संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पस्पषाह्निक| भाग ३ पस्पषाह्निक भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ पस्पषाह्निक - भाग ३ पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे. Tags : पस्पषाह्निकसंस्कृत भाग ३ Translation - भाषांतर ३ - १-१७ - कानि पुनः शब्दानुशासनस्य प्रयोजनानि ।३ - २-१७ - रक्षोहागमलघ्वसन्देहाः प्रोयोजनम् ।३ - ३-१७ - रक्षार्थम् वेदानाम् अध्येयम् व्याकरणम् ।३ - ४-१७ - लोपागमवर्णविकारज्ञः हि सम्यक् वेदान् परिपालयिष्यति ।३ - ५-१७ - ऊहः खलु अपि. न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः. ते च अवश्यम् यज्ञगतेन यथायथम् विपरिणमयितव्याः. तान् न अवैयाकरणः शक्नोति यथायथम् विपरिणमयितुम्. तस्मात् अध्येयम् व्याकरणम् ।३ - ६-१७ - आगमः खलु अपि ।३ - ७-१७ - ब्राह्मणेन निष्कारणः धर्मः षडङ्गः वेदः अध्येयः ज्ञेयः इति ।३ - ८-१७ - प्रधानम् च षट्सु अङ्गेषु व्याकरणम् ।३ - ९-१७ - प्रधाने च कृतः यत्नः फलवान् भवति ।३ - १०-१७ - लघ्वर्थम् च अध्येयम् व्याकरणम्. ब्राह्मणेन अवश्यम् शब्दाः ज्ञेयाः इति ।३ - ११-१७ - न च अन्तरेण व्याकरणम् लघुना उपायेन शब्दाः शक्याः ज्ञातुम् ।३ - १२-१७ - असन्देहार्थम् च अध्येयम् व्याकरणम् ।३ - १३-१७ - याज्ञिकाः पठन्ति ।३ - १४-१७ - स्थूलपृषतीम् आग्निवारुणीम् अनड्वाहीम् आलभेत इति ।३ - १५-१७ - तस्याम् सन्देहः स्थूला च असौ पृषती च स्थूलपृषती स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती ।३ - १६-१७ - ताम् न अवैयाकरणः स्वरतः अध्यवस्यति ।३ - १७-१७ - यदि पूर्वपदप्रकृतिस्वरत्वम् ततः बहुव्रीहिः. अथ अन्तोदात्तत्वम् ततः तत्पुरुषः इति । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP