रसरत्नसमुच्चय - अध्याय १८

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


भेदा वन्ध्याबलानां हि नवधा परिकीर्तिताः ।
तत्रादिवन्ध्या प्रथमा पापकर्मविनिर्मिता ॥१॥

रक्तेन च पृथग्दोषैः समस्तैः पञ्चधा भवेत् ।
भूतदेवाभिचारैश्च तिस्रो वन्ध्याः प्रकीर्तिताः ॥२॥

पुमानपि भवेद्वन्ध्यो दोषैरेतैश्च शुक्रतः ॥३॥

गर्भस्रावी स्मृता पूर्वं मृतवत्सा द्वितीयका ।
तृतीया स्त्रीप्रसूतिः स्यात्काकवन्ध्या सकृत्प्रसूः ॥४॥


जयसुन्दररस
सुवर्णं रजतं ताम्रं ताप्यसत्त्वं च वैकृतम् ।
एकैकं निष्कमानेन संशुद्धं परिमारितम् ॥५॥

एतच्चतुर्गुणं सूतं सूताद्द्विगुणगन्धकम् ।
मर्दयेल्लक्ष्मणातोयैर्बन्धुजीवरसैरपि ॥६॥

काचकूप्यां ततः क्षिप्त्वा ताम्रपात्रं मुखे न्यसेत् ।
विलिम्पेदभितः कूपीमङ्गुलोत्सेधया मृदा ॥७॥

विशोष्य च पुटं दद्याद्भूमौ निक्षिप्य कूपिकाम् ।
गजाख्यपुटपर्याप्तिः शाणकर्षमितोत्पलैः ॥८॥

स्वांगशीतं विचूर्ण्याथ भावयेल्लक्ष्मणाद्रवैः ।
सप्तवारं विशोष्याथ करण्डान्तर्विनिक्षिपेत् ॥९॥

अश्वगन्धारजोयुक्तरताम्रगोक्षीरसंयुतः ।
सेवितो गुञ्जया तुल्यः सितया च रसोत्तमः ॥१०॥

मासत्रयप्रयोगेण वन्ध्या भवति पुत्रिणी ।
पुत्रिण्यै स्नानशुद्धायै जरत्कौशिकचक्षुषी ॥११॥

गव्याज्येन च संसाध्य तत्तदानीं हि भोजयेत् ।
ऋतावृताविदं देयं यावन्मासत्रयं भवेत् ॥१२॥

रसेन्द्रः कथितः सोऽयं चम्पकारण्यवासिभिः ।
पूर्णामृताख्ययोगीन्द्रैर् नामतो जयसुन्दरः ॥१३॥

सेवितेऽस्मिन्रसे स्त्रीणां न भवेत् सूतिकागदः ।
भवेत्पुत्रश्च दीर्घायुः पण्डितो भाग्यमण्डितः ॥१४॥


रत्नभागोत्तररस
वज्रं मरकतं पद्मरागं पुष्पं च नीलकम् ।
वैदूर्यं चाथ गोमेदं मौक्तिकं विद्रुमं तथा ॥१५॥

पञ्चगुञ्जामितं सर्वं रत्नं भागोत्तरं परम् ।
तत्तन्त्रोक्तविधानेन भस्मीकुर्यात्प्रयत्नतः ॥१६॥

सर्वस्माद् अष्टगुणितं भस्म वैक्रान्तसम्भवम् ।
तत्तुल्यं ताप्यजं भस्म तद्वद्विमलभस्म च ॥१७॥

सर्वतस्त्रिगुणां तुल्यां रसगन्धककज्जलीम् ।
सर्वमेकत्र संमर्द्य छागीदुग्धेन तद्द्व्यहम् ॥१८॥

विधाय पर्पटीं यत्नात्परिचूर्ण्य प्रयत्नतः ।
वन्ध्याकर्कोटकीपर्णक्वाथेन परिमर्दयेत् ॥१९॥

काननोत्पलविंशत्या पुटेत्षोडशवारकम् ।
एवं रसो विनिष्पन्नो रत्नभागोत्तराभिधः ॥२०॥

महावन्ध्यादिवन्ध्यानां सर्वासां संततिप्रदः ।
देवीशास्त्रे विनिर्दिष्टः पुंसां वन्ध्यत्वरोगनुत् ॥२१॥

सोऽयं पाचनदीपनो रुचिकरो वृष्यस्तथा गर्भिणीसर्वव्याधिविनाशनो रतिकरः पाण्डुप्रचण्डार्तिनुत् ।
धन्यो बुद्धिकरश्च पुत्रजननः सौभाग्यकृद्योषितां निर्दोषः स्मरमन्दिरामयहरो योगादशेषार्तिनुत् ॥२२॥


चक्रिबन्धरस
गन्धकः पलमात्रश्च पृथगक्षौ शिलालकौ ।
त्रिदिनं मर्दयित्वाथ विदध्यात्कज्जलीं शुभाम् ॥२३॥

विषाणाकारमूषायां कज्जलीं निक्षिपेत्ततः ।
द्विपलस्य च ताम्रस्य तन्मुखे चक्रिकां न्यसेत् ॥२४॥

संनिरुध्यातियत्नेन संधिबन्धे विशोषिते ।
ततः करिपुटार्धेन पाकं सम्यक् प्रकल्पयेत् ॥२५॥

स्वतःशीतं समुद्धृत्य चक्रिकां परिचूर्णयेत् ।
स्थगयेत्कूपिकामध्ये वस्त्रेण परिगालितम् ॥२६॥

रसोऽयं चक्रिकाबन्धस् तत्तद्रोगहरौषधैः ।
दातव्यः शूलरोगेषु मूले गुल्मे भगन्दरे ॥२७॥

ग्रहण्यामग्निमांद्ये च विद्रधौ जठरामये ।
नागोदरे तथैवोपविष्टके जलकूर्मके ॥२८॥      

स्कन्देनामन्दकृपया त्रिलोकत्राणहेतवे ।

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP