संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १| भाग १७ अध्याय १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ अर्थशास्त्रम् अध्याय ०१ - भाग १७ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १७ Translation - भाषांतर १७.०१रक्षितो राजा राज्यं रक्षत्य् आसन्नेभ्यः परेभ्यश् च, पूर्वं दारेभ्यः पुत्रेभ्यश् च ॥१७.०२दार.रक्षणं निशान्त.प्रणिधौ वक्ष्यामः ॥१७.०३"पुत्र.रक्षणं तु ॥१७.०४"जन्म.प्रभृति राज.पुत्रान् रक्षेत् ॥१७.०५कर्कटक.सधर्माणो हि जनक.भक्षा राज.पुत्राः ॥१७.०६तेषाम् अजात.स्नेहे पितर्य् उपांशु.दण्डः श्रेयान्" इति भारद्वाजः ॥१७.०७"नृशंसम् अदुष्ट.वधः क्षत्र.बीज.विनाशश् च" इति विशाल.अक्षः ॥१७.०८"तस्माद् एक.स्थान.अवरोधः श्रेयान्" इति ॥१७.०९अहि.भयम् एतद्" इति पाराशराः ॥१७.१०"कुमारो हि "विक्रम.भयान् मां पिता_अवरुणद्धि" इति ज्ञात्वा तम् एव_अङ्के कुर्यात् ॥१७.११तस्माद् अन्त.पाल.दुर्गे वासः श्रेयान्" इति ॥१७.१२"औरभ्रं भयम् एतद्" इति पिशुनः ॥१७.१३"प्रत्यापत्तेर् हि तद् एव कारणं ज्ञात्वा_अन्त.पाल.सखः स्यात् ॥१७.१४तस्मात् स्व.विषयाद् अपकृष्टे सामन्त.दुर्गे वासः श्रेयान्" इति ॥१७.१५"वत्स.स्थानम् एतद्" इति कौणपदन्तः ॥१७.१६"वत्सेन_इव हि धेनुं पितरम् अस्य सामन्तो दुह्यात् ॥१७.१७तस्मान् मातृ.बन्धुषु वासः श्रेयान्" इति ॥१७.१८"ध्वज.स्थानम् एतद्" इति वात.व्याधिः ॥१७.१९"तेन हि ध्वजेन_अदिति.कौशिकवद् अस्य मातृ.बान्धवा भिक्षेरन् ॥१७.२०तस्माद् ग्राम्य सुखेष्व् एनम् अवसृजेत् ॥१७.२१सुख.उपरुद्धा हि पुत्राः पितरं न_अभिद्रुह्यन्ति" इति ॥१७.२२जीवन्.मरणम् एतद् इति कौटिल्यः ॥१७.२३काष्ठम् इव घुण.जग्धं राज.कुलम् अविनीत.पुत्रम् अभियुक्त.मात्रं भज्येत ॥१७.२४तस्माद् ऋतुमत्यां महिष्याम् ऋत्विजश् चरुम् ऐन्द्राबार्हस्पत्यं निर्वपेयुः ॥१७.२५आपन्न.सत्त्वायाः कौमार.भृत्यो गर्भ.भर्मणि प्रसवे च वियतेत ॥१७.२६प्रजातायाः पुत्र.संस्कारं पुरोहितः कुर्यात् ॥१७.२७समर्थं तद्विदो विनयेयुः ॥१७.२८"सत्त्रिणाम् एकश् च_एनं मृगया.द्यूत.मद्य.स्त्रीभिः प्रलोभयेत् "पितरि विक्रम्य राज्यं गृहाण" इति ॥१७.२९तम् अन्यः सत्त्री प्रतिषेधयेत्" इत्य् आम्भीयाः ॥१७.३०महा.दोषम् अबुद्ध.बोधनम् इत् कौटिल्यः ॥१७.३१नवं हि द्रव्यं येन येन_अर्थ.जातेन_उपदिह्यते तत् तद् आचूषति ॥१७.३२एवम् अयं नव.बुद्धिर् यद् यद् उच्यते तत् तत्.शास्त्र.उपदेशम् इव_अभिजानाति ॥१७.३३तस्माद् धर्म्यम् अर्थ्यं च_अस्य_उपदिशेन् न_अधर्म्यम् अनर्थ्यं च ॥१७.३४सत्त्रिणस् त्व् एनं "तव स्मः" इति वदन्तः पालयेयुः ॥१७.३५यौवन.उत्सेकात् पर.स्त्रीषु मनः कुर्वाणम् आर्या.व्यञ्जनाभिः स्त्रीभिर् अमेध्याभिः शून्य.आगारेषु रात्राव् उद्वेजयेयुः ॥१७.३६मद्य.कामं योग.पानेन_उद्वेजयेयुः ॥१७.३७द्यूत.कामं कापटिकैर् उद्वेजयेयुः ॥१७.३८मृगया.कामं प्रतिरोधक.व्यञ्जनैस् त्रासयेयुः ॥१७.३९पितरि विक्रम.बुद्धिं "तथा" इत्य् अनुप्रविश्य भेदयेयुः - "अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरक.पातः, संक्रोशः, प्रजाभिर् एक.लोष्ट.वधश् च" इति ॥१७.४०विरागं वेदयेयुः ॥१७.४१प्रियम् एक.पुत्रं बध्नीयात् ॥१७.४२बहु.पुत्रः प्रत्यन्तम् अन्य.विषयं वा प्रेषयेद् यत्र गर्भः पण्यं डिम्बो वा न भवेत् ॥१७.४३आत्म.सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ॥१७.४४बुद्धिमान्.आहार्य.बुद्धिर् दुर्बुद्धिर् इति पुत्र.विशेषाः ॥१७.४५शिष्यमाणो धर्म.अर्थाव् उपलभते च_अनुतिष्ठति च बुद्धिमान् ॥१७.४६उपलभमानो न_अनुतिष्ठत्य् आहार्य.बुद्धिः ॥१७.४७अपाय.नित्यो धर्म.अर्थ.द्वेषी च_इति दुर्बुद्धिः ॥१७.४८स यद्य् एक.पुत्रः पुत्र.उत्पत्ताव् अस्य प्रयतेत ॥१७.४९पुत्रिका.पुत्रान् उत्पादयेद् वा ॥१७.५०वृद्धस् तु व्याधितो वा राजा मातृ.बन्धु.कुल्य.गुणवत्.सामन्तानाम् अन्यतमेन क्षेत्रे बीजम् उत्पादयेत् ॥१७.५१न च_एक.पुत्रम् अविनीतं राज्ये स्थापयेत् ॥१७.५२बहूनाम् एक.सम्रोधः पिता पुत्र.हितो भवेत् ।१७.५२अन्यत्र_आपद ऐश्वर्यं ज्येष्ठ.भागि तु पूज्यते ॥१७.५३कुलस्य वा भवेद् राज्यं कुल.संघो हि दुर्जयः ।१७.५३अराज.व्यसन.आबाधः शश्वद् आवसति क्षितिम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP