संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग ६ पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग ६ पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग ६ Translation - भाषांतर ६ - १-२० - उक्तः शब्दः ।६ - २-२० - स्वरूपम् अपि उक्तम् ।६ - ३-२० - प्रयोजनानि अपि उक्तानि ।६ - ४-२० - शब्दानुशासनम् इदानीम् कर्तव्यम् ।६ - ५-२० - तत् कथम् कर्तव्यम् ।६ - ६-२० - किम् शब्दोपदेशः कर्तव्यः आहोस्वित् अपशब्दोपदेशः आहोस्वित् उभयोपदेशः इति ।६ - ७-२० - अन्यतरोपदेशेन कृतम् स्यात् ।६ - ८-२० - तत् यथा भक्ष्यनियमेन अभक्ष्यप्रतिषेधो गम्यते ।६ - ९-२० - पञ्च पञ्चनखाः भक्ष्याः इति उक्ते गम्यते एतत् ॒ अतः अन्ये अभक्ष्याः इति ।६ - १०-२० - अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः ।६ - ११-२० - तत् यथा अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते गम्यते एतत् ॒ आरण्यः भक्ष्यः इति ।६ - १२-२० - एवम् इह अपि ॒ यदि तावत् शब्दोपदेशः क्रियते गौः इति एतस्मिन् उपदिष्टे गम्यते एतत् ॒ गाव्यादयः अपशब्दाः इति ।६ - १३-२० - अथ अपशब्दोपदेशः क्रियते गाव्यादिषु उपदिष्टेषु गम्यते एतत् ॒ गौः इति एषः शब्दः इति ।६ - १४-२० - किम् पुनः अत्र ज्यायः ।६ - १५-२० - लघुत्वात् शब्दोपदेशः ।६ - १६-२० - लघीयान् शब्दोपदेशः गरीयान् अपशब्दोपदेशः ।६ - १७-२० - एकैकस्य शब्दस्य बहवः अपभ्रंशाः ।६ - १८-२० - तत् यथा ।६ - १९-२० - गौः इति अस्य शब्दस्य गावीगोणीगोतागोपोतलिकादयः अपभ्रंशाः ।६ - २०-२० - इष्टान्वाख्यानम् खलु अपि भवति । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP