संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १| भाग ५ अध्याय १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ अर्थशास्त्रम् अध्याय ०१ - भाग ५ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ५ Translation - भाषांतर ५.०१तस्माद् दण्ड.मूलास् तिस्रो विद्याः ॥५.०२विनय.मूलो दण्डः प्राणभृतां योग.क्षेम.आवहः ॥५.०३कृतकः स्वाभाविकश् च विनयः ॥५.०४क्रिया हि द्रव्यं विनयति न_अद्रव्यम् ॥५.०५शुश्रूषा श्रवण.ग्रहण.धारण.विज्ञान.ऊह.अपोह.तत्त्व.अभिनिविष्ट.बुद्धिं विद्या विनयति न_इतरम् ॥५.०६विद्यानां तु यथास्वम् आचार्य.प्रामाण्याद् विनयो नियमश् च ॥५.०७वृत्त.चौल.कर्मा लिपिं संख्यानं च_उपयुञ्जीत ॥५.०८वृत्त.उपनयनस् त्रयीम् आन्वीक्षिकीं च शिष्टेभ्यो वार्त्ताम् अध्यक्षेभ्यो दण्ड.नीतिं वक्तृ.प्रयोक्तृभ्यः ॥५.०९ब्रह्मचर्यं च षोडशाद् वर्षात् ॥५.१०अतो गो.दानं दार.कर्म च_अस्य ॥५.११नित्यश् च विद्या.वृद्ध.सम्योगो विनय.वृद्ध्य्.अर्थम्, तन्.मूलत्वाद् विनयस्य ॥५.१२पूर्वम् अहर्.भागं हस्त्य्.अश्व.रथ.प्रहरण.विद्यासु विनयं गच्छेत् ।५.१३पश्चिमम् इतिहास.श्रवणे ॥५.१४पुराणम् इतिवृत्तम् आख्यायिक.उदाहरणं धर्म.शास्त्रम् अर्थ.शास्त्रं च_इति_इतिहासः ॥५.१५शेषम् अहोरात्र.भागम् अपूर्व.ग्रहणं गृहीत.परिचयं च कुर्यात्, अगृहीतानाम् आभीक्ष्ण्य.श्रवणं च ॥५.१६श्रुताद्द् हि प्रज्ञा_उपजायते प्रज्ञाया योगो योगाद् आत्मवत्ता_इति विद्यानां सामर्थ्यम् ॥५.१७विद्या.विनीतो राजा हि प्रजानां विनये रतः ।५.१७अनन्यां पृथिवीं भुङ्क्ते सर्व.भूत.हिते रतः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP