संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १| भाग १५ अध्याय १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ अर्थशास्त्रम् अध्याय ०१ - भाग १५ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १५ Translation - भाषांतर १५.०१कृत.स्व.पक्ष.पर.पक्ष.उपग्रहः कार्य.आरम्भांश् चिन्तयेत् ॥१५.०२मन्त्र.पूर्वाः सर्व.आरम्भाः ॥१५.०३तद्.उद्देशः संवृतः कथानाम् अनिह्श्रावी पक्षिभिर् अप्य् अनालोक्यः स्यात् ।१५.०४श्रूयते हि शुक.सारिकाभिर् मन्त्रो भिन्नः, श्वभिर् अप्य् अन्यैश् च तिर्यग्.योनिभिर् इति ॥१५.०५तस्मान् मन्त्र.उद्देशम् अनायुक्तो न_उपगच्छेत् ॥१५.०६उच्छिद्येत मन्त्र.भेदी ॥१५.०७मन्त्र.भेदो हि दूत.अमात्य.स्वामिनाम् इङ्गित.आकाराभ्याम् ॥१५.०८इङ्गितम् अन्यथा.वृत्तिः ॥१५.०९आकृति.ग्रहणम् आकारः ॥१५.१०तस्य संवरणम् आयुक्त.पुरुष.रक्षणम् आ.कार्य.कालाद् इति ॥१५.११तेषां हि प्रमाद.मद.सुप्त.प्रलापाः, काम.आदिर् उत्सेकः, प्रच्छन्नो_अवमतो वा मन्त्रं भिनत्ति ॥१५.१२तस्माद् आद्रक्षेन् मन्त्रम् ॥१५.१३"मन्त्र.भेदो ह्य् अयोग.क्षेम.करो राज्ञस् तद्.आयुक्त.पुरुषाणां च ॥१५.१४तस्माद् गुह्यम् एको मन्त्रयेत" इति भारद्वाजः ॥१५.१५"मन्त्रिणाम् अपि हि मन्त्रिणो भवन्ति, तेषाम् अप्य् अन्ये ॥१५.१६सा_एषा मन्त्रि.परम्परा मन्त्रं भिनत्ति ॥१५.१७"तस्मान् न_अस्य परे विद्युः कर्म किंचिच् चिकीर्षितम् ।१५.१७आरब्धारस् तु जानीयुर् आरब्धं कृतम् एव वा ॥१५.१८"न_एकस्य मन्त्र.सिद्धिर् अस्ति" इति विशाल.अक्षः ॥१५.१९"प्रत्यक्ष.परोक्ष.अनुमेया हि राज.वृत्तिः ॥१५.२०अनुपलब्धस्य ज्ञानम् उपलब्धस्य निश्चित.बल.आधानम् अर्थ.द्वैधस्य संशयच्.छेदनम् एक.देश.दृष्टस्य शेष.उपलब्धिर् इति मन्त्रि.साध्यम् एतत् ॥१५.२१तस्माद् बुद्धि.वृद्धैः सार्धम् अध्यासीत मन्त्रम् ॥१५.२२"न कंचिद् अवमन्येत सर्वस्य शृणुयान् मतम् ।१५.२२बालस्य_अप्य् अर्थवद्.वाक्यम् उपयुञ्जीत पण्डितः ॥"१५.२३"एतन् मन्त्र.ज्ञानम्, न_एतन् मन्त्र.रक्षणम्" इति पाराशराः ॥१५.२४"यद् अस्य कार्यम् अभिप्रेतं तत्.प्रतिरूपकं मन्त्रिणः पृच्छेत् - "कार्यम् इदम् एवम् आसीत्, एवं वा यदि भवेत्, तत् कथं कर्तव्यम्" इति ॥१५.२५ते यथा ब्रूयुस् तत् कुर्यात् ॥१५.२६एवं मन्त्र.उपलब्धिः संवृतिश् च भवति" इति ॥१५.२७न_इति पिशुनः ॥१५.२८"मन्त्रिणो हि व्यवहितम् अर्थं वृत्तम् अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ॥१५.२९स दोषः ॥१५.३०तस्मात् कर्मसु ये येष्व् अभिप्रेतास् तैः सह मन्त्रयेत ॥१५.३१तैर् मन्त्रयमाणो हि मन्त्र.सिद्धिं गुप्तिं च लभते" इति ॥१५.३२न_इति कौटिल्यः ॥१५.३३अनवस्था ह्य् एषा ॥१५.३४मन्त्रिभिस् त्रिभिश् चतुर्भिर् वा सह मन्त्रयेत ॥१५.३५मन्त्रयमाणो ह्य् एकेन_अर्थ.कृच्छ्रेषु निश्चयं न_अधिगच्छेत् ॥१५.३६एकश् च मन्त्री यथा.इष्टम् अनवग्रहश् चरति ॥१५.३७द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्याम् अवगृह्यते, विगृहीताभ्यां विनाश्यते ॥१५.३८तत् त्रिषु चतुषु वा कृच्छ्रेण_उपपद्यते ॥१५.३९महा.दोषम् उपपन्नं तु भवति ॥१५.४०ततः परेषु कृच्छ्रेण_अर्थ.निश्चयो गम्यते, मन्त्रो वा रक्ष्यते ॥१५.४१देश.काल.कार्य.वशेन त्व् एकेन सह द्वाभ्याम् एको वा यथा.सामर्थ्यं मन्त्रयेत ॥(अल्तेर्णतिवे विएwस् अप्प्रोवेद्)१५.४२कर्मणाम् आरम्भ.उपायः पुरुष.द्रव्य.सम्पद् देश.काल.विभागो विनिपात.प्रतीकारः कार्य.सिद्धिर् इति पञ्च.अङ्गो मन्त्रः ॥१५.४३तान् एकैकशः पृच्छेत् समस्तांश् च ॥१५.४४हेतुभिश् च_एषां मति.प्रविवेकान् विद्यात् ॥१५.४५अवाप्त.अर्थः कालं न_अतिक्रामयेत् ॥१५.४६न दीर्घ.कालं मन्त्रयेत, न तेषां पक्षीयैर् येषाम् अपकुर्यात् ॥१५.४७"मन्त्रि.परिषदं द्वादश.अमात्यान् कुर्वीत" इति मानवाः ॥१५.४८"षोडश" इति बार्हस्पत्याः ॥१५.४९"विंशतिम्" इत्य् औशनसाः ॥१५.५०यथा.सामर्थ्यम् इति कौटिल्यः ॥१५.५१ते ह्य् अस्य स्व.पक्षं पर.पक्षं च चिन्तयेयुः ॥१५.५२अकृत.आरम्भम् आरब्ध.अनुष्ठानम् अनुष्ठित.विशेषं नियोग.सम्पदं च कर्मणां कुर्युः ॥१५.५३आसन्नैः सह कर्माणि पश्येत् ॥१५.५४अनासन्नैः सह पत्त्र.सम्प्रेषणेन मन्त्रयेत ॥१५.५५इन्द्रस्य हि मन्त्रि.परिषद्.ऋषीणां सहस्रम् ॥१५.५६स तच् चक्षुः ॥१५.५७तस्माद् इमं द्व्य्.अक्षं सहस्र.अक्षम् आहुः ॥१५.५८आत्ययिके कार्ये मन्त्रिणो मन्त्रि.परिषदं च_आहूय ब्रूयात् ॥१५.५९तत्र यद्.भूयिष्ठा ब्रूयुः कार्य.सिद्धि.करं वा तत् कुर्यात् ॥१५.६०कुर्वतश् च --१५.६०न_अस्य गुह्यं परे विद्युश् छिद्रं विद्यात् परस्य च ।१५.६०गूहेत् कूर्म_इव_अङ्गानि यत् स्याद् विवृतम् आत्मनः ॥१५.६१यथा ह्य् अश्रोत्रियः श्राद्धं न सतां भोक्तुम् अर्हति ।१५.६१एवम् अश्रुत.शास्त्र.अर्थो न मन्त्रं श्रोतुम् अर्हति ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP