TransLiteral Foundation

रसरत्नसमुच्चय - अध्याय १६

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अध्याय १६
रूक्षैः कोद्रवजीर्णमुद्गचणकैः क्रुद्धोऽनिलोऽधो वहन् रुद्ध्वा वर्त्म मलं विशोष्य कुरुते विण्मूत्रसंगं ततः ।
हृत्पृष्ठोदरवस्तिमस्तकरुजः सश्वासकासं ज्वरं गच्छन्नूर्ध्वमसौ हि नूनम् अनिशं कोपादुदावर्तयेत् ॥१॥

कंकुष्ठहिंगुसिंधूत्थत्रिवृद्दंतीवचाभयाः ।
चित्रकस्य तु मूलं च कल्कीकृत्य पचेद् घृतम् ॥२॥

चतुर्गुणे गवां क्षीरे युक्तं स्नुक्क्षीरमात्रया ।
उदावर्तोदरान् हन्ति पानेन सर्वदा ॥३॥


अतिसारः
अत्यम्बुपानतिलपिष्टविरूढरूक्षशुष्कामिषाध्यशनबद्धमलग्रहाद्यैः ।
क्रुद्धोऽनिलोऽतिसरणाय च कल्पतेऽग्निं हत्वा मलं शिथिलयन्नपि तोयधातून् ॥४॥


दर्दुररसः
सुश्लक्ष्णतीक्ष्णचूर्णं तु रसेन्द्रसमभागिकम् ।
कांचनाररसैर्घृष्टं सर्वातीसारनाशनम् ॥५॥

पिष्टः समेन तीक्ष्णेन काञ्चनारांबुमर्दितः ।
पुटपक्वोऽतिसारघ्नः सूतोऽयं दर्दुराह्वयः ॥६॥

हिंगुलं वत्सनाभं च मरिचं टंकणं कणा ।
मर्दयेत्समभागं च रसो ह्यानन्दभैरवः ॥७॥

गुंजैकां वार्धगुञ्जां वा बलं ज्ञात्वा प्रदापयेत् ।
मधुना लेहयेच्चानु कुटजस्य फलं त्वचम् ॥८॥

चूर्णितं कर्षमात्रं तु त्रिदोषोत्थातिसारजित् ।
दध्यन्नं दापयेत्पथ्यं गवाज्यं तक्रमेव वा ।
पिपासायां जलं शीतं विजया च हिता निशि ॥९॥


सुधासाररसः
पृथक्पलिकगंधाश्मसूतसंजातकज्जलीम् ।
प्रद्राव्य निक्षिपेद्व्योम पलैकं गतचन्द्रिकम् ॥१०॥

काष्ठेनालोड्य तत्सर्वं क्षिपेत्कुटजपत्रके ।
पुनः संचूर्ण्य यत्नेन भावयेत् तदनन्तरम् ॥११॥

बालतिन्दुफलद्रावैः क्षीरैरौदुंबरैस् तथा ।
अरलुत्वग्रसैश्चापि दुग्धिनीस्वरसैस्तथा ॥१२॥

पुटपक्वस्य बालस्य दाडिमस्य रसैः शुभैः ।
कृष्णकाम्बोजिकामूलरसैः कुटजवल्कजैः ॥१३॥

तुल्यांशविश्वगांधारीचूर्णं द्विपलिकं क्षिपेत् ।
मुस्तावत्सकदीप्याग्निमोचसारं सजीरकम् ॥१४॥

वत्सनाभं च कर्षांशं प्रत्येकं तत्र निक्षिपेत् ।
विचूर्ण्य भावयेद्भूयः शुण्ठीक्वाथेन सप्तधा ॥१५॥

इत्थं सिद्धो रसः पिष्टः करण्डे विनिवेशयेत् ।
सुधासार इति ख्यातः सुधारससमद्युतिः ॥१६॥

दीपनः पाचनो ग्राही हृद्यो रुचिकरस्तथा ।
दोषत्रयातिसारं च दुर्जयं भेषजान्तरैः ॥१७॥

आमं चैवमारक्तं च ज्वरातीसारम् एव च ।
सातिसारां विषूचीं च प्रतिबध्नाति तत्क्षणात् ।
मान्यमानव्यतिक्रान्तिरिव पुण्यफलोदयम् ॥१८॥


रसोत्तमः
पिष्टविश्वाब्दकल्केन विधाय खलु चक्रिकाम् ।
निक्षिपेत् स्वेदनीयन्त्रे पक्त्वार्धघटिकावधि ॥१९॥

आकृष्य तज्जलैरेवं संप्रमर्द्याहरेद् रसम् ।
सुधासाररसं तत्र क्षिप्त्वा धान्यकसंमितम् ॥२०॥

पूर्वोदितेषु रोगेषु प्रददीत भिषग्वरः ।
गोतक्रेणाथ दध्ना वा पथ्यं देयं हितं मितम् ॥२१॥

बालरम्भाफलं गुर्वीफलं बिल्वफलं तथा ।
आम्रपेशी च मधुकं वृन्ताकं च प्रशस्यते ॥२२॥

सर्वातिसारं ग्रहणीं च हिक्कां मन्दाग्निम् आनाहमरोचकं च ।
निहन्ति सद्यो विहितामपाके द्वित्रिप्रयोगेण रसोत्तमोऽयम् ॥२३॥

सांबुस्थालीमुखाबद्धे वस्त्रे पाक्यं निधाय च ।
पिधाय पच्यते यत्र स्वेदनीयन्त्रम् उच्यते ॥२४॥


लोकेश्वररसः
द्वौ भागौ गंधकस्याष्टौ शंखचूर्णस्य योजयेत् ।
एकमेव रसस्यांशमर्कक्षीरेण मर्दयेत् ॥२५॥

चित्रकस्य द्रवेणैवं शोषयित्वा पुनः पुनः ।
एकीकृत्य रसेनाथ क्षारं दत्त्वा तदर्धकम् ॥२६॥

अर्कक्षीरेण कुर्वीत गोलकानथ शोषयेत् ।
निरुध्य चूर्णलिप्तेऽथ भाण्डे दद्यात्पुटं ततः ॥२७॥

लोकेश्वररसो ह्येष ग्रहणीरोगकृन्तनः ।
गुञ्जाचतुष्टयं चास्य मरीचाज्यसमन्वितम् ।
ददीत दधिभक्तं च पथ्यं लोकेश्वरे तथा ॥२८॥


लोकनाथरसः
मृतपारदभागैकं चत्वारः शुद्धगंधकात् ।
यामं च मर्दयेत्खल्ले तेन पूर्वा वराटकाः ॥२९॥

टङ्कणं तु गवां क्षीरैः पिष्ट्वा तेन मुखं लिपेत् ।
वराटानां प्रयत्नेन रुद्ध्वा भाण्डे पुटे पचेत् ॥३०॥

स्वाङ्गशीतं समुद्धृत्य ततश्चूर्ण्य वराटकाः ।
लोकनाथरसो नाम्ना क्षौद्रैर्गुञ्जाचतुष्टयम् ॥३१॥

नागरातिविषामुस्तादेवदारुवचान्वितम् ।
कषायमनुपानं स्याद्वातातीसारनाशनः ॥३२॥

नागभस्मरसव्योमगन्धैर् अर्धपलोन्मितैः ।
कुर्वीत कज्जलीं श्लक्ष्णां प्रक्षिपेत्तदनन्तरम् ॥३३॥

द्विपलोन्मितरालायां द्रुतायां परिमिश्रिताम् ।
भृष्टैर् यक्षाक्षसिंधूत्थवचाव्योषद्विजीरकैः ॥३४॥

सपथ्याविजयादीप्यैस् तुल्यांशैर् अवचूर्णितैः ।
मेलयेत्प्राक्तनं कल्कं भावयेत्तदनन्तरम् ॥३५॥

महानिंबत्वचासारैः कांबोजीमूलजद्रवैः ।
रसैर् नागबलायाश्च गुडूच्याश्च त्रिधा त्रिधा ।
ततश्च गुटिकाः कार्या बदरास्थिप्रमाणतः ॥३६॥

हन्यादेव हि नागसुन्दररसो वल्लोन्मितः सेवितः ।
नानातीसरणामयं गुदपरिभ्रंशं तथा बिंबिशिम् ॥३७॥


षण्निष्कतैलम्
षण्निष्कं तिलतैलस्य निष्कं जम्बीरजं रसम् ।
लवणं पञ्चगुञ्जं च अंगुल्या मर्दयेद् दृढम् ।
आमवातार्तसारघ्नं लिहेत्पथ्यं च पूर्ववत् ॥३८॥


संग्रहणी
मलं संगृह्य संगृह्य कदाचिद् अतिरेचयेत् ।
अरुचिः श्वयथुर् मान्द्यं ग्रहणीरोगलक्षणम् ॥३९॥


वज्रकपाटरसः
मृतसूताभ्रकं गन्धं यवक्षारं सटङ्कणम् ।
वचा जया समं सर्वं जयन्ती भृंगजद्रवैः ॥४०॥

सजंबीरैस्त्र्यहं मर्द्यं शोषयेत्तं च गोलकम् ।
मन्दवह्नौ शनैः स्वेद्यं यामार्धं लौहपात्रके ॥४१॥

रससाम्ये प्रतिनिशा देया मोचरसस्तथा ।
भावयेद्विजयाद्रावैः शोष्यं पेष्यंच सप्तधा ।
रसो वज्रकपाटोऽयं निष्कार्धं मधुना लिहेत् ॥४२॥


अग्निकुमाररसः
दग्धां कपर्दिकां पिष्ट्वा त्र्यूषणं टङ्कणं विषम् ।
गन्धकं शुद्धसूतं च तुल्यं जम्बीरजैर् द्रवैः ॥४३॥

मर्दयेद्भक्षयेन्माषं मरिचाज्यं लिहेदनु ।
निहन्ति ग्रहणीरोगं पथ्यं तक्रौदनं हितम् ॥४४॥

हिङ्गुलं मरिचं गन्धं पिप्पली टङ्कणं विषम् ।
कनकस्य च बीजानि समांशं विजयाद्रवैः ॥४५॥

मर्दयेद्याममात्रं तु चणमात्रं वटीकृतम् ।
भक्षयेद् ग्रहणीं हन्ति रसः कनकसुन्दरः ॥४६॥

अग्निमान्द्यं ज्वरं तीव्रमतिसारं च नाशयेत् ।
दध्यन्नं दापयेत्पथ्यं गव्याजं तक्रमेव वा ॥४७॥


ग्रहणीहररसः
रसाभ्रगन्धाः क्रमवृद्धभागा जयारसेन त्रिदिनं विमर्द्याः ।
गद्याणकार्धं मधुना समेतं ददीत पथ्यं दधिभक्तकं च ॥४८॥

हिंगुलस्थितमहेश्वरबीजं पातयन्त्रविधिना हरणीयम् ।
गंधटंकणमृताभ्रकतुल्यं कोकिलाक्षम् अथ चायसखल्ले ॥४९॥

मर्दनीयम् अभिधारणयुक्ते धूमहीनदहनोपरि संस्थे ।
यावदेष जलशोषणदक्षो जीरकार्द्रकयुतेन स वल्लः ॥५०॥

संग्रहज्वरम् अतिस्रुतिगुल्मान् अर्शसां च विनिहन्ति समूहम् ।
वासुदेवकथितो रसराजश् चण्डसंग्रहगदैककपाटः ॥५१॥


लघुसिद्धाभ्रकरसः
समांशं रसगंधाभ्रदरदं च विशोधितम् ।
लोहखल्ले विनिक्षिप्य गव्याज्येन समन्वितम् ॥५२॥

द्रोणीचुल्ल्यां न्यसेत्खल्लं साङ्गारायां प्रयत्नतः ।
मर्दकेनापि लौहेन मर्दयेद्दिवसद्वयम् ॥५३॥

इति सिद्धो रसेंद्रोऽयं लघुसिद्धाभ्रको मतः ।
वल्लतुल्यो रसो जीरवारिणा सहितः प्रगे ॥५४॥

पीतो हरति वेगेन ग्रहणीमतिदुर्धराम् ।
अतिसारं महाघोरं सातिसारं ज्वरं तथा ॥५५॥

पाचनो दीपनो हृद्यो गात्रलाघवकारकः ।
नागार्जुनेन कथितः सद्यः प्रत्ययकारकः ॥५६॥


सर्वरोगरसः
रसं पलमितं तुल्यं शुद्धनागेन संयुतम् ।
द्रावयित्वायसे पात्रे सतैले निक्षिपेत्क्षितौ ॥५७॥

ततो द्रुते विनिक्षिप्य गंधके तद् विलोड्य च ।
पुनरायसपात्रे तत्क्षिप्त्वा प्रद्राव्य निक्षिपेत् ॥५८॥

तत्तुल्यं जारयेत्तालं पुनः संचूर्ण्य पूर्ववत् ।
तत्तुल्यां जारयेत्सम्यक्कुनटीं परिशोधिताम् ॥५९॥

तत्तुल्यं चूर्णिते तस्मिन्क्षिपेन्नागं निरुत्थकम् ।
तावदेव मृतं ताप्यं सर्वमन्यच्च तत्समम् ॥६०॥

तीक्ष्णायः खर्परं व्योम हिंगुलं च शिलाजतु ।
पृथक्कर्षांशमानेन षट्कोलं कट्फलं मिशीम् ॥६१॥

दीप्यकं च चतुर्जातं रेणुकोशीरवेल्लकम् ।
तुंबरुं भार्ङ्गिकां रास्नां कङ्कोलं चोरपुष्करम् ॥६२॥

रिङ्गिणीं चिरतिक्तं च बीजान्युन्मत्तकस्य च ।
पलद्वयं च लांगल्याः सर्वेषां द्वादशांशकम् ॥६३॥

वत्सनाभं सितं भूरि विनिक्षिप्य ततः परम् ।
त्रिफलानां दशाङ्घ्रीणां कषायेण ततः परम् ॥६४॥

जयन्त्यार्द्रकवासानां मार्कवस्य रसैस्तथा ।
भावयित्वा च कर्तव्या वटकाश्चणकोपमाः ॥६५॥

एकैका वटिका सेव्या कुर्यात्तीव्रतरां क्षुधाम् ।
विषूचीमरतिं हिक्कां सेव्यं स्वादु च शीतलम् ॥६६॥

सामां च ग्रहणीं सदाङ्गतुदनं शोषोत्कटं पाण्डुताम् आर्तिं वातकफत्रिदोषजनितां शूलं च गुल्मामयम् ।
हिक्काध्मानविषूचिकां च कसनं श्वासार्शसां विद्रधिं सर्वारोप्यवटी क्षणाद्विजयते रोगांस्तथान्यानपि ॥६७॥


ग्रहणीगजकेसरीरसः
रसगंधकयोः कृत्वा कज्जलीं तुल्यभागयोः ।
द्रावयित्वायसे पात्रे रसतुल्यं विनिक्षिपेत् ॥६८॥

चराचरभवं भस्म तत्र माक्षिकसंभवम् ।
गंधपाषाणसहितं पात्रे लोहमये क्षिपेत् ॥६९॥

तत्काष्ठेन विलोड्याथ निक्षिपेत्कदलीदले ।
तत आच्छाद्य संचूर्ण्य निधायायसभाजने ॥७०॥

अक्षमात्रं क्षिपेद्भस्म तत्र माक्षिकसम्भवम् ।
सम्यङ्निश्चन्द्रतां नीतं व्योमभस्म पलोन्मितम् ॥७१॥

विषं विषां च गन्धारीं मोचसारं सजीरकम् ।
सर्वं समांशिकं कृत्वा रसे चार्धांशिकं क्षिपेत् ॥७२॥

सर्वमेतन्मर्दयित्वा भावयेदतियत्नतः ।
जयंत्या च महाराष्ट्र्या गञ्जाकिन्याश्वगन्धया ॥७३॥

पञ्चकोलकषायैश्च कुर्याच्चूर्णं ततः परम् ।
इत्थं सिद्धो रसः सोऽयं ग्रहणीगजकेसरी ॥७४॥

नामतो नन्दिना प्रोक्तः कर्मतश्च सुधानिधिः ।
वल्लेन प्रमितश्चायं रसः शुण्ठ्या घृताक्तया ॥७५॥

सेवितो ग्रहणीं हन्ति सत्सङ्ग इव विग्रहम् ।
पथ्यमत्र प्रदातव्यं स्वल्पाज्यं दधितक्रयुक् ॥७६॥

हितं मितं च विशदं लघु ग्राहि रुचिप्रदम् ।
पाचनो दीपनोऽत्यर्थमामघ्नो रुचिकारकः ॥७७॥

तत्तदौषधयोगेन सर्वातीसारनाशनः ।
बध्नन्नपि मलं शीघ्रं नाध्मानं कुरुते नृणाम् ॥७८॥


शीघ्रप्रभावरसः
पारदं गन्धकं व्योम तीक्ष्णं तालं मनःशिला ।
सौवीरमञ्जनं शुद्धं विमलं च समांशकम् ॥७९॥

एभिः कज्जलिकां कृत्वा स्वल्पतैलेन भर्जयेत् ।
ग्रन्थिकं जीरकं चित्रं दीप्यकं मुस्तकं विषम् ॥८०॥

बालाम्रं बालबिल्वं च मोचसारं समांशकम् ।
विचूर्ण्य पूर्ववत्कल्कं तदर्धेन विनिक्षिपेत् ॥८१॥

पुनर्विमर्दयेद् यत्नादेकरूपं भवेद्यथा ।
भावयेत्सप्तवाराणि पञ्चकोलकषायतः ॥८२॥

अरलुत्वग्रसेनापि दशवाराणि भावयेत् ।
प्रोक्तेन क्रमयोगेन रसो निष्पद्यते ह्ययम् ॥८३॥

जग्धो विश्वघनाम्बुना स हि रसः शीघ्रप्रभावाभिधो निष्कार्धप्रमितो महाग्रहणिकारोगेऽतिसारामये ।
आध्माने ग्रहणीभवे रुचिहते वाते च मन्दानले मुक्ते चापि मले पुनश्चलमलाशङ्कासु हिक्कासु च ॥८४॥


पोटलीरसः
कपर्दतुल्यं रसगन्धकल्कं लोहं मृतं टङ्कणकं च तुल्यम् ।
जयारसेनैकदिनं विमर्द्य चूर्णेन सम्पिष्य पुटेत्तु भाण्डे ॥८५॥

ददीत तां पोटलिकां च दोषत्रयप्रधानग्रहणीनिवृत्त्यै ॥८६॥


वह्निज्वालावटीरसः
नष्टपिष्टौ चतुर्माषमेकैकं रसगंधकौ ।
अभ्रकं माषमानं च मातुलुंगाम्लमर्दितम् ॥८७॥

शोधितं सप्तधा चैव द्विमाषं त्र्यूषणं पृथक् ।
त्रिशूली भृंगचाङ्गेरी सातला तीक्ष्णपर्णिका ॥८८॥

श्वेतापराजिता कन्या मत्स्याक्षी ग्रीष्मसुन्दरा ।
करिणी कर्णमोटी च रुदंती चित्रकार्द्रकात् ॥८९॥

धुस्तूरकाकमाचीभ्यां मुसल्याश्च पृथग्रसैः ।
मर्दितं द्विपलैः कुर्याद्वटिका माषसंमिता ॥९०॥

ग्रहण्यां पर्णखण्डेन व्योषयुक्ता निषेविता ।
अरुचिं राजयक्ष्माणं मन्दाग्निं सूतिकागदान् ।
शमयेद्वटिका नाम्ना वह्निज्वालेति गीयते ॥९१॥


वज्रधररसः
रसगंधकताम्राभ्रं क्षारांस्त्रीन्वरुणो वृषम् ।
अपामार्गस्य च क्षारं लवणं द्विद्विमाषकम् ॥९२॥

चाङ्गेर्या हस्तिशुंड्याश्च रसैः पिष्टं पचेत्पुटे ।
भक्षयित्वा ततो गुञ्जां ग्रहण्यां कांजिकं पिबेत् ॥९३॥

पक्तिशूले च कासे च मन्दाग्नाव् आर्द्रकद्रवम् ।
अम्लपित्ते च धारोष्णं क्षीरं वज्रधरो ह्ययम् ॥९४॥


ग्रहणीकपाटरसः
रसेंद्रगन्धातिविषाभयाभ्रं क्षारद्वयं मोचरसो वचा च ।
जया च जंबीररसेन पिष्टं पिण्डीकृतं स्याद्ग्रहणीकपाटः ॥९५॥

तस्यार्धमाषं मधुना प्रभाते शम्बुकभस्माज्यमधूनि लिह्यात् ।
सक्षीरिणीजीरकमाणिमन्थतीक्ष्णानि चादौ दधिभोजनं च ॥९६॥


सौवर्चलादिचूर्णम्
सौवर्चलं जीरकयुग्मधान्यजयायवानी कणनागरं च ।
कपित्थसारेण समं प्रगृह्य ददीत चूर्णं निशि तीव्रपित्तैः ॥९७॥

गद्याणमात्रं मधुखण्डयुक्तं तक्रेण युक्तं त्वरुचिप्रशान्त्यै ।
वातप्रधाने च कफप्रधाने रात्रौ कषायं कुटजस्य दद्यात् ॥९८॥


मुस्तादिचूर्णम्
मुस्तावत्सकपाठाग्निव्योषप्रतिविषाविषम् ।
धातकीमोचनिर्यासश्चूतास्थिग्रहणीहरम् ॥९९॥

वह्निशुंठीबिडं बिल्वं लवणं पेषयेत्समम् ।
पिबेदुष्णांभसा चानु वातोत्थां ग्रहणीं जयेत् ॥१००॥

दग्धशंबूकसिंधूत्थं तुल्यं क्षौद्रेण लेहयेत् ।
निष्कैकैकं निहन्त्याशु ग्रहणीरोगम् उत्कटम् ॥१०१॥

कृशान्वजाजीद्वयमाक्षिकेण कटुत्रयेणापि युतं त्वनुष्णम् ।
चाङ्गेरिकाजीरकयुग्मधान्यं दुग्धेन्दुशाकाय ददीत दध्ना ॥१०२॥


अजीर्णम्
विरेको जठरे शूलं वमनं च मुहुर्मुहुः ।
हस्तपादादिसंकोचः सर्वाजीर्णस्य लक्षणम् ॥१०३॥


अजीर्णकण्टकरसः
शुद्धसूतं विषं गन्धं समं सर्वविचूर्णितम् ।
मरिचं सर्वतुल्यांशं कंटकार्या फलद्रवैः ॥१०४॥

मर्दयेद् भावयेत् सर्वम् एकविंशतिवारकम् ।
वटीं गुञ्जात्रयीं खादेत्सर्वाजीर्णप्रशान्तये ॥१०५॥

अजीर्णकण्टकः सोऽयं रसो हन्ति विषूचिकाम् ।
वारिणा तिलपर्ण्युत्थमूलं पिष्ट्वा पिबेदनु ॥१०६॥


विध्वंसरसः
विमर्द्य गन्धोपलटंकणेन संभाव्य वारानथ सप्तजात्याः ।
तोयैः फलानामथ सिद्धसूतो विध्वंसनामा शमनो विषूच्याः ॥१०७॥

अमुष्य गुञ्जा नव दापनीया हन्तुं विषूचीं सितया समेताः ।
तक्रौदनं स्यादिह भोजनाय पथ्यं च शाकं किल वास्तुकस्य ॥१०८॥


विषूचीविजयरसः
रसगंधटंकभसितं समांशकं परिमर्द्य जातिफलसप्तभावितम् ।
सितयोपयुज्य नवरक्तिकोन्मितं मथितान्नभुग्विजयते विषूचिकाम् ॥१०९॥


अग्निकुमाररसः
हंसपादीरसैः सिद्धं रसगंधकयोः पलम् ।
कोलं च विषचूर्णस्य वालुकायंत्रपाचितम् ॥११०॥

शाणं विषस्यार्धपलं मरिचस्य विमिश्रयेत् ।
दीपनोऽग्निकुमारोऽयं ग्रहण्यां च विशेषतः ॥१११॥

सवातश्लेष्मजान्रोगान्क्षणाद् एवापकर्षति ।
सन्निपातज्वरश्वासक्षयकासांश्च नाशयेत् ॥११२॥


वडबाग्निरसः
टंकणं मरिचं तुत्थं पृथक् कर्षत्रयं भवेत् ।
सुन्दरं द्वादशं निष्कं त्रिंशन्निष्कम् अयोमलम् ॥११३॥

चूर्णान्येतानि संयोज्य स्थापयेच्छुद्धभाजने ।
शुद्धदेहो नरस्तस्य पानं यद्भोजनोत्तरम् ॥११४॥

अद्यात्पथ्यं ततः स्वल्पं ततस्तांबूलभाग्भवेत् ।
उदराग्निर्नरस्यास्य वडवाग्निसमो भवेत् ।
बहुनात्र किमुक्तेन रसायनमयं नृणाम् ॥११५॥

कान्तं पद्मरसे घृष्टं पुटपक्वं वरारसे ।
मार्कवस्वरसे घृष्टं सप्तकृत्वस् त्वयोमलम् ॥११६॥

शुद्धौ सूतबली चराचररजः कर्षांशतः कज्जलीम् कृत्वा गोपयसा विमर्द्य दिवसं रुद्ध्वा च मूषोदरे ।
सिद्धं कुम्भपुटे स्वतश्च शिशिरा पिष्टा करण्डे स्थिता स्याद् वैश्वानरपोटलीति कथिता तीव्राग्निदीप्तिप्रदा ॥११७॥

एकोनविंशतेश्चूर्णैर्मरिचानां घृतान्वितैः ।
देयेयं वल्लमानेन वयोबलम् अवेक्ष्यताम् ॥११८॥

गिलेद् गलविशुद्ध्यर्थं दधिभक्तमनुत्तमम् ।
कवलत्रयमानेन दुर्गन्धोद्गारशान्तये ॥११९॥

मध्यंदिने ततो भोज्यं घृततक्रोपदंशयुक् ।
रात्रौ च पयसा सार्धं यद्वा रोगानुसारतः ॥१२०॥

विदाहि द्विदलं भूरिलवणं तैलपाचितम् ।
बिल्वं च कारवेल्लं च वृंताकं कांजिकं त्यजेत् ॥१२१॥

इयं हि पोटली प्रोक्ता सिङ्घणेन महीभृता ।
मंदाग्निप्रभवाशेषरोगसंघातघातिनी ॥१२२॥

सिंघणस्य विनिर्दिष्टा भैरवानंदयोगिना ।
लोकनाथोक्तपोटल्या उपचारा इह स्मृताः ।
पोटल्यो दीपनाः स्निग्धा मंदाग्नौ नितरां हिताः ॥१२३॥

पीतवर्णा गुरुस्निग्धा पृष्ठतो ग्रन्थिलामला ।
चराचरेति सा प्रोक्ता वराटी नंदिना खलु ॥१२४॥

सार्धनिष्कमिता श्रेष्ठा मध्यमा निष्कमानिका ।
पादोननिष्कमाना च कनिष्ठात्र वराटिका ॥१२५॥

निष्फलाश्च ततो न्यूनाः पुंवराटाश्च पित्तलाः ।
दत्त्वा दत्त्वा गुणान्भूयो विकारान्कुर्वते हि ते ॥१२६॥


वडवामुखी गुटी
शुल्बायोघनभस्मवेल्लहलिनीव्योषाम्बुनिम्बच्छदैः संयुक्तैश्च हरिद्रया समलवैः सार्धं सशुभ्रामृतैः ।
भृङ्गाम्भोविषतिन्दुकार्द्रकरसैः सम्पिष्य गुंजामिता संशुष्का वडवामुखीति गुटिका नाम्नोदिता तारया ॥१२७॥

क्षिप्रं क्षुत्परिबोधिनी खलु मता सर्वामयध्वंसिनी श्लेष्मव्याधिविधूननी कसनहृच्छ्वासापहा शूलनुत् क्षुद्वैषम्यहरा च गुल्मशमनी मूलार्तिमूलंकषा शोफव्याधिहरात्र किं बहुगिरा सर्वामयोत्सादिनी ॥१२८॥


क्रव्यादरसः
द्विपलं गन्धकं शुद्धं द्रावयित्वा विनिक्षिपेत् ।
पारदं पलमानेन मृतशुल्वायसं पुनः ॥१२९॥

तोलमानेन संक्षिप्य पञ्चाङ्गुलदले क्षिपेत् ।
ततो विचूर्ण्य यत्नेन निक्षिप्यायसभाजने ॥१३०॥

चुल्ल्यां निवेश्य यत्नेन ज्वालयेन्मृदुवह्निना ।
पात्रमात्रं हि जंबीररसं सम्यग्विजारयेत् ॥१३१॥

संचूर्ण्य पञ्चकोलोत्थैः कषायैः साम्लवेतसैः ।
भावनाः खलु कर्तव्याः पञ्चाशत्प्रमितास्ततः ॥१३२॥

भृष्टटंकणचूर्णेन तुल्येन सह मेलयेत् ।
तदर्धं कृष्णलवणं सर्वतुल्यं मरीचकम् ॥१३३॥

सप्तधा भावयेत्पश्चाच्चणकक्षारवारिणा ।
ततः संशोष्य सम्पिष्य कूपिकाजठरे क्षिपेत् ॥१३४॥

अत्यर्थं गुरुमांसानि गुरुभोज्यान्यनेकशः ।
भुक्त्वा च कंठपर्यन्तं चतुर्वल्लमितं रसम् ॥१३५॥

पट्वम्लतक्रसहितं पिबेत्तदनुपानतः ।
क्षिप्रं तज्जीर्यते भुक्तं जायते दीपनं पुनः ॥१३६॥

रसः क्रव्यादनामायं प्रोक्तो मन्थानभैरवैः ।
सिंघणक्षोणिपालस्य भूरिमांसप्रियस्य च ।
दिष्टो ग्रामं समासाद्य भैरवानन्दयोगिना ॥१३७॥

कुर्याद्दीपनमुद्धतं च पचनं दुष्टामसंशोषणं तुन्दस्थौल्यनिबर्हणं गरहरं मूलार्तिशूलापहम् ।
गुल्मप्लीहविनाशनं ग्रहणिकाविध्वंसनं स्रंसनं वातग्रन्थिमहोदरापहरणं क्रव्यादनामा रसः ॥१३८॥


राजशेखरवटी
भागो मृतरसस्यैको वत्सनाभांशकद्वयम् ।
रसतुल्यं शिवाचूर्णं गन्धकं त्र्यूषणं तथा ॥१३९॥

विचूर्ण्यातिप्रयत्नेन भावयेत्सप्तवासरम् ।
ताम्बूलपत्रतोयेन स्वर्णधुस्तूरजद्रवैः ।
पिष्ट्वा चणमिताः कुर्याच्छायाशुष्कास्तु गोलिकाः ॥१४०॥

उष्णांभोयुतराजशेखरवटी मन्दाग्निनिर्णाशिनी नानाकारमहाज्वरार्तिशमनी निःशेषमूलापहा ।
पाण्डुव्याधिमहोदरार्तिशमनी शूलान्तकृत् पाचिनी शोफघ्नी पवनार्तिनाशनपटुः श्लेष्मामयध्वंसिनी ॥१४१॥


अग्निकुमाररसः
शुद्धं सूतं विषं गंधं द्विक्षारं पटुपञ्चकम् ।
दशकं तुल्यांशं भर्जिता विजया नवा ॥१४२॥

दशानां तुल्यभागा च तस्यार्धं शिग्रुमूलकम् ।
तत्सर्वं विजयाद्रावैः शिग्रुचित्रकभृंगजैः ॥१४३॥

द्रावैर् दिनत्रयं मर्द्यं रुद्ध्वा भाण्डे पचेल्लघु ।
दीपाग्निना तु यामैकं शुष्कं यावत्समुद्धरेत् ॥१४४॥

सप्तधा चार्द्रकद्रावैर्भावयेच्चूर्णयेद्भिषक् ।
दीपकोऽग्निकुमारोऽयं निष्कैकं मधुना लिहेत् ।
प्रतिकर्षं गुडं शुंठी ह्यनुपानं च दीपनम् ॥१४५॥


अमृतवटी
कुष्ठगंधविषव्योमत्रिफलापारदैः समैः ।
मृगाम्बुमर्दितैर् मुद्गमानामृतवटी शुभा ।
अजीर्णश्लेष्मवातघ्नी दीपनी रुचिवर्धिनी ॥१४६॥


राक्षसनामा रसः
ताम्रं पारदगंधकौ त्रिकटुकं तीक्ष्णं च सौवर्चलं खल्ले मर्द्य दृढं विधाय सिकताकुम्भेऽष्टयामं ततः ।
स्विन्नं तस्य च रक्तशाकिनिभवं क्षारं समं मेलयेत् सर्वं भावितमातुलुंगजरसैर्नाम्ना रसो राक्षसः ॥१४७॥

मन्दाग्नौ सततं ददीत मुनये प्रातः पुरा शंकरः सख्य अस्मै च्यवनाय मंदहुतभुग्वर्याय नष्टौजसे ।
तेनादाय समस्तलोकगुरवे सूर्याय तस्मै नमो मर्त्यानामपि चास्य दानसमये गुंजाष्टकं वर्जयेत् ॥१४८॥


जीवनामा रसः
रसगंधौ सिन्धुकणाटङ्कणम् अभयाग्निहियावलीकतकफलम् ।
क्रमश उत्तरं च विचूर्णितया बृहतीरससंयुतभावनया ॥१४९॥

आर्द्रकहिंगुपुनर्नवपूतिच्छिन्नरसैः क्रमशस्तु भावनया ।
तत्र कलांशविशं च विमिश्रं तद्रसमानं मानविधया ॥१५०॥

सर्वमजीर्णं कफमारुतपाण्डुशोफहलीमककामलाशूलम् ।
नाशयते ह्युदराग्निकरोऽयं दीपनजीवननामरसेन्द्रः ॥१५१॥


वडवानलरसः
शुल्बं तालकगन्धकौ जलनिधेः फेनोऽग्निगर्भाशयः कान्तायो लवणानि हेमपवयो नीलांजनं तुत्थकम् ।
भागो द्वादशको रसस्य तु दिनं वल्ल्यंबुघृष्टं शनैः सिद्धोऽयं वडवानलो गजपुटे रोगानशेषाञ्जयेत् ॥१५२॥


अग्निजननी वटी
कणनागरगन्धकपारदकं गरलं मरिचं समभागयुतम् ।
लकुचस्य रसैश्चणकप्रमिता गुटिका जनयत्यचिरादनलम् ॥१५३॥


सर्वरोगान्तका वटी
शुद्धसूतं विषं गंधम् अजमोदं फलत्रयम् ।
सर्जीक्षारं यवक्षारं वह्निसैन्धवजीरकम् ॥१५४॥

सौवर्चलं विडङ्गानि सामुद्रं त्र्यूषणं समम् ।
विषमुष्टिः सर्वतुल्या जंबीराम्लेन मर्दितम् ॥१५५॥

मरिचाभां वटीं खादेद्वह्निमांद्यप्रशांतये ।
पथ्या शुण्ठी गुडं चानु पलार्धं भक्षयेत्सदा ॥१५६॥

अग्निमांद्ये वटी ख्याता सर्वरोगकुलान्तका ॥१५७॥


सामान्योपायः
मृतं ताम्रं कणातुल्यं चूर्णं क्षौद्रविमिश्रितम् ।
निष्कार्धं भक्षयेन्नित्यं नष्टवह्निप्रदीप्तये ॥१५८॥

आर्द्रकस्वरसः क्षौद्रं पलमात्रं पिबेदनु ।
यथेष्टं घृतमांसाशी शक्तो भवति पावकः ॥१५९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:13.6400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

nematocide

  • सूत्रकृमिनाशक 
RANDOM WORD

Did you know?

I'm not able to locate this Mahakurma PuraNa vAkhya
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site