रसरत्नसमुच्चय - अध्याय १७

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अथ मूत्रकृच्छ्राश्मर्यादिचिकित्सनम्
कटौ कुक्षिप्रदेशे च शूलं प्रथमतो भवेत् ।
पश्चाद्रोधो ज्वलन्मूत्रम् अश्मरीरोगलक्षणम् ॥१॥


पाषाणभेदीरसः
रसं द्विगुणगंधेन मर्दयित्वा प्रयत्नतः ।
वसुः पुनर्नवा वासा श्वेता ग्राह्या प्रयत्नतः ॥२॥

तद्द्रवैर्भावयेदेनं प्रत्येकं तु दिनत्रयम् ।
पक्वं मूषागतं शुष्कं स्वेदयेज्जलयन्त्रतः ॥३॥

पाषाणभेदी नामायं नियुञ्जीतास्य वल्लयुक् ।
गोपालकर्कटीदुग्धं भूम्यामलकमूलिका ।
कुलत्थक्वाथतोयेन पिष्ट्वा तदनुपाययेत् ॥४॥


द्वितीयः पाषाणभेदीरसः
रसेन सितवर्षाभ्वा रसं द्विगुणगंधकम् ।
घृष्टं पचेच्च मूषायां द्वौ माषौ तस्य भक्षयेत् ॥५॥

पातालकर्कटीमूलं कुलत्थोदैः पिबेदनु ।
गोकण्टकसदाभद्रामूलक्वाथं पिबेन्निशि ।
अयं पाषाणभिन्नाम्ना रसः पाषाणभेदकः ॥६॥

गोक्षुरबीजसमुत्थं चूर्णमविक्षीरसंयुक्तम् ।
रसवरमिश्रं पिबतश्चूर्णीभूत्वाश्मरी पतति ॥७॥


त्रिविक्रमरसः
मृतताम्रमजाक्षीरैः पाच्यं तुल्यं गते द्रवे ।
तत्ताम्रं शुद्धसूतं च गंधकं च समं समम् ॥८॥

निर्गुण्ड्युत्थद्रवैर्मर्द्यं दिनं तद्गोलम् अन्ध्रयेत् ।
यामैकं वालुकायंत्रे पाच्यं योज्यं द्विगुञ्जकम् ॥९॥

बीजपूरस्य मूलं तु सजलं चानुपाययेत् ।
रसस्त्रिविक्रमो नाम्ना मासैकेनाश्मरीप्रणुत् ॥१०॥


आनन्दभैरवीवटी
तिलापामार्गकाण्डं च कारवेल्ल्या यवस्य च ।
पलाशकाष्ठसंयुक्तं सर्वं तुल्यं दहेत्पुटे ॥११॥

तन्निष्कैकमजामूत्रैर्वटीं चानन्दभैरवीम् ।
पाययेदश्मरीं हन्ति सप्ताहान्नात्र संशयः ॥१२॥


सामान्योपायः
पाण्डुरं फलिकामूलं जलेनैवाश्मरीहरम् ॥१३॥

मधुना च यवक्षारं लीढं स्याद् अश्मरीहरम् ॥१४॥

हरिद्रागुडकर्षैकं चारनालेन वा पिबेत् ॥१५॥

वन्ध्याकर्कोटकीकन्दं भक्ष्य क्षौद्रं सितायुतम् ।
अश्मरीं हन्ति नो चित्रं कर्षमात्रं शिवोदितम् ॥१६॥


प्रमेह
शोषस्तापोऽङ्गकार्श्यं च बहुमूत्रत्वम् एव च ।
अस्वास्थ्यं सर्वगात्रेषु मूत्रमेहस्य लक्षणम् ॥१७॥


गुडमार्कण्डी
मार्कण्डीचूर्णमादाय सगुडं खादयेन्निशि ॥१८॥


लघुलोकेश्वररसः
मृतसूतस्य भागैकं चत्वारः शुद्धगन्धकात् ।
पिष्ट्वा वराटकं तेन रसपादं च टंकणम् ॥१९॥

क्षीरैः पिष्ट्वा मुखं रुद्ध्वा वराटांश्चान्ध्रयेत्पुटेत् ।
स्वांगशीतं विचूर्ण्याथ लघुलोकेश्वरो रसः ॥२०॥

चतुर्गुंजारसश्चायं मरिचैकोनविंशतिः ।
जातिमूलपलैकं तु अजाक्षीरेण पेषयेत् ।
शर्कराभावितं चानु पीत्वा कृच्छ्रहरं परम् ॥२१॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP