संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय १| भाग १० अध्याय १ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ अर्थशास्त्रम् अध्याय ०१ - भाग १० कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १० Translation - भाषांतर १०.०१मन्त्रि.पुरोहित.सखः सामान्येष्व् अधिकरणेषु स्थापयित्वा_अमात्यान् उपधाभिः शोधयेत् ॥१०.०२पुरोहितम् अयाज्य.याजन.अध्यापने नियुक्तम् अमृष्यमाणं राजा_अवक्षिपेत् ॥१०.०३स सत्त्रिभिः शपथ.पूर्वम् एकैकम् अमात्यम् उपजापयेत् - "अधार्मिको अयं राजा, साधु धार्मिकम् अन्यम् अस्य तत्.कुलीनम् अपरुद्धं कुल्यम् एक.प्रग्रहं सामन्तम् आटविकम् औपपादिकं वा प्रतिपादयामः, सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥१०.०४प्रत्याख्याने शुचिः । इति धर्म.उपधा ॥१०.०५सेना.पतिर् असत्.प्रग्रहेण_अवक्षिप्तः सत्त्रिभिर् एकैकम् अमात्यम् उपजापयेत् लोभनीयेन_अर्थेन राज.विनाशाय, "सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥१०.०६प्रत्याख्याने शुचिः । इत्य् अर्थ.उपधा ॥१०.०७परिव्राजिका लब्ध.विश्वासा_अन्तःपुरे कृत.सत्कारा महा.मात्रम् एकैकम् उपजपेत् - "राज.महिषी त्वां कामयते कृत.समागम.उपाया, महान् अर्थश् च ते भविष्यति" इति ॥१०.०८प्रत्याख्याने शुचिः । इति काम.उपधा ॥१०.०९प्रहवण.निमित्तम् एको अमात्यः सर्वान् अमात्यान् आवाहयेत् ॥१०.१०तेन_उद्वेगेन राजा तान् अवरुन्ध्यात् ॥१०.११कापटिकश् च_अत्र पूर्व.अवरुद्धस् तेषाम् अर्थ.मान.अवक्षिप्तम् एकैकम् अमात्यम् उपजपेत् - "असत् प्रवृत्तो अयं राजा, साध्व् एनं हत्वा_अन्यं प्रतिपादयामः, सर्वेषाम् एतद् रोचते, कथं वा तव" इति ॥१०.१२प्रत्याख्याने शुचिः । इति भय.उपधा ॥१०.१३तत्र धर्म.उपधा.शुद्धान् धर्म.स्थीय.कण्टक.शोधनेषु कर्मसु स्थापयेत्, अर्थ.उपधा.शुद्धान् समाहर्तृ.सम्निधातृ.निचय.कर्मसु, काम.उपधा शुद्धान् बाह्य.आभ्यन्तर.विहार.रक्षासु, भय.उपधा.शुद्धान् आसन्न.कार्येषु राज्ञः ॥१०.१४सर्व.उपधा.शुद्धान् मन्त्रिणः कुर्यात् ॥१०.१५सर्वत्र_अशुचीन् खनि.द्रव्य.हस्ति.वन.कर्म.अन्तेषु उपयोजयेत् ॥१०.१६त्रिवर्ग.भय.संशुद्धान् अमात्यान् स्वेषु कर्मसु ।१०.१६अधिकुर्याद् यथा शौचम् इत्य् आचार्या व्यवस्थिताः ॥१०.१७न त्व् एव कुर्याद् आत्मानं देवीं वा लक्ष्यम् ईश्वरः ।१०.१७शौच.हेतोर् अमात्यानाम् एतत् कौटिल्य.दर्शनम् ॥१०.१८न दूषणम् अदुष्टस्य विषेण_इव_अम्भसश् चरेत् ।१०.१८कदाचिद्द् हि प्रदुष्टस्य न_अधिगम्येत भेषजम् ॥१०.१९कृता च कलुषा.बुद्धिर् उपधाभिश् चतुर्विधा ।१०.१९न_अगत्वा_अन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ ॥१०.२०तस्माद् बाह्यम् अधिष्ठानं कृत्वा कार्ये चतुर्विधे ।१०.२०शौच.अशौचम् अमात्यानां राजा मार्गेत सत्त्रिभिः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP