TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नसमुच्चय - अध्याय ११

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अध्याय ११
षट् त्रुट्यश् चैकलिक्षा स्यात् षड् लिक्षा यूकम् उच्यते ।
षड्यूकास्तु रजःसंज्ञं कथितं तव सुव्रते ॥१॥

षड्रजः सर्षपः साक्षात्सिद्धार्थः स च कीर्तितः ।
षट्सिद्धार्थेन देवेशि यवस्त्वेकः प्रकीर्तितः ॥२॥

षड्यवैर् एकगुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते ।
षड्भिरेव तु गुञ्जाभिर्माष एकः प्रकीर्तितः ।
माषा द्वादश तोलः स्यादष्टौ तोलाः पलं भवेत् ॥३॥

त्रुटिः स्यादणुभिः षड्भिस्तैर्लिक्षा षड्भिरीरिता ।
ताभिः षड्भिर्भवेद् यूका षड्यूकास् तद् रजः स्मृतम् ॥४॥

षड्रजः सर्षपः प्रोक्तस्तैः षड्भिर्यव ईरितः ।
एका गुञ्जा यवैः षड्भिर्निष्पावस्तु द्विगुञ्जकः ॥५॥

स्याद्गुञ्जात्रितयं वल्लो द्वौ वल्लौ माष उच्यते ।
द्वौ माषौ धरणं ते द्वे शाणनिष्ककलाः स्मृताः ॥६॥

निष्कद्वयं तु वटकः स च कोल इतीरितः ।
स्यात्कोलत्रितयं तोलः कर्षो निष्कचतुष्टयम् ॥७॥

कर्ष
उदुम्बरं पाणितलं सुवर्णं कवलग्रहः ।
अक्षं बिडालपदकं शुक्तिः पाणितलद्वयम् ॥८॥

शुक्तिद्वयं पलं केचिदन्ये शुक्तित्रयं विदुः ।

पल
तदेव कथितं मुष्टिः प्रकुञ्चो बिल्वमित्यपि ॥९॥

पलद्वयं तु प्रसृतं तद्द्वयं कुडवोऽञ्जलिः ।
कुडवौ मानिका तौ स्यात्प्रस्थो द्वे मानिके स्मृतः ॥१०॥

प्रस्थद्वयं शुभं तौ द्वौ पात्रकं द्वयमाढकम् ।
तैश् चतुर्भिर् घटोन्माननल्वनार्मणशूर्पकाः ॥११॥

द्रोणस्य शब्दाः पर्यायाः पलानां शतकं तुला ।
चत्वारिंशत्पलशततुला भारः प्रकीर्तितः ॥१२॥

रसार्णवादिशास्त्राणि निरीक्ष्य कथितं मया ।
रसोपयोगि यत् किंचिद् दिङ्मात्रं तत्प्रदर्शितम् ॥१३॥

अधुना रसराजस्य संस्कारान् सम्प्रचक्ष्महे ॥१४॥


१८ संस्कारस्
स्यात्स्वेदनं तदनु मर्दनमूर्छने च उत्थापनं पतनरोधनियामनानि ।
संदीपनं गगनभक्षणमानमत्र संचारणा तदनु गर्भगता द्रुतिश्च ॥१५॥

बाह्या द्रुतिः सूतकजारणा स्याद् ग्रासस्तथा सारणकर्म पश्चात् ।
संक्रामणं वेधविधिः शरीरे योगस् तथाष्टादशधात्र कर्म ॥१६॥

न योज्यो मर्मणि छिन्ने न च क्षाराग्निदग्धयोः ॥१७॥


संस्कारस्
शुद्धः स मृद्वग्निसहो मूर्छितो व्याधिनाशनः ॥१८॥

निष्कम्पवेगस् तीव्राग्नाव् आयुरारोग्यदो मृतः ॥१९॥


त्रिदोष
विषं वह्निर्मलश्चेति दोषा नैसर्गिकास्त्रयः ।
रसे मरणसंतापमूर्छानां हेतवः क्रमात् ॥२०॥

यौगिकदोषाः
योगिकौ नागवङ्गौ द्वौ तौ जाड्याध्मानकुष्ठदौ ॥२१॥

औपाधिकाः -कञ्चुकाः
औपाधिकाः पुनश्चान्ये कीर्तिताः सप्तकञ्चुकाः ।
भूमिजा गिरिजा वार्जास् ते च द्वे नागवङ्गजौ ॥२२॥

द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः ॥२३॥


सप्तकञ्चुकनामानि
पर्पटी पाटनी भेदी द्रावी मलकरी तथा ।
अन्धकारी तथा ध्वाङ्क्षी विज्ञेयाः सप्त कञ्चुकाः ॥२४॥

कञ्चुकस्-आयुर्वेदीय स्य्म्प्तोम्स्
भूमिजाः कुर्वते कुष्ठं गिरिजा जाड्यमेव च ।
वारिजा वातसंघातं दोषाढ्यं नागवङ्गयोः ॥२५॥

तस्मात् सूतविधानार्थं सहायैर्निपुणैर्युतः ।
सर्वोपस्करमादाय रसकर्म समारभेत् ॥२६॥


संस्कारस्-
द्वे सहस्रे पलानां तु सहस्रं शतमेव वा ।
अष्टाविंशत् पलान्येव दश पञ्चैकमेव वा ॥२७॥

पलार्धेनैव कर्तव्यः संस्कारः सूतकस्य च ।
सुदिने शुभनक्षत्रे रसशोधनमारभेत् ॥२८॥


१. स्वेदन
त्र्यूषणं लवणासूर्यौ चित्रकार्द्रकमूलकम् ।
क्षिप्त्वा सूतो मुहुः स्वेद्यः काञ्जिकेन दिनत्रयम् ॥२९॥


२. मर्दन
गृहधूमेष्टिकाचूर्णं तथा दधि गुडान्वितम् ।
लवणासुरीसंयुक्तं क्षिप्त्वा सूतं विमर्दयेत् ॥३०॥

षोडशांशं तु तद् द्रव्यं सूतमानान् नियोजयेत् ।
सूतं क्षिप्त्वा समं तेन दिनानि त्रीणि मर्दयेत् ॥३१॥

जीर्णाभ्रकं तथा बीजं जीर्णसूतं तथैव च ।
नैर्मल्यार्थं हि सूतस्य खल्ले धृत्वा विमर्दयेत् ॥३२॥

गृह्णाति निर्मलो रागान् ग्रासे ग्रासे विमर्दितः ।
मर्दनाख्यं हि यत्कर्म तत्सूतगुणकृद् भवेत् ॥३३॥


३. मूर्छन
गृहकन्या मलं हन्यात्त्रिफला वह्निनाशिनी ।
चित्रमूलं विषं हन्ति तस्माद् एभिः प्रयत्नतः ॥३४॥

मिश्रितं सूतकं द्रव्यैः सप्तवाराणि मूर्छयेत् ।
इत्थं संमूर्छितः सूतो दोषशून्यः प्रजायते ॥३५॥


संस्कार-उत्थापन
अस्माद्विरेकात् संशुद्धो रसः पात्यस्ततः परम् ।
उद्धृतः काञ्जिकक्वाथात् पूतिदोषनिवृत्तये ॥३६॥


संस्कार-पातन
ताम्रेण पिष्टिकां कृत्वा पातयेदूर्ध्वभाजने ।
वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥३७॥


संस्कार-ऊर्ध्व-, अधःपातन
शुल्वेन पातयेत् पिष्टीं त्रिधोर्ध्वं सप्तधा त्व् अधः ॥३८॥


संस्कार-अधःपातन
त्रिफलाशिग्रुशिखिभिर् लवणासुरीसंयुतैः ।
नष्टपिष्टं रसं कृत्वा लेपयेच्चोर्ध्वभाजने ।
ततो दीप्तैरधः पातमुत्पलैस्तत्र कारयेत् ॥३९॥


संस्कार-पातन
हरिद्राङ्कोलशम्पाककुमारीत्रिफलाग्निभिः ।

तण्डुलीयकवर्षाभूहिङ्गुसैन्धवमाक्षिकैः ॥४०॥

पिष्टं रसं सलवणैः सर्पाक्ष्यादिभिरेव वा ।
पातयेद् अथवा देवि व्रणघ्नो यक्षलोचनैः ॥४१॥

इत्थं ह्य् अधऊर्ध्वपातेन पातितोऽसौ यदा भवेत् ।
तदा रसायने योग्यो भवेद् द्रव्यविशेषतः ॥४२॥


संस्कार-अधःपातन
अथवा दीपकयन्त्रे निपातितः सर्वदोषनिर्मुक्तः ॥४३॥


संस्कार-तिर्यक्पातन
तिर्यक्पातनविधिना निपातितः सूतराजस्तु ।
श्लक्ष्णीकृतम् अभ्रदलं रसेन्द्रयुक्तं तथारनालेन ॥४४॥

खल्ले दत्त्वा मृदितं यावत् तन् नष्टपिष्टताम् एति ।
कुर्यात् तिर्यक्पातनपातितसूतं क्रमेण दृढवह्निम् ॥४५॥

संस्वेद्यः पात्योऽसौ न पतति यावद् दृढश् चाग्नौ ।
तदासौ शुध्यते सूतः कर्मकारी भवेद्ध्रुवम् ॥४६॥

मर्दनैर् मूर्छनैः पातैर् मन्दः शान्तो भवेद् रसः ॥४७॥


संस्कार-निरोधन
सृष्ट्यम्बुजैर् निरोधेन ततो मुखकरो रसः ।
स्वेदनादिवशात्सूतो वीर्यं प्राप्नोत्यनुत्तमम् ॥४८॥


संस्कार-नियमन
नियम्योऽसौ ततः सम्यक् चपलत्वनिवृत्तये ।
कर्कोटीफणिनेत्राभ्यां वृश्चिकाम्बुजमार्कवैः ।
समं कृत्वारनालेन स्वेदयेच्च दिनत्रयम् ॥४९॥


संस्कार-नियमन
मरिचैर् भूखगयुक्तैर् लवणासुरीशिग्रुटङ्कणोपेतैः ।
काञ्जिकयुक्तैस्त्रिदिनं ग्रासार्थी जायते स्वेदात् ॥५०॥


संस्कार-दीपन
त्रिक्षारसिन्धुखगभूशिखिशिग्रुराजीतीक्ष्णाम्लवेतसमुखैर् लवणोषणाम्लैः ।
नेपालताम्रदलशोषितमारनाले साम्लासवाम्लपुटितं रसदीपनं तत् ॥५१॥


संस्कार-दीपन
स्वेदयेदासवाम्लेन वीर्यतेजःप्रवृद्धये ।
यथोपयोगं स्वेद्यः स्यान् मूलिकानां रसेषु च ॥५२॥


रसमूलिकास्
सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शङ्खपुष्पिका ।
काकजङ्घा शिखिशिखा ब्रह्मदण्ड्याखुकर्णिका ॥५३॥

वर्षाभूः कम्बुकी दूर्वा सैर्यकोत्पलशिम्बिकाः ।
शतावरी वज्रलता वज्रकन्दाग्निकर्णिका ॥५४॥

श्वेतार्कशिग्रुधत्तूरमृगदूर्वारसाङ्कुशाः ।
रम्भा रक्ताभनिर्गुण्डी लज्जालुः सुरदालिका ॥५५॥

मण्डूकपर्णी पाताली चित्रकं ग्रीष्मसुन्दरा ।
काकमाची महाराष्ट्री हरिद्रा तिलपर्णिका ॥५६॥

जाती जयन्ती श्रीदेवी भूकदम्बः कुसुम्भकः ।
कोशातकी नीरं कणा लाङ्गली कटुतुम्बिका ॥५७॥

चक्रमर्दोऽमृता कन्दः सूर्यावर्तेषु पुङ्खिका ।
वाराही हस्तिशुण्डी च प्रायेण रसमूलिकाः ॥५८॥

रसस्य भावने स्वेदे मूषालेपे च पूजिताः ।
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
कार्यास्ते प्रथमं शेषा नोक्ता द्रव्योपयोगिनः ॥५९॥


मेर्चुर्य्-बन्धन-इन्त्रोद्.
पञ्चविंशतिसंख्याकान् रसबन्धान् प्रचक्ष्महे ।
येन येन हि चाञ्चल्यं दुर्ग्रहत्वं च नश्यति ।
रसराजस्य सम्प्रोक्तो बन्धनार्थो हि वार्त्तिकैः ॥६०॥

बन्धन-
हठारोटौ तथाभासः क्रियाहीनश्च पिष्टिका ।
क्षारः खोटश्च पोटश्च कल्कबन्धश्च कज्जलिः ॥६१॥

सजीवश्चैव निर्जीवो निर्बीजश्च सबीजकः ।
शृङ्खलाद्रुतिबन्धौ च बालकश्च कुमारकः ॥६२॥

तरुणश् च तथा वृद्धो मूर्तिबद्धस् तथापरः ।
जलबन्धोऽग्निबन्धश्च सुसंस्कृतकृताभिधः ।
महाबन्धाभिधश्चेति पञ्चविंशतिर् ईरिताः ॥६३॥

केचिद्वदन्ति षड्विंशो जलूकाबन्धसंज्ञकः ।
स तावन्नेष्यते देहे स्त्रीणां द्रावेऽतिशस्यते ॥६४॥


बन्धन-हठ
हठो रसः स विज्ञेयः सम्यक् शुद्धिविवर्जितः ।
स सेवितो नृणां कुर्यान् मृत्युं वा व्याधिमुद्धतम् ॥६५॥

बन्धन-आरोट
सुशोधितो रसः सम्यगारोट इति कथ्यते ।
स क्षेत्रीकरणे श्रेष्ठः शनैर्व्याधिविनाशनः ॥६६॥

आभासबन्ध
पुटितो यो रसो याति योगं मुक्त्वा स्वभावताम् ।
भावितो धातुमूलाद्यैर् आभासो गुणवैकृतेः ॥६७॥

क्रियाहीन
असंशोधितलोहाद्यैः साधितो यो रसोत्तमः ।
क्रियाहीनः स विज्ञेयो विक्रियां यात्यपथ्यतः ॥६८॥


पिष्टिकाबन्ध
तीव्रातपे गाढतरावमर्दात्पिष्टी भवेत्सा नवनीतरूपा ।
स रसः पिष्टिकाबन्धो दीपनः पाचनस्तराम् ॥६९॥


क्षारबन्ध
शङ्खशुक्तिवराटाद्यैर् योऽसौ संसाधितो रसः ।
क्षारबन्धः परं दीप्तिपुष्टिकृच्छूलनाशनः ॥७०॥

खोटबन्ध
बन्धो यः खोटतां याति ध्मातो ध्मातः क्षयं व्रजेत् ।
खोटबन्धः स विज्ञेयः शीघ्रं सर्वगदापहः ॥७१॥

पोटबन्ध
द्रुतकज्जलिका मोचापत्त्रके चिपिटीकृता ।
स पोटः पर्पटी सैव बालाद्यखिलरोगनुत् ॥७२॥

कल्कबन्ध
स्वेदाद्यैः साधितः सूतः पङ्कत्वं समुपागतः ।
कल्कबद्धः स विज्ञेयो योगोक्तफलदायकः ॥७३॥

कज्जलीबन्ध
कज्जली रसगन्धोत्था सुश्लक्ष्णा कज्जलोपमा ।
तत्तद्योगेन संयुक्ता कज्जलीबन्ध उच्यते ॥७४॥

सजीव
भस्मीकृतो गच्छति वह्नियोगाद् रसः सजीवः स खलु प्रदिष्टः ।
संसेवितोऽसौ न करोति भस्मकार्यं जवाद् रोगविनाशनं च ॥७५॥

निर्जीव
जीर्णाभ्रको वा परिजीर्णगन्धो भस्मीकृतश्चाखिललोहमौलिः ।
निर्जीवनामा हि स भस्मसूतो निःशेषरोगान् विनिहन्ति सद्यः ॥७६॥

निर्बीज
रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।
तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामा सकलामयघ्नः ॥७७॥

सबीजबन्धन
पिष्टीकृतैर् अभ्रकसत्त्वहेमतारार्ककान्तैः परिजारितो यः ।
हतस्ततः षड्गुणगन्धकेन सबीजबद्धो विपुलप्रभावः ॥७८॥


शृङ्खलाबन्ध
वज्रादिनिहतः सूतो हतः सूतः समोऽपरः ।
शृङ्खलाबद्धसूतस्तु देहलोहविधायकः ।
चित्रप्रभावां वेगेन व्याप्तिं जानाति शंकरः ॥७९॥

द्रुतिबन्ध
युक्तोऽपि बाह्यद्रुतिभिश्च सूतो बन्धंगतो वा भसितस्वरूपः ।
स राजिकापादमितो निहन्ति दुःसाध्यरोगान् द्रुतिबद्धनामा ॥८०॥

बालबन्ध
समाभ्रजीर्णः शिवजस्तु बालः संसेवितो योगयुतो जवेन ।
रसायनो भाविगदापहश्च सोपद्रवारिष्टगदान्निहन्ति ॥८१॥

कुमारबन्ध
हरोद्भवो यो द्विगुणाभ्रजीर्णः स स्यात्कुमारो मिततण्डुलोऽसौ ।
त्रिः सप्तरात्रैः खलु पापरोगसंघातघाती च रसायनं च ॥८२॥


तरुणबन्ध
चतुर्गुणव्योमकृताशनोऽसौ रसायनाग्र्यस् तरुणाभिधानः ।
स सप्तरात्रात् सकलामयघ्नो रसायनो वीर्यबलप्रदाता ॥८३॥


वृद्धबन्ध
यस्याभ्रकः षड्गुणितो हि जीर्णः प्राप्ताग्निसख्यः स हि वृद्धनामा ।
देहे च लोहे च नियोजनीयः शिवादृते कोऽस्य गुणान् प्रवक्ति ॥८४॥


मूर्तिबन्ध
यो दिव्यमूलिकाभिश्च कृतोऽत्यग्निसहो रसः ।
विनाभ्रजारणात्स स्यान्मूर्तिबन्धो महारसः ॥८५॥

अयं हि जार्यमाणस्तु नाग्निना क्षीयते रसः ।
योजितः सर्वयोगेषु निरौपम्यफलप्रदः ॥८६॥

जलबन्ध
शिलातोयमुखैस्तोयैर् बद्धोऽसौ जलबन्धवान् ।
स जरारोगमृत्युघ्नः कल्पोक्तफलदायकः ॥८७॥

अग्निबन्ध
केवलो योगेषु वा ध्मातः स्याद्गुटिकाकृतिः ।
अक्षीणश्चाग्निबद्धोऽसौ खेचरत्वादिकृत् स हि ॥८८॥

मूर्छन
विष्णुक्रान्ताशशिलताकुम्भीकनकमूलकैः ।
विशालानागिनीकन्दव्याघ्रपादीकुरुण्टकैः ॥८९॥

वृश्चिकालीभशुण्डीभ्यां हंसपादा सहासुरैः ।
अप्रसूतगवां मूत्रैः पिष्टं वा कुलके पचेत् ॥९०॥

पक्वमेवं मृतैर् लोहैर्मर्दितं विपचेद् रसम् ।
यन्त्रेषु मूर्छा सूतानामेष कल्पः समासतः ॥९१॥

महाबन्ध
हेम्ना वा रजतेन वा सहचरो ध्मातो व्रजत्येकताम् अक्षीणो निबिडो गुरुश्च गुटिकाकारोऽतिदीर्घोज्ज्वलः ।

चूर्णत्वं पटुवत् प्रयाति निहतो घृष्टो न मुञ्चेन्मलं निर्गन्धो द्रवति क्षणात् स हि महाबन्धाभिधानो रसः ॥९२॥

जलूकाबन्ध
सूते गर्भनियोजितार्धकनके पादांशनागेऽथवा पञ्चाङ्गुष्ठकशाल्मलीकृतमदाश्लेष्मातबीजैस् तथा ।
तद्वत् तेजिनीकोलकाख्यफलजैश् चूर्णं तिलं पत्त्रकं तप्ते खल्लतले निधाय मृदिते जाता जलूका वरा ॥९३॥


जलूकाबन्ध
सैषा स्यात्कपिकच्छूरोमपटले चन्द्रावतीतैलके चन्द्रे टङ्कणकामपिप्पलीजले स्विन्ना भवेत् तेजिनी ।
तप्ते खल्लतले विमर्द्य विधिवद्यत्नाद्वटी या कृता सा स्त्रीणां मददर्पनाशनकरी ख्याता जलूका वरा ॥९४॥

बाल्ये चाष्टाङ्गुला योज्या यौवने च दशाङ्गुला ।
द्वादशैव प्रगल्भानां जलौका त्रिविधा मता ॥९५॥

धृत्वा सूतमुखे पात्रं मेषीक्षीरं प्रदापयेत् ।
स्थापयेदातपे तीव्रे वासराण्येकविंशतिः ॥९६॥

द्वितीयात्र मया प्रोक्ता जलौका द्रावणे हिता ।
पुरुषाणां स्थिता मूर्ध्नि द्रावयेद्बीजम् अद्भुतम् ॥९७॥


जलूकाबन्ध
मुनिपत्त्ररसं चैव शाल्मलीवृन्तवारि च ।
जातीमूलस्य तोयं च शिंशपातोयसंयुतम् ॥९८॥

श्लेष्मातकफलं चैव त्रिफलाचूर्णम् एव च ।
कोकिलाक्षस्य चूर्णं च पारदं मर्दयेद् बुधः ॥९९॥

जलूका जायते दिव्या रामाजनमनोहरा ।
सा योज्या कामकाले तु कामयेत्कामिनी स्वयम् ॥१००॥


जलूकाबन्ध
त्रिफलाभृङ्गमहौषधमधुसर्पिश्छागदुग्धगोमूत्रे ।
नागं सप्तनिषिक्तं समरसजारितं जलूका स्यात् ॥१०१॥


जलूकाबन्ध
भानुस्वरदिनसंख्याप्रमाणसूतं गृहीतदीनारम् ।
अङ्कोलराजवृक्षककन्यारसतश्च शोधनं कुर्यात् ॥१०२॥

शशिरेखावरवर्णिनीसकोकिलाक्षापामार्गकनकानाम् ।
चूर्णैः सहैकविंशतिदिनानि संमर्दयेत् सम्यक् ॥१०३॥

निशायाः काञ्जिकं यूषं दत्त्वा योनौ प्रवेशयेत् ।
बालमध्यमवृद्धासु योज्या विज्ञाय तत्क्रमात् ।
नीरसानामपि नॄणां योषा स्यात्संगमोत्सुका ॥१०४॥


जलूकबन्ध
रसभागं चतुष्कं च वङ्गभागं च पञ्चमम् ।
सुरसारसमं युक्तं टङ्कणेन समन्वितम् ॥१०५॥

त्रिदिनं मर्दयित्वा च गोलकं तं रसोद्भवम् ।
लिङ्गाग्रे योनिनिक्षिप्तं यावद् आयुर्वशंकरम् ॥१०६॥


जलूकबन्ध
कर्पूरसूरणसुभृङ्गसुमेघनादैर् नागं निषिच्य तु मिथो वलयेद् रसेन ।
लिङ्गस्थितेन वलयेन नितम्बिनीनां स्वामी भवत्यनुदिनं स तु जीवहेतुः ॥१०७॥


जलूकबन्ध
टङ्कणपिप्पलिकाभिः सूरणकर्पूरमातुलुङ्गरसैः ।
कृत्वा स्वलिङ्गलेपं योनिं विद्रावयेत् स्त्रीणाम् ॥१०८॥


मदनवलय
अग्न्यावर्तितनागे हरबीजं निक्षिपेत्ततो द्विगुणम् ।
मुनिकनकनागसर्पैर् दन्त्याथ सिञ्च्याच्च तन्मध्यम् ॥१०९॥

तक्रेण मर्दयित्वा गणेन मदनवलयं कुर्यात् ।
रतिसमये वनितानां रतिगर्वविनाशनं कुरुते ॥११०॥


मदनवलय
व्याघ्रीबृहतीफलरससूरणकन्दं च चणकपत्त्राम्लम् ।
कपिकच्छुवज्रवल्लीपिप्पलिकाम्लिकाचूर्णम् ॥१११॥

अग्न्यावर्तितनागं नववारं मर्दयेद्धिमैर्द्रव्यैः ।
स्मरवलयं कृत्वैतद्वनितानां द्रावणं कुरुते ॥११२॥


मेर्चुर्य्-मारण
पलाशबीजकं रक्तजम्बीराम्लेन सूतकम् ।
सजीवं मर्दितं यन्त्रे पाचितं म्रियते ध्रुवम् ॥११३॥


मेर्चुर्य्-मारण
खरमञ्जरि बीजान्वितपुष्करबीजैः सुचूर्णितैः कल्कम् ।
कृत्वा सूतं पुटयेद् दृढमूषायां भवेद्भस्म ॥११४॥


मेर्चुर्य्-मारण
काकोदुम्बरिकाया दुग्धेन सुभावितो हिङ्गुः ।
मर्दनपुटनविधानात्सूतं भस्मीकरोत्येव ॥११५॥


मेर्चुर्य्-मारण
देवदालीं हरिक्रान्तामारनालेन पेषयेत् ।
तद्द्रवैः सप्तधा सूतं कुर्यान्मर्दितमूर्छितम् ॥११६॥

तत्सूतं खर्परे दद्याद्दत्त्वा दत्त्वा तु तद्द्रवम् ।
चुल्ल्योपरि पचेच् चाह्नि भस्म स्याल्लवणोपमम् ॥११७॥


मेर्चुर्य्-मारण
अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् ।
तच्चूर्णं पारदे देयं मूषायाम् अधरोत्तरम् ।
रुद्ध्वा लघुपुटैः पच्याच् चतुर्भिर् भस्मतां नयेत् ॥११८॥


मेर्चुर्य्-मारण
कटुतुम्ब्युद्भवे कन्दे गर्भे नारीपयःप्लुते ।
सप्तधा स्वेदितः सूतो म्रियते गोमयाग्निना ॥११९॥


मेर्चुर्य्-मारण
अङ्कोलस्य शिफावारिपिष्टं खल्ले विमर्दयेत् ।
सूतं गन्धकसंयुक्तं दिनान्ते तं निरोधयेत् ।
पुटयेद्भूधरे यन्त्रे दिनान्ते स मृतो भवेत् ॥१२०॥


मेर्चुर्य्-मारण
वटक्षीरेण सूताभ्रौ मर्दयेत्प्रहरत्रयम् ।
पाचयेत्तेन काष्ठेन भस्मीभवति तद्रसः ॥१२१॥


रस-भस्म-सेवन
अथातुरो रसाचार्यं साक्षाद्देवं महेश्वरम् ।
साधितं च रसं शृङ्गदन्तवेण्वादिधारितम् ॥१२२॥

अर्चयित्वा यथाशक्ति देवगोब्राह्मणानपि ।
पर्णखण्डे धृतं सूतं जग्ध्वा स्यादनुपानतः ॥१२३॥

घृतसैन्धवधान्यकजीरकार्द्रकसंस्कृतम् ।
तण्डुलीयकधान्यकपटोलालम्बुषादिकम् ॥१२४॥

गोजीर्णशाल्यन्नं गव्यं क्षीरं घृतं दधि ।
हंसोदकं मुद्गरसः पथ्यवर्गः समासतः ॥१२५॥

बृहती बिल्वकूष्माण्डं वेत्राग्रं कारवेल्लकम् ।
माषं मसूरं निष्पावं कुलत्थं सर्षपं तिलम् ॥१२६॥

लङ्घनोद्वर्तनस्नानताम्रसुरासवान् ।
आनूपमांसं धान्याम्लं भोजनं कदलीदले ।
कांस्ये च गुरुविष्टम्भि तीक्ष्णोष्णं च भृशं त्यजेत् ॥१२७॥


ककारादिगण
कण्टारीफलकाञ्जिकं च कमठस् तैलं तथा राजिकाम् ।
निम्बूकं कतकं कलिङ्गकफलं कूष्माण्डकं कर्कटी ।
कारी कुक्कुटकारवेल्लकफलं कर्कोटिकायाः फलम् ।
वृन्ताकं च कपित्थकं खलु गणः प्रोक्तः ककारादिकः ॥१२८॥

देवीशास्त्रोदितः सोऽयं ककारादिगणो मतः ।

ककारादिगण
शास्त्रान्तरविनिर्दिष्टः कथ्यतेऽन्यप्रकारतः ॥१२९॥

कङ्गुः कन्दुककोलकुक्कुटकलक्रोडाः कुलत्थास्तथा ।
कण्टारी कटुतैलकृष्णगलकः कूर्मः कलायः कणा ।
कर्कारुश्च कठिल्लकं च कतकं कर्कोटकं कर्कटी काली काञ्जिकमेषकादिकगणः श्रीकृष्णदेवोदितः ॥१३०॥

यस्मिन्रसे च कण्ठोक्त्या ककारादिर्निषेधितः ।
तत्र तत्र निषेद्धव्यं तदौचित्यमतोऽन्यतः ॥१३१॥

उद्गारे सति दध्यन्नं कृष्णमीनं सजीरकम् ।
अभ्यङ्गम् अनिलक्षोभे तैलैर् नारायणादिभिः ॥१३२॥

अरतौ शीततोयेन मस्तकोपरि सेचनम् ।
तृष्णायां नारिकेलाम्बु मुद्गं सशर्करम् ॥१३३॥

द्राक्षादाडिमखर्जूरकदलीनां फलं भजेत् ।
रसवीर्यविवृद्ध्यर्थं दधिक्षीरेक्षुशर्कराः ।
शीतोपचारम् अन्यं च रसत्यागविधौ पुनः ॥१३४॥

भक्षयेद् बृहतीं बिल्वं सकृत्साधारणो विधिः ॥१३५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:12.0970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

barrier layer

  • Elec.(the surface of contact between a semiconductor and a metal that acts as an alternating current rectifier) रोधिका स्तर 
  • Electronics प्राचीर स्तर 
  • बांध स्तर 
RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site