संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १| भाग ६ अध्याय १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ अर्थशास्त्रम् अध्याय ०१ - भाग ६ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ६ Translation - भाषांतर ६.०१विद्या विनय.हेतुर् इन्द्रिय.जयः काम.क्रोध.लोभ.मान.मद.हर्ष.त्यागात् कार्यः ॥६.०२कर्ण.त्वग्.अक्षि.जिह्वा.घ्राण.इन्द्रियाणां शब्द.स्पर्श.रूप.रस.गन्धेष्व् अविप्रतिपत्तिर् इन्द्रिय.जयः, शास्त्र.अनुष्ठानं वा ॥६.०३कृत्स्नं हि शास्त्रम् इदम् इन्द्रिय.जयः ॥६.०४तद् विरुद्ध.वृत्तिर् अवश्य.इन्द्रियश् चातुरन्तो अपि राजा सद्यो विनश्यति ॥६.०५यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मण.कन्याम् अभिमन्यमानः स-बन्धु.राष्ट्रो विननाश, करालश् च वैदेहः ॥६.०६कोपाज् जनमेजयो ब्राह्मणेषु विक्रान्तः, ताल.जङ्घश् च भृगुषु ॥६.०७लोभाद् ऐलश् चातुर्वर्ण्यम् अत्याहारयमाणः, सौवीरश् च_अजबिन्दुः ।६.०८मानाद् रावणः पर.दारान् अप्रयच्छन्, दुर्योधनो राज्याद् अंशं च ॥६.०९मदाद् दम्भोद्भवो भूत.अवमानी, हैहयश् च_अर्जुनः ॥६.१०हर्षाद् वातापिर् अगस्त्यम् अत्यासादयन्, वृष्णि.संघश् च द्वैपायनम् इति ॥६.११एते च_अन्ये च बहवः शत्रु.षड्.वर्गम् आश्रिताः ।६.११स-बन्धु.राष्ट्रा राजानो विनेशुर् अजित.इन्द्रियाः ॥६.१२शत्रु.षड्.वर्गम् उत्सृज्य जामदग्न्यो जित.इन्द्रियः ।६.१२अम्बरीषश् च नाभागो बुभुजाते चिरं महीम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP