संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १| भाग ४ अध्याय १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ अर्थशास्त्रम् अध्याय ०१ - भाग ४ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ४ Translation - भाषांतर ४.०१कृषि.पाशुपाल्ये वणिज्या च वार्ता, धान्य.पशु.हिरण्य.कुप्य.विष्टि.प्रदानाद् औपकारिकी ॥४.०२तया स्व.पक्षं पर.पक्षं च वशी.करोति कोश.दण्डाभ्याम् ॥४.०३आन्वीक्षिकी त्रयी वार्त्तानां योग.क्षेम.साधनो दण्डः, तस्य नीतिर् दण्ड नीतिः, अलब्ध.लाभ.अर्था लब्ध.परिरक्षणी रक्षित.विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ॥४.०४तस्याम् आयत्ता लोक.यात्रा ॥४.०५"तस्माल् लोक.यात्रा.अर्थी नित्यम् उद्यत.दण्डः स्यात् ॥४.०६न ह्य् एवंविधं वश.उपनयनम् अस्ति भूतानां यथा दण्डः ।" इत्य् आचार्याः ॥४.०७न_इति कौटिल्यः ॥४.०८तीक्ष्ण.दण्डो हि भूतानाम् उद्वेजनीयो भवति ॥४.०९मृदु.दण्डः परिभूयते ॥४.१०यथा.अर्ह.दण्डः पूज्यते ॥४.११सुविज्ञात.प्रणीतो हि दण्डः प्रजा धर्म.अर्थ.कामैर् योजयति ॥४.१२दुष्प्रणीतः काम.क्रोधाभ्याम् अवज्ञानाद् वा वानप्रस्थ.परिव्राजकान् अपि कोपयति, किं.अङ्ग पुनर् गृहस्थान् ॥४.१३अप्रणीतस् तु मात्स्य.न्यायम् उद्भावयति ॥४.१४बलीयान् अबलं हि ग्रसते दण्ड.धर.अभावे ॥४.१५स तेन गुप्तः प्रभवति इति ॥४.१६चतुर्.वर्ण.आश्रमो लोको राज्ञा दण्डेन पालितः ।४.१६स्वधर्म.कर्म.अभिरतो वर्तते स्वेषु वर्त्मसु ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP