अर्थशास्त्रम् अध्याय ०१ - भाग २

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


२.०१
आन्वीक्षिकी त्रयी वार्त्ता दण्ड.नीतिश् च_इति विद्याः ॥

२.०२
त्रयी वार्त्ता दण्ड नीतिश् च_इति मानवाः ॥

२.०३
त्रयी विशेषो ह्य् आन्वीक्षिकी_इति ॥

२.०४
वार्त्ता दण्ड.नीतिश् च_इति बार्हस्पत्याः ॥

२.०५
संवरण.मात्रं हि त्रयी लोक.यात्रा.विद इति ॥

२.०६
दण्ड.नीतिर् एका विद्या_इत्य् औशनसाः ॥

२.०७
तस्यां हि सर्व.विद्या.आरम्भाः प्रतिबद्धा इति ॥

२.०८
चतस्र एव विद्या इति कौटिल्यः ॥

२.०९
ताभिर् धर्म.अर्थौ यद् विद्यात् तद् विद्यानां विद्यात्वम् ॥

२.१०
सांख्यं योगो लोकायतं च_इत्य् आन्वीक्षिकी ॥

२.११
धर्म.अधर्मौ त्रय्याम् अर्थ.अनर्थौ वार्त्तायां नय.अनयौ दण्ड.नीत्यां बल.अबले च एतासां हेतुभिर् अन्वीक्षमाणा लोकस्य उपकरोति व्यसने_अभ्युदये च बुद्धिम् अवस्थापयति प्रज्ञा.वाक्य.क्रिया.वैशारद्यं च करोति ॥

२.१२
प्रदीपः सर्व.विद्यानाम् उपायः सर्व.कर्मणाम् ।

२.१२
आश्रयः सर्व.धर्माणां शश्वद् आन्वीक्षिकी मता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP