संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १| भाग १३ अध्याय १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ अर्थशास्त्रम् अध्याय ०१ - भाग १३ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १३ Translation - भाषांतर १३.०१कृत.महा.मात्र.अपसर्पः पौर.जानपदान् अपसर्पयेत् ॥१३.०२सत्त्रिणो द्वन्द्विनस् तीर्थ.सभा.पूग.जन.समवायेषु विवादं कुर्युः ॥१३.०३"सर्व.गुण.सम्पन्नश् च_अयं राजा श्रूयते, न च_अस्य कश्चिद् गुणो दृश्यते यः पौर.जानपदान् दण्ड.कराभ्यां पीडयति" इति ॥१३.०४तत्र ये_अनुप्रशंसेयुस् तान् इतरस् तं च प्रतिषेधयेत् ॥१३.०५"मात्स्य.न्याय.अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ॥१३.०६धान्य.षड्.भागं पण्य.दश.भागं हिरण्यं च_अस्य भाग.धेयं प्रकल्पयाम्-आसुः ॥१३.०७तेन भृता राजानः प्रजानां योग.क्षेम.आवहाः ॥१३.०८तेषां किल्बिषम् अदण्ड.करा हरन्त्य् अयोग.क्षेम.आवहाश् च प्रजानाम् ॥१३.०९तस्माद् उञ्छ.षड्.भागम् आरण्यका_अपि निर्वपन्ति - "तस्य_एतद् भाग.धेयं यो_अस्मान् गोपायति" इति ॥१३.१०इन्द्र.यम.स्थानम् एतद् राजानः प्रत्यक्ष.हेड.प्रसादाः ॥१३.११तान् अवमन्यमानान् दैवो_अपि दण्डः स्पृशति ॥१३.१२तस्माद् राजानो न_अवमन्तव्याः ॥१३.१३इत्य् एवं क्षुद्रकान् प्रतिषेधयेत् ॥१३.१४किं.वदन्तीं च विद्युः ॥१३.१५ये च_अस्य धान्य.पशु.हिरण्यान्य् आजीवन्ति, तैर् उपकुर्वन्ति व्यसने_अभ्युदये वा, कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति, अमित्रम् आटविकं वा प्रतिषेधयन्ति, तेषां मुण्ड.जटिल.व्यञ्जनास् तुष्ट.अतुष्टत्वं विद्युः ॥१३.१६तुष्टान् भूयो_अर्थ.मानाभ्यां पूजयेत् ॥१३.१७अतुष्टांस् तुष्टि.हेतोस् त्यागेन साम्ना च प्रसादयेत् ॥१३.१८परस्पराद् वा भेदयेद् एनान्, सामन्त.आटविक.तत्.कुलीन.अपरुद्धेभ्यश् च ॥१३.१९तथा_अप्य् अतुष्यतो दण्ड.कर.साधन.अधिकारेण जनपद.विद्वेषं ग्राहयेत् ॥१३.२०विविष्टान् उपांशु.दण्डेन जनपद.कोपेन वा साधयेत् ॥१३.२१गुप्त.पुत्र.दारान् आकर.कर्म.अन्तेषु वा वासयेत् परेषाम् आस्पद.भयात् ॥१३.२२क्रुद्ध.लुब्ध.भीत.मानिनस् तु परेषां कृत्याः ॥१३.२३तेषां कार्तान्तिक.नैमित्तिक.मौहूर्तिक.व्यञ्जनाः परस्पर.अभिसम्बन्धम् अमित्र.आटविक.सम्बन्धं वा विद्युः ॥१३.२४तुष्टान् अर्थ.मानाभ्यां पूजयेत् ।१३.२५अतुष्टान् साम.दान.भेद.दण्डैः साधयेत् ॥१३.२६एवं स्व.विषये कृत्यान् अकृत्यांश् च विचक्षणः ।१३.२६पर.उपजापात् सम्रक्षेत् प्रधानान् क्षुद्रकान् अपि ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP