु इव अयम् अहम् वदेत् ।४.५ - ३-४ - अभिवादे स्त्रीवत् मा भूम इति अध्येयम् व्याकरणम् ।४.५ - ४-४ - अविद्वांसः४.६ - १-३ - विभक्तिम् कुर्वन्ति ।४.६ - २-३ - याज्ञिकाः पठन्ति ॒ प्रयाजाः सविभक्तिकाः कार्याः इति ।४.६ - ३-३ - न च अन्तरेण व्याकरणम् प्रयाजाः सविभक्तिकाः शक्याः कर्तुम्. विभक्तिम् कुर्वन्ति४.७ - १-४ - यः वै इमाम् ।४.७ - २-४ - यः वै इमाम् पदशः स्वरशः अक्षरशः वाचम् विदधाति सः आर्त्विजीनः ।४.७ - ३-४ - आर्त्विजीनाः स्याम इति अध्येयम् व्याकरणम् ।४.७ - ४-४ - यः वै इमाम् ।४.८ - १-२९ - चत्वारि ।४.८ - २-२९ - चत्वरि शृङ्गा त्रयः अस्य पदा द्वे शीर्षे सप्त हस्तासः अस्य त्रिधा बद्धः वृषभः रोरवीति महः देवः मर्त्यान् अ विवेश ।४.८ - ३-२९ - चत्वारि शृङ्गानि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च ।४.८ - ४-२९ - त्रयः अस्य पादाः त्रयः कालाः भूतभविष्यद्वर्तमानाः ।४.८ - ५-२९ - द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यः च ।४.८ - ६-२९ - सप्त हस्तासः अस्य सप्त विभक्तयः ।४.८ - ७-२९ - त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसि इति ।४.८ - ८-२९ - वृषभः वर्षणात् ।४.८ - ९-२९ - रोरवीति शब्दम् करोति ।४.८ - १०-२९ - कुतः एतत् ।४.८ - ११-२९ - रौतिः शब्दकर्मा ।४.८ - १२-२९ - महः देवः मर्त्यान् आविवेश इति ।४.८ - १३-२९ - महान् देवः शब्दः ।४.८ - १४-२९ - मर्त्याः मरणधर्माणः मनुष्याः ।४.८ - १५-२९ - तान् आविवेश ।४.८ - १६-२९ - महता देवेन नः साम्यम् यथा स्यात् इति अध्येयम् व्याकरणम् ।४.८ - १७-२९ - अपरः आह ॒ चत्वरि वक् परिमिता पदनि तनि विदुः ब्राह्मण ये मनीषिणः गुहा त्रीणि निहिता न इङ्गयन्ति तुरीयम् वाचः मनुष्याः वदन्ति ।४.८ - १८-२९ - चत्वारि वाक् परिमिता पदानि ।४.८ - १९-२९ - चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च ।४.८ - २०-२९ - तानि विदुः ब्राह्मणाः ये मनीषिणः ।४.८ - २१-२९ - मनसः ईषिणः मनीषिणः ।४.८ - २२-२९ - गुहा त्रीणि निहिता न इङ्गयन्ति ।४.८ - २३-२९ - गुहायाम् त्रीणि निहितानि न इङ्गयन्ति ।४.८ - २४-२९ - न चेष्टन्ते ।४.८ - २५-२९ - न निमिषन्ति इति अर्थः ।४.८ - २६-२९ - तुरीयम् वाचः मनुष्याः वदन्ति ।४.८ - २७-२९ - तुरीयम् ह वै एतत् वाचः यत् मनुष्येषु वर्तते ।४.८ - २८-२९ - चतुर्थम् इति अर्थः ।४.८ - २९-२९ - चत्वारि ।४.९ - १-११ - उत त्वः ।४.९ - २-११ - उत त्वः पश्यन् न ददर्श वचम् उत त्वः श्र्ण्वन् न शृणोति एनाम् उतो त्वस्मै तन्वम् विसस्रे जाय इव पत्ये उशती सुवसाः ।४.९ - ३-११ - अपि खलु एकः पश्यन् अपि न पश्यति वाचम् ।४.९ - ४-११ - अपि खलु एकः श्र्ण्वन् अपि न श्र्णोति एनाम् ।४.९ - ५-११ - अविद्वांसम् आह अर्धम् ।४.९ - ६-११ - उतो त्वस्मै तन्वम् विसस्रे ।४.९ - ७-११ - तनुम् विवृणुते ।४.९ - ८-११ - जाया इव पत्ये उशती सुवासाः ।४.९ - ९-११ - तद् यथा जाया पत्ये कामयमाना सुवासाः स्वम् आत्मानम् विवृणुते एवम् वाक् वाग्विदे स्वात्मानम् विवृणुते ।४.९ - १०-११ - वाक् नः विवृणुयात् आत्मानम् इति अध्येयम् व्याकरणम् ।४.९ - ११-११ - उत त्वः ।४.१० - १-१७ - सक्तुम् इव ।४.१० - २-१७ - सक्तुम् इव तितौना पुनन्तः यत्र धीराः मनसा वचम् अक्रत अत्रा सखायः सख्यनि जानते भद्र एषाम् लक्ष्मीः निहिता अधि वाचि ।४.१० - ३-१७ - सक्तुः सचतेः दुर्धावः भवति ।४.१० - ४-१७ - कसतेः वा विपरीतात् विकसितो भवति ।४.१० - ५-१७ - तितौ परिपवनम् भवति ततवत् वा तुन्नवत् वा ।४.१० - ६-१७ - धीराः ध्यानवन्तः मनसा प्रज्ञानेन वाचम् अक्रत वाचम् अकृषत ।४.१० - ७-१७ - अत्रा सखायः सख्यानि जानते ।४.१० - ८-१७ - सायुज्यानि जानते ।४.१० - ९-१७ - क्व ।४.१० - १०-१७ - यः एषः दुर्घः मार्गः एकगम्यः वाग्विषयः ।४.१० - ११-१७ - के पुनः ते ।४.१० - १२-१७ - वैयाकरणाः ।४.१० - १३-१७ - कुतः एतत् ।४.१० - १४-१७ - भद्रा एषाम् लक्ष्मीः निहिता अधि वाचि ।४.१० - १५-१७ - एषाम् वाचि भद्रा लक्ष्मीः निहिता भवति ।४.१० - १६-१७ - लक्ष्मीः लक्षणात् भासनात् परिवृढा भवति ।४.१० - १७-१७ - सक्तुम् इव ।४.११ - १-३ - सारस्वतीम्. याज्ञिकाः पठन्ति ॒ आहिताग्निः अपशब्दम् प्रयुज्य प्रायश्चित्तीयाम् सारस्वतीम् इष्टिम् निर्वपेत् इति ।४.११ - २-३ - प्रायश्चित्तीयाः मा भूम इति अध्येयम् व्याकरणम् ।४.११ - ३-३ - सारस्वतीम् ।४.१२ - १-६ - दशम्याम् पुत्रस्य ।४.१२ - २-६ - याज्ञिकाः पठन्ति ॒ दशम्युत्तरकालम् पुत्रस्य जातस्य नाम विदध्यात् घोषवदादि अन्तरन्तःस्थम् अवृद्धम् त्रिपुरुषानूकम् अनरिप्रतिष्ठितम् ।४.१२ - ३-६ - तत् हि प्रतिष्ठिततमम् भवति ।४.१२ - ४-६ - द्व्यक्षरम् चतुरक्षरम् वा नाम कृतम् कुर्यात् न तद्धितम् इति ।४.१२ - ५-६ - न च अन्तरेण व्याकरणम् कृतः तद्धिताः वा शक्याः विज्ञातुम् ।४.१२ - ६-६ - दशम्याम् पुत्रस्य ।४.१३ - १-११ - सुदेवः असि ।४.१३ - २-११ - सुदेवः असि वरुण यस्य ते सप्त सिन्धवः अनुक्षरन्ति काकुदम् सूर्म्यम् सुषिरम् इव ।४.१३ - ३-११ - सुदेवः असि वरुण सत्यदेवः असि यस्य ते सप्त सिन्धवः सप्त विभक्तयः ।४.१३ - ४-११ - अनुक्षरन्ति काकुदम् ।४.१३ - ५-११ - काकुदम् तालु ।४.१३ - ६-११ - काकुः जिह्वा सा अस्मिन् उद्यते इति काकुदम् ।४.१३ - ७-११ - सूर्म्यम् सुषिराम् इव ।४.१३ - ८-११ - तद् यथा शोभनाम् ऊर्मीम् सुषिराम् अग्निः अन्तः प्रविश्य दहति एवम् तव सप्त सिन्धवः सप्त विभक्तयः तालु अनुक्षरन्ति ।४.१३ - ९-११ - तेन असि सत्यदेवः ।४.१३ - १०-११ - सत्यदेवाः स्याम इति अध्येयम् व्याकरणम् ।४.१३ - ११-११ - सुदेवः असि । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP