संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १| भाग ११ अध्याय १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ अर्थशास्त्रम् अध्याय ०१ - भाग ११ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ११ Translation - भाषांतर ११.०१उपधाभिः शुद्ध.अमात्य.वर्गो गूढ.पुरुषान् उत्पादयेत् कापटिक.उदास्थित.गृह.पतिक.वैदेहक.तापस.व्यञ्जनान् सत्त्रि.तीष्क्ण.रसद.भिक्षुकीश् च ॥११.०२पर.मर्मज्ञः प्रगल्भश् छात्रः कापटिकः ॥११.०३तम् अर्थ.मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् - "राजानं मां च प्रमाणं कृत्वा यस्य यद् अकुशलं पश्यसि तत् तदानीम् एव प्रत्यादिश" इति ॥११.०४प्रव्रज्या प्रत्यवसितः प्रज्ञा.शौच.युक्त उदास्थितः ॥११.०५स वार्त्ता.कर्म.प्रदिष्टायां भूमौ प्रभूत.हिरण्य.अन्तेवासी कर्म कारयेत् ॥११.०६कर्म.फलाच् च सर्व.प्रव्रजितानां ग्रास.आच्छादन.आवसथान् प्रतिविदध्यात् ॥११.०७वृत्ति.कामांश् च_उपजपेत् - "एतेन_एव वेषेण राज.अर्थश् चरितव्यो भक्त.वेतन.काले च_उपस्थातव्यम्" इति ॥११.०८सर्व.प्रव्रजिताश् च स्वं स्वं वर्गम् एवम् उपजपेयुः ॥११.०९कर्षको वृत्ति.क्षीणः प्रज्ञा.शौच.युक्तो गृह.पतिक.व्यञ्जनः ॥११.१०स कृषि.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥११.११वाणिजको वृत्ति.क्षीणः प्रज्ञा.शौच.युक्तो वैदेहक.व्यञ्जनः ॥११.१२स वणिक्.कर्म.प्रदिष्टायां भूमौ - इति समानं पूर्वेण ॥११.१३मुण्डो जटिलो वा वृत्ति.कामस् तापस.व्यञ्जनः ॥११.१४स नगर.अभ्याशे प्रभूत.मुण्ड.जटिल.अन्तेवासी शाकं यव.मुष्टिं वा मास.द्विमास.अन्तरं प्रकाशम् अश्नीयात्, गूढम् इष्टम् आहारम् ॥११.१५वैदेहक.अन्तेवासिनश् च_एनं समिद्ध.योगैर् अर्चयेयुः ॥११.१६शिष्याश् च_अस्य_आवेदयेयुः - "असौ सिद्धः सामेधिकः" इति ॥११.१७समेध.आशास्तिभिश् च_अभिगतानाम् अङ्ग.विद्यया शिष्य.संज्ञाभिश् च कर्माण्य् अभिजने अवसितान्य् आदिशेत् - अल्प.लाभम् अग्नि.दाहं चोर.भयं दूष्य.वधं तुष्टि.दानं विदेश.प्रवृत्ति.ज्ञानम्, "इदम् अद्य श्वो वा भविष्यति, इदं वा राजा करिष्यति" इति ॥११.१८तद् अस्य गूढाः सत्त्रिणश् च सम्पादयेयुः ॥११.१९सत्त्व.प्रज्ञा.वाक्य.शक्ति.सम्पन्नानां राज.भाग्यम् अनुव्याहरेत्, मन्त्रि.सम्योगं च ब्रूयात् ॥११.२०मन्त्री च_एषां वृत्ति.कर्मभ्यां वियतेत ॥११.२१ये च कारणाद् अभिक्रुद्धास् तान् अर्थ.मानाभ्यां शमयेत्, अकारण.क्रुद्धांस् तूष्णीं दण्डेन, राज.द्विष्ट.कारिणश् च ॥११.२२पूजिताश् च_अर्थ.मानाभ्यां राज्ञा राज.उपजीविनाम् ।११.२२जानीयुः शौचम् इत्य् एताः पञ्च.संस्थाः प्रकीर्तिताः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP