TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नसमुच्चय - अध्याय ९

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अध्याय ९
अथ यन्त्राणि वक्ष्यन्ते रसतन्त्राण्यशेषतः ।
समालोच्य समासेन सोमदेवेन साम्प्रतम् ॥१॥

स्वेदादिकर्म निर्मातुं वार्त्तिकेन्द्रैः प्रयत्नतः ।

यन्त्र-निरुक्ति
यन्त्र्यते पारदो यस्मात्तस्माद्यन्त्रमिति स्मृतम् ॥२॥


दोलायन्त्र
द्रवद्रव्येण भाण्डस्य पूरितार्धोदकस्य च ।
मुखस्योभयतो द्वारद्वयं कृत्वा प्रयत्नतः ॥३॥

तयोस्तु निक्षिपेद् दण्डं तन्मध्ये रसपोटलीम् ।
बद्ध्वा तु स्वेदयेदेतद्दोलायन्त्रमिति स्मृतम् ॥४॥

स्वेदनीयन्त्र
साम्बुस्थालीमुखे बद्धवस्त्रे पाक्यं निवेशयेत् ।
पिधाय पच्यते यत्र स्वेदनीयन्त्रमुच्यते ॥५॥

पातनायन्त्र
अष्टाङ्गुलपरीणाहमानाहेन दशाङ्गुलम् ।
चतुरङ्गुलकोत्सेधं तोयाधारं गलादधः ॥६॥

अधोभाण्डे मुखं तस्य भाण्डस्योपरि वर्तिनः ।
षोडशाङ्गुलविस्तीर्णपृष्ठस्यास्ये प्रवेशयेत् ॥७॥

पार्श्वयोर् महिषीक्षीरचूर्णमण्डूरफाणितैः ।
लिप्त्वा विशोषयेत्संधिं जलाधारे जलं क्षिपेत् ।
चुल्ल्याम् आरोपयेद् एतत् पातनायन्त्रमुच्यते ॥८॥

अधःपातनयन्त्र
अथोर्ध्वभाजने लिप्तस्थापितस्य जले सुधीः ।
दीप्तैर् वनोपलैः कुर्यादधः पातं प्रयत्नतः ॥९॥

कच्छपयन्त्र
जलपूर्णपात्रमध्ये दत्त्वा घटखर्परं सुविस्तीर्णम् ।
तदुपरि विडमध्यगतः स्थाप्यः सूतः कृतः कोष्ठ्याम् ॥१०॥

लघुलोहकटोरिकया कृतषण्मृत्संधिलेपयाच्छाद्य ।
पूर्वोक्तघटखर्परमध्येऽङ्गारैः खदिरकोलभवैः ॥११॥

स्वेदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति ।
अग्निबलेनैव ततो गर्भे द्रवन्ति सर्वसत्त्वानि ॥१२॥

दीपिकायन्त्र
कच्छपयन्त्रान्तर्गतमृन्मयपीठस्थदीपिकासंस्थः ।
यस्मिन्निपतति सूतः प्रोक्तं तद्दीपिकायन्त्रम् ॥१३॥

डेकीयन्त्र
भाण्डकण्ठादधश् छिद्रे वेणुनालं विनिक्षिपेत् ।
कांस्यपात्रद्वयं कृत्वा सम्पुटं जलगर्भितम् ॥१४॥

नलिकास्यं तत्र योज्यं दृढं तच्चापि कारयेत् ।
युक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र घटे रसः ॥१५॥

अग्निना तापितो नालात्तोये तस्मिन्पतत्यधः ।
यावदुष्णं भवेत् सर्वं भाजनं तावदेव हि ।
जायते रससंधानं डेकीयन्त्रमितीरितम् ॥१६॥

जारणायन्त्र
लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः ।
ईषच्छिद्रान्वितामेकां तत्र गन्धकसंयुताम् ॥१७॥

मूषायां रसयुक्तायाम् अन्यस्यां तां प्रवेशयेत् ।
तोयं स्यात्सूतकस्याध ऊर्ध्वाधो वह्निदीपनम् ॥१८॥

जारणायन्त्र (२)
रसोनकरसं भद्रे यत्नतो वस्त्रगालितम् ।
दापयेत्प्रचुरं यत्नादाप्लाव्य रसगन्धकौ ॥१९॥

स्थालिकायां पिधायोर्ध्वं स्थालीमन्यां दृढां कुरु ।
संधिं विलेपयेद्यत्नान्मृदा वस्त्रेण चैव हि ॥२०॥

स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना सदा ।
यन्त्रस्याधः करीषाग्निं दद्यात्तीव्राग्निमेव वा ॥२१॥

एवं तु त्रिदिनं कुर्यात्ततो यन्त्रं विमोचयेत् ।
तप्तोदके तप्तचुल्ल्यां न कुर्याच्छीतलां क्रियाम् ॥२२॥

न तत्र क्षीयते सूतो न च गच्छति कुत्रचित् ।
अनेन च क्रमेणैव कुर्याद्गन्धकजारणम् ॥२३॥


विद्याधरयन्त्र
यन्त्रं विद्याधरं ज्ञेयं स्थालीद्वितयसम्पुटात् ।
चुल्लीं चतुर्मुखीं कृत्वा यन्त्रभाण्डं निवेशयेत् ॥२४॥

तत्रौषधं विनिक्षिप्य निरुन्ध्याद्भाण्डकाननम् ।
यन्त्रं विद्याधरं नाम तन्त्रज्ञैः परिकीर्तितम् ॥२५॥

सोमानलयन्त्र
ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससंग्रहः ।
सोमानलम् इदं प्रोक्तं जारयेद्गगनादिकम् ॥२६॥

गर्भयन्त्र
गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारकम् ।
चतुरङ्गुलदीर्घां च त्र्यङ्गुलोन्मितविस्तराम् ॥२७॥

मृन्मयीं सुदृढां मूषां वर्तुलं कारयेन्मुखम् ।
लोणस्य विंशतिर्भागा भाग एकस्तु गुग्गुलोः ॥२८॥

सुश्लक्ष्णं पेषयित्वा तु वारं वारं पुनः पुनः ।
मूषालेपं दृढं कृत्वा लवणार्धमृदम्बुभिः ॥२९॥

कर्षेत् तुषाग्निना भूमौ स्वेदयेन्मृदु मानवित् ।
अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥३०॥

हंसपाक
खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् ।
अपरं खर्परं तत्र शनैर् मृद्वग्निना पचेत् ॥३१॥

पञ्चक्षारैस्तथा मूत्रैर् लवणं च विडं ततः ।
हंसपाकं समाख्यातं यन्त्रं तद् वार्त्तिकोत्तमैः ॥३२॥


वालुकायन्त्र
सरसां गूढवक्त्रां मृद्वस्त्राङ्गुलघनावृताम् ।
शोषितां काचकलशीं त्रिषु भागेषु पूरयेत् ॥३३॥

भाण्डे वितस्तिगम्भीरे वालुकासुप्रतिष्ठिता ।
तद्भाण्डं पूरयेत्त्रिभिरन्याभिरवगुण्ठयेत् ॥३४॥

भाण्डवक्त्रं मणिकया संधिं लिम्पेन् मृदा पचेत् ।
चुल्ल्यां तृणस्य चादाहान् मणिकापृष्ठवर्तिनः ।
एतद्धि वालुकायन्त्रं तद्यन्त्रं लवणाश्रयम् ॥३५॥

वालुकायन्त्र (२)
पञ्चाढवालुकापूर्णभाण्डे निक्षिप्य यत्नतः ।
पच्यते रसगोलाद्यं वालुकायन्त्रम् ईरितम् ॥३६॥

लवणयन्त्र (१)
एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् ॥३७॥


लवणयन्त्र (२)
अन्तःकृतरसालेपताम्रपात्रमुखस्य च ।
लिप्त्वा मृल्लवणेनैव संधिं भाण्डतलस्य च ॥३८॥

तद्भाण्डं पटुनापूर्य क्षारैर्वा पूर्ववत्पचेत् ।
एवं लवणयन्त्रं स्याद् रसकर्मणि शस्यते ॥३९॥

नालिकायन्त्र
लोहनालगतं सूतं भाण्डे लवणपूरिते ।
निरुद्धं विपचेत्प्राग्वन् नालिकायन्त्रम् ईरितम् ॥४०॥


भूधरयन्त्र
वालुकागूढसर्वाङ्गां गर्ते मूषां रसान्विताम् ।
दीप्तोपलैः संवृणुयाद् यन्त्रं तद् भूधराह्वयम् ॥४१॥

पुटयन्त्र
शरावसम्पुटान्तस्थं करीषेष्व् अग्निमानवित् ।
पचेच्चुल्ल्यां द्वियामं वा रसं तत् पुटयन्त्रकम् ॥४२॥

कोष्ठीयन्त्र
षोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं समम् ।
धातुसत्त्वनिपातार्थं कोष्ठीयन्त्रम् इति स्मृतम् ॥४३॥

वलभीयन्त्र
यत्र लोहमये पात्रे पार्श्वयोर्वलयद्वयम् ।
तादृक् स्वल्पतरं पात्रं वलयप्रोतकोष्ठकम् ॥४४॥

पूर्वपात्रोपरि न्यस्य स्वल्पपात्रे परिक्षिपेत् ।
रसं संमूर्छितं स्थूलपात्रम् आपूर्य काञ्जिकैः ॥४५॥

द्वियामं स्वेदयेदेव रसोत्थापनहेतवे ।
एतत्स्याद् वलभीयन्त्रं रसे षाड्गुण्यकारकम् ।
सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः ॥४६॥

तिर्यक्पातनयन्त्र
क्षिपेद्रसं घटे दीर्घनताधोनालसंयुते ।
तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु ॥४७॥

तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरथ ।
अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकम् ॥४८॥

इतरस्मिन्घटे तोयं प्रक्षिपेत्स्वादु शीतलम् ।
तिर्यक्पातनम् एतद्धि वार्त्तिकैर् अभिधीयते ॥४९॥

पालिकायन्त्र
चषकं वर्तुलं लौहं विनताग्रोर्ध्वदण्डकम् ।
एतद्धि पालिकायन्त्रं बलिजारणहेतवे ॥५०॥

घटयन्त्र
चतुष्प्रस्थजलाधारश् चतुरङ्गुलिकाननः ।
घटयन्त्रम् इदं प्रोक्तं तदाप्यायनकं स्मृतम् ॥५१॥

इष्टिकायन्त्र
विधाय वर्तुलं गर्तं मल्लमत्र निधाय च ।
विनिधायेष्टकां तत्र मध्यगर्तवतीं शुभाम् ॥५२॥

गर्तस्य परितः कुर्यात्पालिकाम् अङ्गुलोच्छ्रयाम् ।
गर्ते सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् ॥५३॥

निक्षिपेद्गन्धकं तत्र मल्लेनास्यं निरुध्य च ।
मल्लपालिकयोर्मध्ये मृदा सम्यङ् निरुध्य च ॥५४॥

वनोपलैः पुटं देयं कपोताख्यं न चाधिकम् ।
इष्टिकायन्त्रम् एतत् स्याद् गन्धकं तेन जारयेत् ॥५५॥

हिङ्गुलाकृष्टिविद्याधरयन्त्र
स्थालिकोपरि विन्यस्य स्थालीं सम्यङ् निरुध्य च ।
ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेद् अधः ।
एतद् विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे ॥५६॥

डमरुयन्त्र
यन्त्रस्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुन्धयेत् ।
यन्त्रं डमरुकाख्यं तद्रसभस्मकृते हितम् ॥५७॥

नाभियन्त्र
मल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकम् ।
गर्तस्य परितः कुड्यं प्रकुर्यादङ्गुलोच्छ्रितम् ॥५८॥

ततश् चाच्छादयेत् सम्यग् गोस्तनाकारमूषया ।
सम्यक् तोयमृदा रुद्ध्वा सम्यगत्रोच्यमानया ॥५९॥


तोयमृद्
लेहवत् कृतबब्बूलक्वाथेन परिमर्दितम् ।
जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णसमन्वितम् ।
इयं हि जलमृत् प्रोक्ता दुर्भेद्या सलिलैः खलु ॥६०॥


वह्निमृद्
खटिकापटुकिट्टैश्च महिषीदुग्धमर्दितैः ।
वह्निमृत्स्ना भवेद् घोरवह्नितापसहा खलु ॥६१॥

एतया मृत्स्नया रुद्धो न गन्तुं क्षमते रसः ।
विदग्धवनिताप्रौढप्रेम्णा रुद्धः पुमानिव ॥६२॥

नन्दी नागार्जुनश्चैव ब्रह्मज्योतिर् मुनीश्वरः ।
वेत्ति श्रीसोमदेवश्च नापरः पृथिवीतले ॥६३॥
नाभियन्त्र
ततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः ।
नाभियन्त्रमिदं प्रोक्तं नन्दिना सर्ववेदिना ।
अनेन जीर्यते सूतो निर्धूमः शुद्धगन्धकः ॥६४॥

ग्रस्तयन्त्र
मूषां मूषोदराविष्टाम् आद्यन्तःसमवर्तुलाम् ।
चिपिटां च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः ।
सूतेन्द्ररन्धनार्थं हि रसविद्भिर् उदीरितम् ॥६५॥

स्थालीयन्त्र
स्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्यं निरुध्य च ।
पच्यते स्थालिकाधस्तात् स्थालीयन्त्रम् इदं स्मृतम् ॥६६॥

धूपयन्त्र
विधायाष्टाङ्गुलं पात्रं लौहमष्टाङ्गुलोच्छ्रयम् ।
कण्ठाधो ह्य् अङ्गुले देशे गलाधारे हि तत्र च ॥६७॥

तिर्यग्लोहशलाकाश्च तन्वीस्तिर्यग् विनिक्षिपेत् ।
तनूनि स्वर्णपत्त्राणि तासामुपरि विन्यसेत् ॥६८॥

पत्त्राधो निक्षिपेद् वक्ष्यमाणम् इहैव हि ।
तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि ॥६९॥

मृदा विलिप्य संधिं च वह्निं प्रज्वालयेद् अधः ।
तेन पत्त्राणि कृत्स्नानि हतान्य् उक्तविधानतः ॥७०॥

रसश्चरति वेगेन द्रुतं गर्भे द्रवन्ति च ।
गन्धालकशिलानां हि कज्जल्या वा मृताहिना ॥७१॥

धूपनं स्वर्णपत्त्राणां प्रथमं परिकीर्तितम् ।
तारार्थं तारपत्त्राणि मृतवङ्गेन धूपयेत् ॥७२॥

धूपयेच्च यथायोग्यैरन्यैरुपरसैरपि ।
धूपयन्त्रमिदं प्रोक्तं जारणाद्रव्यसाधने ॥७३॥

कन्दुकयन्त्र (१)
स्थूलस्थाल्यां जलं क्षिप्त्वा वासो बद्ध्वा मुखे दृढम् ।
तत्र स्वेद्यं विनिक्षिप्य तन्मुखं प्रपिधाय च ॥७४॥

अधस्ताज्ज्वालयेदग्निं यन्त्रं तत्कन्दुकाभिधम् ।
स्वेदनीयन्त्रमित्यन्ये प्राहुश्चेदं मनीषिणः ॥७५॥

कन्दुकयन्त्र (२)
यद्वा स्थाल्यां जलं क्षिप्त्वा तृणं क्षिप्त्वा मुखोपरि ।
स्वेद्यद्रव्यं परिक्षिप्य पिधानं प्रविधाय च ।
अधस्ताज्ज्वालयेदग्निं यन्त्रं तत् कन्दुकं स्मृतम् ॥७६॥


खल्व-ग्रिन्द्स्तोने
खल्लयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः ।
षोडशाङ्गुलकोत्सेधा नवाङ्गुलकविस्तरा ॥७७॥


खल्व-पेस्त्ले
चतुर्विंशाङ्गुला दीर्घा घर्षणी द्वादशाङ्गुला ।
विंशत्यङ्गुलदीर्घा वा स्यादुत्सेधे दशाङ्गुला ।
खल्लप्रमाणं तज्ज्ञेयं श्रेष्ठं स्याद्रसकर्मणि ॥७८॥

खल्व-
खल्लयन्त्रं त्रिधा प्रोक्तं रसादिसुखमर्दने ॥७९॥

निरुद्गारौ सुमसृणौ कार्यौ पुत्रिकया युतौ ॥८०॥


खल्व-अर्धचन्द्र
उत्सेधे स दशाङ्गुलः खलु कलातुल्याङ्गुलायामवान् विस्तारेण दशाङ्गुलो मुनिमितैर्निम्नस् तयैवाङ्गुलैः ।

पाल्यां द्व्यङ्गुलिविस्तरश्च मसृणोऽतीवार्धचन्द्रोपमो घर्षो द्वादशकाङ्गुलश्च तदयं खल्लो मतः सिद्धये ॥८१॥

अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये ।
तत्तदौचित्ययोगेन खल्लेष्वन्येषु योजयेत् ॥८२॥


खल्व (२)
द्वादशाङ्गुलविस्तारः खल्लोऽतिमसृणोपलः ।
चतुरङ्गुलनिम्नश्च मध्येऽतिमसृणीकृतः ॥८३॥

मर्दकश् चिपिटोऽधस्तात् सुग्राहश्च शिखोपरि ।
अयं तु वर्तुलः खल्लो मर्दनेऽतिसुखप्रदः ॥८४॥

तप्तखल्व
लौहो नवाङ्गुलः खल्लो निम्नत्वे च षडङ्गुलः ।
मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्लाभिधोऽप्ययम् ॥८५॥

कृत्वा खल्लाकृतिं चुल्लीम् अङ्गारैः परिपूरिताम् ।
तस्यां निवेश्य तं खल्लं पार्श्वे भस्त्रिकया धमेत् ॥८६॥

तदन्तर्मर्दिता पिष्टिः क्षारैरम्लैश्च संयुता ।
प्रद्रवत्यतिवेगेन स्वेदिता नात्र संशयः ।
कृतः कान्तायसा सोऽयं भवेत् कोटिगुणो रसः ॥८७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:11.5600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

spermocarp

  • स्त्री. Bot. निषिक्तांड फलिका 
RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.