रसरत्नसमुच्चय - अध्याय १०

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


च्रुचिब्ले
मूषा हि क्रौञ्चिका प्रोक्ता कुमुदी करहाटिका ।
पाचनी वह्निमित्रा च रसवादिभिरीर्यते ॥१॥


च्रुचिब्ले-निरुक्ति
मुष्णाति दोषान् मूषा या सा मूषेति निगद्यते ॥२॥


च्रुचिब्ले
उपादानं भवेत्तस्या मृत्तिका लोहमेव च ॥३॥

मूषामुखविनिष्क्रान्ता वरमेकापि काकिणी ।
दुर्जनप्रणिपातेन धिग्लक्षम् अपि मानिनाम् ॥४॥


संधिलेप
मूषापिधानयोर्बन्धे बन्धनं संधिलेपनम् ।
अन्ध्रणं रन्ध्रणं चैव संश्लिष्टं संधिबन्धनम् ॥५॥


टोन्
मृत्तिका पाण्डुरस्थूला शर्करा शोणपाण्डुरा ।
चिराध्मानसहा सा हि मूषार्थम् अतिशस्यते ।
तदभावे च वाल्मीकी कौलाली वा समीर्यते ॥६॥

या मृत्तिका दुग्धतुषैः शणेन शिखित्रकैर् वा हयलद्दिना च ।
लौहेन दण्डेन च कुट्टिता सा साधारणा स्यात् खलु मूषिकार्थे ॥७॥

श्वेताश्मानस् तुषा दग्धाः शिखित्राः शणखर्परे ।
लद्दिः किट्टं कृष्णमृत्स्ना संयोज्या मूषिकामृदि ॥८॥

वज्रमूषा
मृदस्त्रिभागाः शणलद्दिभागौ भागश्च निर्दग्धतुषोपलादेः ।
किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते ॥९॥

योगमूषा
दग्धाङ्गारतुषोपेता मृत्स्ना वल्मीकमृत्तिका ।
तत्तद्विडसमायुक्ता तत्तद्विडविलेपिता ॥१०॥

तया या विहिता मूषा योगमूषेति कथ्यते ।
अनया साधितः सूतो जायते गुणवत्तरः ॥११॥
वज्रद्रावणिकमूषा
गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि ।
समैः समा च मूषामृन्महिषीदुग्धमर्दिता ॥१२॥

क्रौञ्चिका यन्त्रमात्रं हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा वज्रद्रावणिकोचिता ॥१३॥

गारमूषा
दुग्धषड्गुणगाराष्टकिट्टाङ्गारशणान्विता ।
कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता ।
यामयुग्मपरिध्मानान् नासौ द्रवति वह्निना ॥१४॥

वरमूषा
वज्राङ्गारतुषास्तुल्यास् तच्चतुर्गुणमृत्तिका ।
गारा च मृत्तिकातुल्या सर्वैर् एतैर् विनिर्मिता ।
वरमूषेति निर्दिष्टा याममग्निं सहेत सा ॥१५॥

वर्णमूषा
पाषाणरहिता रक्ता रक्तवर्गानुसाधिता ।
मृत्तया साधिता मूषा क्षितिखेचरलेपिता ।
वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ॥१६॥

रूप्यमूषा
पाषाणरहिता श्वेता श्वेतवर्गानुसाधिता ।
मृत् तया साधिता मूषा क्षितिखेचरलेपिता ।
रौप्यमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ॥१७॥


विडमूषा
तत्तद्भेदमृदोद्भूता तत्तद्विडविलेपिता ।
देहलोहार्थयोगार्थं विडमूषेत्युदाहृता ॥१८॥

वज्रद्रावणिकमूषा (२)
गारभूनागधौताभ्यां तुषमृष्टशणेन च ।
समैः समा च मूषामृन्महिषीदुग्धमर्दिता ॥१९॥

क्रौञ्चिका यन्त्रमात्रे हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा लिप्ता मत्कुणशोणितैः ॥२०॥

बालाब्दध्वनिमूलैश्च वज्रद्रावणक्रौञ्चिका ।
सहतेऽग्निं चतुर्यामं द्रवेण व्याधिता सती ॥२१॥

मूषाप्यायन
द्रवे द्रवीभावमुखे मूषाया ध्मानयोगतः ।
क्षणमुद्धरणं यत्तन्मूषाप्यायनम् उच्यते ॥२२॥

वृन्ताकमूषा
वृन्ताकाकारमूषायां नालं द्वादशकाङ्गुलम् ।
धत्तूरपुष्पवच् चोर्ध्वं सुदृढं श्लिष्टपुष्पवत् ॥२३॥

अष्टाङ्गुलं च सच्छिद्रं सा स्याद् वृन्ताकमूषिका ।
अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ॥२४॥

गोस्तनमूषा
मूषा या गोस्तनाकारा शिखायुक्तपिधानका ।
सत्त्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ॥२५॥

मल्लमूषा
निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् ।
पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता ॥२६॥

पक्वमूषा
कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता पोट्टल्यादिविपाचने ॥२७॥

गोलमूषा
निर्वक्त्रगोलकाकारा पुटनद्रव्यगर्भिणी ।
गोलमूषेति सा प्रोक्ता सत्वरद्रवरोधिनी ॥२८॥

महामूषा
तले या कूर्पराकारा क्रमादुपरि विस्तृता ।
स्थूलवृन्ताकवत् स्थूला महामूषेत्यसौ स्मृता ।
सा चायोऽभ्रकसत्त्वादेः पुटाय द्रावणाय च ॥२९॥

मण्डूकमूषा
मण्डूकाकारा या निम्नतायामविस्तरा ।
षडङ्गुलप्रमाणेन मूषा मण्डूकसंज्ञिका ।
भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि ॥३०॥

मूसल-/मुशलमूषा
मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया ।
मूषा सा मूसलाख्या स्याच्चक्रिबद्धरसे हिता ॥३१॥

कोष्ठी
सत्त्वानां पातनार्थाय पातितानां विशुद्धये ।
कोष्ठिका विविधाकारास्तासां लक्षणम् उच्यते ॥३२॥

अङ्गारकोष्ठी
राजहस्तसमुत्सेधा तदर्धायामविस्तरा ।
चतुरस्रा च कुड्येन वेष्टिता मृन्मयेन च ॥३३॥

एकभित्तौ चरेद्द्वारं वितस्त्याभोगसंयुतम् ।
द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम् ॥३४॥

देहल्यधो विधातव्यं धमनाय यथोचितम् ।
प्रादेशप्रमिता भित्तिर् उत्तरङ्गस्य चोर्ध्वतः ॥३५॥

द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु ।
ततश्चेष्टिकया रुद्ध्वा द्वारसंधिं विलिप्य च ॥३६॥

शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन च ।
शिखित्रान् धमनद्रव्यम् ऊर्ध्वद्वारेण निक्षिपेत् ॥३७॥

सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः ।
भवेद् अङ्गारकोष्ठीयं खराणां सत्त्वपातिनी ॥३८॥

पातालकोष्ठी
दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् ।
वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् ॥३९॥

चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् ।
गर्ताद्धरणिपर्यन्तं तिर्यङ्नालसमन्वितम् ॥४०॥

किंचित् समुन्नतं बाह्यगर्ताभिमुखनिम्नगम् ।
मृच्चक्रीं पञ्चरन्ध्राढ्यां गर्भगर्तोदरे क्षिपेत् ॥४१॥

आपूर्य कोकिलैः कोष्ठीं प्रधमेद् एकभस्त्रया ।
पातालकोष्ठिका ह्य् एषा मृदूनां सत्त्वपातिनी ।
ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता ॥४२॥

गारकोष्ठी
द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा ।
चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता ॥४३॥

भूरिच्छिद्रवतीं चक्रीं वलयोपरि निक्षिपेत् ।
शिखित्रांस्तत्र निक्षिप्य प्रधमेद् वङ्कनालतः ।
गारकोष्ठीयम् आख्याता मृष्टलोहविनाशिनी ॥४४॥

वङ्कनाल
मूषामृद्भिर् विधातव्यम् अरत्निप्रमितं दृढम् ।
अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं खलु ।
वङ्कनालम् इदं प्रोक्तं दृढध्मानाय कीर्तितम् ॥४५॥

मूषाकोष्ठी/तिर्यक्प्रधमनकोष्ठी
कोष्ठी सिद्धरसादीनां विधानाय विधीयते ।
द्वादशाङ्गुलकोत्सेधा सा बुध्ने चतुरङ्गुला ।
तिर्यक्प्रधमनास्या च मृदुद्रव्यविशोधिनी ॥४६॥

पुट
रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ।
नेष्टो न्यूनाधिकः पाकः सुपाकं हितम् औषधम् ॥४७॥

लोहादेरपुनर्भावो गुणाधिक्यं ततोऽग्रता ।
अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत् ॥४८॥

पुटाद् ग्राव्णो लघुत्वं च शीघ्रव्याप्तिश्च दीपनम् ।
जारितादपि सूतेन्द्राल्लोहानाम् अधिको गुणः ॥४९॥

यथाश्मनि विशेद् वह्निर् बहिःस्थपुटयोगतः ।
चूर्णत्वाद्धि गुणावाप्तिस्तथा लोहेषु निश्चितम् ॥५०॥

महापुट
निम्नविस्तरतः कुण्डे द्विहस्ते चतुरस्रके ।
वनोत्पलसहस्रेण पूरिते पुटनौषधम् ॥५१॥

क्रौञ्च्यां रुद्धं प्रयत्नेन पिष्टिकोपरि निक्षिपेत् ।
वनोत्पलसहस्रार्धं क्रौञ्चिकोपरि विन्यसेत् ।
वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् ॥५२॥

गजपुट
राजहस्तप्रमाणेन चतुरस्रं च निम्नकम् ।
पूर्णं चोपलसाठीभिः कण्ठावध्यथ विन्यसेत् ॥५३॥

विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरिताम् ।
पूर्णच्छगणतोऽर्धानि गिरिण्डानि विनिक्षिपेत् ।
एतद्गजपुटं प्रोक्तं महागुणविधायकम् ॥५४॥

वाराहपुट
इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते ॥५५॥


कुक्कुटपुट
पुटं भूमितले तत्तद्वितस्तिद्वितयोच्छ्रयम् ।
तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् ॥५६॥

कपोतपुट
यत्पुटं दीयते भूमाव् अष्टसंख्यैर् वनोपलैः ।
बद्ध्वा सूतार्कभस्मार्थं कपोतपुटमुच्यते ॥५७॥

गोवर
गोष्ठान्तर्गोक्षुरक्षुण्णं शुष्कं चूर्णितगोमयम् ।
गोवरं तत्समादिष्टं वरिष्ठं रससाधने ॥५८॥


गोवरपुट
गोवरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते ।
तद्गोवरपुटं प्रोक्तं रसभस्मप्रसिद्धये ॥५९॥

भाण्डपुट
स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते ।
वह्निना विहिते पाके तद्भाण्डपुटमुच्यते ॥६०॥


वालुकापुट
अधस्तादुपरिष्टाच्च क्रौञ्चिकाच्छाद्यते खलु ।
वालुकाभिः प्रतप्ताभिर्यत्र तद्वालुकापुटम् ॥६१॥


भूधरपुट
वह्निमित्राः क्षितौ सम्यङ्निखन्याद् द्व्यङ्गुलादधः ।
उपरिष्टात्पुटं यत्र पुटं तद् भूधराह्वयम् ॥६२॥

लावकपुट
ऊर्ध्वं षोडशिकामूत्रैस्तुषैर्वा गोवरैः पुटम् ।
यत्र तल्लावकाख्यं स्यात् सुमृदुद्रव्यसाधने ॥६३॥

पुट-देfऔल्त् दिमेन्सिओन्स्
अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् ।
पुटं विज्ञाय दातव्यम् ऊहापोहविचक्षणैः ॥६४॥

उपल
पिष्टकं छगणं छाणम् उत्पलं चोपलं तथा ।
गिरिण्डोपलसाठी च वराटी छगणाभिधाः ॥६५॥


कृत्रिमलोहानि
सुवर्णं रजतं ताम्रं त्रपु सीसकम् आयसम् ।
षडेतानि च लोहानि कृत्रिमौ कांस्यपित्तलौ ॥६६॥


षड्लवण
लवणानि षड् उच्यन्ते सामुद्रं सैन्धवं विडम् ।
सौवर्चलं रोमकं च चूलिकालवणं तथा ॥६७॥


क्षारत्रय
क्षारत्रयं समाख्यातं यवसर्जिकटङ्कणम् ॥६८॥


क्षारपञ्चक
पलाशमुष्ककक्षारौ यवक्षारः सुवर्चिका ।
तिलनालोद्भवः क्षारः संयुक्तं क्षारपञ्चकम् ॥६९॥


मधुरत्रय
घृतं गुडो माक्षिकं च विज्ञेयं मधुरत्रयम् ॥७०॥

ओइल्-संस्कारस्
कङ्गुणी तुम्बिनी घोषा करीरश्रीफलोद्भवम् ।
कटुवार्त्ताकसिद्धार्थसोमराजीविभीतजम् ॥७१॥

अतसीजं महाकालीनिम्बजं तिलजं तथा ।
अपामार्गाद्देवदालीदन्तीतुम्बुरुविग्रहात् ॥७२॥

अङ्कोलोन्मत्तभल्लातपलाशेभ्यस् तथैव च ।
एतेभ्यस्तैलमादाय रसकर्मणि योजयेत् ॥७३॥


वसावर्ग
जम्बूकमण्डूकवसा वसा कच्छपसम्भवा ।
कर्कटीशिशुमारी च गोशूकरनरोद्भवा ।
अजोष्ट्रखरमेषाणां महिषस्य वसा तथा ॥७४॥


मूत्रवर्ग
मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् ।
गोऽजावीनां स्त्रियः पुंसां पुष्पं बीजं तु योजयेत् ॥७५॥


पञ्चमाहिष
माहिषाम्बु दधि क्षीरं साभिघारं शकृद्रसः ।

छागलपञ्चक
तत्पञ्चमाहिषं ज्ञेयं तद्वच्छागलपञ्चकम् ॥७६॥

अम्लवर्ग
अम्लवेतसजम्बीरनिम्बुकं बीजपूरकम् ।

चाङ्गेरी चणकाम्लं च अम्लीकं कोलदाडिमम् ॥७७॥

अम्बष्ठा तिन्तिडीकं च नागरं रसपत्त्रिका ।

करवन्दं तथा चान्यदम्लवर्गः प्रकीर्तितः ॥७८॥

चणकाम्लश्च सर्वेषामेक एव प्रशस्यते ।
अम्लवेतसमेकं वा सर्वेषामुत्तमोत्तमम् ।

अम्लवर्ग
रसादीनां विशुद्ध्यर्थं द्रावणे जारणे हितम् ॥७९॥


अम्लपञ्चक
कोलदाडिमवृक्षाम्लचुल्लिकाचुक्रिकारसः ।
पञ्चाम्लकं समुद्दिष्टं तच्चोक्तं चाम्लपञ्चकम् ॥८०॥


पञ्चमृत्तिका
इष्टिका गैरिका लोणं भस्म वल्मीकमृत्तिका ।
रसप्रयोगकुशलैः कीर्तिताः पञ्चमृत्तिकाः ॥८१॥


विषवर्ग
शृङ्गीकं कालकूटं च वत्सनाभं सकृत्रिमम् ।
पित्तं च विषवर्गोऽयं स वरः परिकीर्तितः ॥८२॥

रसकर्मणि शस्तोऽयं तद्भेदनविधाव् अपि ।
अयुक्त्या सेवितश्चायं मारयत्येव निश्चितम् ॥८३॥


उपविष
लाङ्गली विषमुष्टिश्च करवीरं जया तथा ।

नीलकः कनकोऽर्कश्च वर्गो ह्य् उपविषात्मकः ॥८४॥


दुग्धवर्ग
हस्त्यश्ववनिता धेनुर्गर्दभी छागिकाविका ।
उष्ट्रिकोदुम्बराश्वत्थभानुन्यग्रोधतिल्वकम् ॥८५॥

दुग्धिका स्नुग्गुणश् चैव तथैवोत्तमकण्टिका ।

एषां दुग्धैर् विनिर्दिष्टो दुग्धवर्गो रसादिषु ॥८६॥


विष्ठावर्ग
पारावतस्य चाषस्य कपोतस्य कलापिनः ।
गृध्रस्य कुक्कुटस्यापि विनिर्दिष्टो हि विड्गणः ।

विड्वर्ग
शोधनं सर्वलोहानां पुटनाल्लेपनात् खलु ॥८७॥


रक्तवर्ग
कुसुम्भं खदिरो लाक्षा मञ्जिष्ठा रक्तचन्दनम् ।
अक्षी च बन्धुजीवश्च तथा कर्पूरगन्धिनी ।

माक्षिकं चेति विज्ञेयो रक्तवर्गोऽतिरञ्जनः ॥८८॥


पीतवर्ग
किंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा ।
पीतवर्गोऽयमादिष्टो रसराजस्य कर्मणि ॥८९॥


श्वेतवर्ग
तगरः कुटजः कुन्दो गुञ्जा जीवन्तिका तथा ।
सिताम्भोरुहकन्दश्च श्वेतवर्ग उदाहृतः ॥९०॥


कृष्णवर्ग
कदली कारवेल्ली च त्रिफला नीलिका नलः ।
पङ्कः कासीसबालाम्रं कृष्णवर्ग उदाहृतः ॥९१॥


रञ्जन
रक्तवर्गादिवर्गैश्च द्रव्यं यज्जारणात्मकम् ।
भावनीयं प्रयत्नेन तादृग्रागाप्तये खलु ॥९२॥

शोधनीयवर्ग
काचटङ्कणशिप्राभिः शोधनीयो गणो मतः ॥९३॥

सत्त्वानां बद्धसूतस्य लोहानां मलनाशनः ।
कापालीकङ्गुणध्वंसी रसवादिभिर् उच्यते ॥९४॥

वर्ग-रेमोविन्ग् हर्द्नेस्स् ओf मेतल्स्
महिषी मेषशृङ्गी च कलिङ्गो धवबीजयुक् ।
शशास्थीनि च योगोऽयं लोहकाठिन्यनाशनः ॥९५॥


वर्ग-धातु
गुडगुग्गुलुगुञ्जाज्यसारघैष् टङ्गणान्वितैः ।
दुर्द्रावाखिललोहादेर् द्रावणाय गणो मतः ॥९६॥

क्षाराः सर्वे मलं हन्युर् अम्लं शोधनजारणम् ।
मान्द्यं विषाणि निघ्नन्ति स्नैग्ध्यं स्नेहाः प्रकुर्वते ॥९७॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP