अर्थशास्त्रम् अध्याय ०१ - भाग ९

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


९.०१
जानपदो अभिजातः स्ववग्रहः कृत.शिल्पश् चक्षुष्मान् प्राज्ञो धारयिष्णुर् दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमान् उत्साह.प्रभाव.युक्तः क्लेश.सहः शुचिर् मैत्रो दृढ.भक्तिः शील.बल.आरोग्य.सत्त्व.युक्तः स्तम्भ.चापल.हीनः सम्प्रियो वैराणाम् अकर्ता_इत्य् अमात्य.सम्पत् ॥

९.०२
अतः पाद.अर्घ.गुण.हीनौ मध्यम.अवरौ ॥

९.०३
तेषां जनपद्.अभिजनम् अवग्रहं च_आप्ततः परीक्षेत, समान.विद्येभ्यः शिल्पं शास्त्र.चक्षुष्मत्तां च, कर्म.आरम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च, कथा.योगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च, संवासिभ्यः शील.बल.आरोग्य.सत्त्व.योगम् अस्तम्भम् अचापलं च, प्रत्यक्षतः सम्प्रियत्वम् अवैरत्वं च ॥

९.०४
प्रत्यक्ष.परोक्ष.अनुमेया हि राज.वृत्तिः ॥

९.०५
स्वयं द्र्ष्टं प्रत्यक्षम् ॥

९.०६
पर.उपदिष्टं परोक्षम् ॥

९.०७
कर्मसु कृतेन_अकृत.अवेक्षणम् अनुमेयम् ॥

९.०८
यौगपद्यात् तु कर्मणाम् अनेकत्वाद् अनेकस्थत्वाच् च देश.काल.अत्ययो मा भूद् इति परोक्षम् अमात्यैः कारयेत् ॥ इत्य् अमात्य.कर्म ।

९.०९
पुरोहितम् उदित.उदित.कुल.शीलं स-अङ्गे वेदे दैवे निमित्ते दण्ड.नीत्यां च_अभिविनीतम् आपदां दैव.मानुषीणाम् अथर्वभिर् उपायैश् च प्रतिकर्तारं कुर्वीत ॥

९.१०
तम् आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनम् इव च_अनुवर्तेत ॥

९.११
ब्राह्मणेन_एधितं क्षत्रं मन्त्रि.मन्त्र.अभिमन्त्रितम् ।

९.११
जयत्य् अजितम् अत्यन्तं शास्त्र.अनुगम.शस्त्रितम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP