संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग १२ पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग १२ पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग १२ Translation - भाषांतर १२ - १-६२ - अस्ति अप्रयुक्तः ।१२ - २-६२ - सन्ति वै शब्दाः अप्रयुक्ताः ।१२ - ३-६२ - तत् यथा ऊष तेर चक्र पेच इति ।१२ - ४-६२ - किम् अतः यत् सन्ति अप्रयुक्ताः ।१२ - ५-६२ - प्रयोगात् हि भवान् शब्दानाम् साधुत्वम् अध्यवस्यति ।१२ - ६-६२ - ये इदानीम् अप्रयुक्ताः न अमी साधवः स्युः ।१२ - ७-६२ - इदम् विप्रतिषिद्धम् यत् उच्यते सन्ति वै शब्दाः अप्रयुक्ताः इति ।१२ - ८-६२ - यदि सन्ति न अप्रयुक्ताः ।१२ - ९-६२ - अथ अप्रयुक्ताः न सन्ति ।१२ - १०-६२ - सन्ति च अप्रयुक्ताः च इति विप्रतिषिद्धम् ।१२ - ११-६२ - प्रयुञ्जानः एव खलु भवान् आह सन्ति शब्दाः अप्रयुक्ताः इति ।१२ - १२-६२ - कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् ।१२ - १३-६२ - न एतत् विप्रतिषिद्धम् ।१२ - १४-६२ - सन्ति इति तावत् ब्रूमः यत् एतान् शास्त्रविदः शास्त्रेण अनुविदधते ।१२ - १५-६२ - अप्रयुक्ताः इति ब्रूमः यत् लोके अप्रयुक्ताः इति ।१२ - १६-६२ - यत् अपि उच्यते कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् इति ।१२ - १७-६२ - न ब्रूमः अस्माभिः अप्रयुक्ताः इति ।१२ - १८-६२ - किम् तर्हि ।१२ - १९-६२ - लोके अप्रयुक्ताः इति ।१२ - २०-६२ - ननु च भवान् अपि अभ्यन्तरः लोके ।१२ - २१-६२ - अभ्यन्तरः अहम् लोके न तु अहम् लोकः ।१२ - २२-६२ - अस्ति अप्रयुक्तः इति चेत् न अर्थे शब्दप्रयोगात् ।१२ - २३-६२ - अस्ति अप्रयुक्तः इति चेत् तत् न ।१२ - २४-६२ - किम् कारणम् ।१२ - २५-६२ - अर्थे शब्दप्रयोगात् ।१२ - २६-६२ - अर्थे शब्दाः प्रयुज्यन्ते ।१२ - २७-६२ - सन्ति च एषाम् शब्दानाम् अर्थाः येषु अर्थेषु प्रयुज्यन्ते ।१२ - २८-६२ - अप्रयोगः प्रयोगान्यत्वात् ।१२ - २९-६२ - अप्रयोगः खलु एषां शब्दानाम् न्याय्यः ।१२ - ३०-६२ - कुतः ।१२ - ३१-६२ - प्रयोगान्यत्वात् ।१२ - ३२-६२ - यत् एतेषाम् शब्दानाम् अर्थे अन्यान् शब्दान् प्रयुञ्जते ।१२ - ३३-६२ - तत् यथा ।१२ - ३४-६२ - ऊष इति एतस्य शब्दस्य अर्थे क्व यूयम् उषिताः ।१२ - ३५-६२ - तेर इति अस्य अर्थे किम् यूयम् तीर्णाः ।१२ - ३६-६२ - चक्र इति अस्य अर्थे किम् यूयम् कृतवन्तः ।१२ - ३७-६२ - पेच इति अस्य अर्थे किम् यूयम् पक्ववन्तः इति ।१२ - ३८-६२ - अप्रयुक्ते दीर्घसत्त्रवत् ।१२ - ३९-६२ - यदि अपि अप्रयुक्ताः अवश्यम् दीर्घसत्त्रवत् लक्षणेन अनुविधेयाः ।१२ - ४०-६२ - तत् यथा ।१२ - ४१-६२ - दीर्घसत्त्राणि वार्षशतिकानि वार्षसहस्रिकाणि च ।१२ - ४२-६२ - न च अद्यत्वे कः चित् अपि व्यवहरति ।१२ - ४३-६२ - केवलम् ऋषिसम्प्रदायः धर्मः इति कृत्वा याज्ञिकाः शास्त्रेण अनुविदधते ।१२ - ४४-६२ - सर्वे देशान्तरे ।१२ - ४५-६२ - सर्वे खलु अपि एते शब्दाः देशान्तरे प्रयुज्यन्ते ।१२ - ४६-६२ - न च एते उपलभ्यन्ते ।१२ - ४७-६२ - उपलब्धौ यत्नः क्रियताम् ।१२ - ४८-६२ - महान् हि शब्दस्य प्रयोगविषयः ।१२ - ४९-६२ - सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः साङ्गाः सरहस्याः बहुधा विभिन्नाः एकशतम् अध्वर्युशाखाः सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्वृच्यम् नवधा आथर्वणः वेदः वाकोवाक्यम् इतिहासः पुराणम् वैद्यकम् इति एतावान् शब्दस्य प्रयोगविषयः ।१२ - ५०-६२ - एतावन्तम् शब्दस्य प्रयोगविषयम् अननुनिशम्य सन्ति अप्रयुक्ताः इति वचनम् केवलम् साहसमात्रम् ।१२ - ५१-६२ - एतस्मिन् अतिमहति शब्दस्य प्रयोगविषये ते ते शब्दाः तत्र तत्र नियतविषयाः दृश्यन्ते ।१२ - ५२-६२ - तत् यथा ।१२ - ५३-६२ - शवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति ।१२ - ५४-६२ - विकारे एनम् आर्याः भाषन्ते शवः इति ।१२ - ५५-६२ - हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिम् एव तु आर्याः प्रयुञ्जते ।१२ - ५६-६२ - दातिः लवनार्थे प्राच्येषु दात्रम् उदीच्येषु ।१२ - ५७-६२ - ये च अपि एते भवतः अप्रयुक्ताः अभिमताः शब्दाः एतेषाम् अपि प्रयोगः दृश्यते ।१२ - ५८-६२ - क्व ।१२ - ५९-६२ - वेदे ।१२ - ६०-६२ - यत् वः रेवतीः रेवत्यम् तत् ऊष ।१२ - ६१-६२ - यत् मे नरः श्रुत्यम् ब्रह्म चक्र ।१२ - ६२-६२ - यत्र नः चक्र जरसम् तनुनाम् इति । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP