रसरत्नसमुच्चय - अध्याय ८

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


कथ्यते सोमदेवेन मुग्धवैद्यप्रबुद्धये ।
परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता ॥१॥


धन्वन्तरिभाग
अर्धं सिद्धरसस्य तैलघृतयोर्लेहस्य भागोऽष्टमः संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः ।
यो दीयेत भिषग्वराय गदिभिर्निर्दिश्य धन्वन्तरिम् सर्वारोग्यसुखाप्तये निगदितो भागः स धन्वन्तरेः ॥२॥


रुद्रभाग (डेf.)
भैषज्यक्रीणितद्रव्यभागोऽप्य् एकादशो हि यः ।
वणिग्भ्यो गृह्यते वैद्यै रुद्रभागः स उच्यते ॥३॥


विश्वासघातक (बद् फ्य्सिचिअन्/अल्छेमिस्त्)
प्रगृह्याधिकरुद्रांशं योऽसमीचीनम् औषधम् ।
दापयेल्लुब्धधीर् वैद्यः स स्याद् विश्वासघातकः ॥४॥


कज्जली
धातुभिर् गन्धकाद्यैश्च निर्द्रवैर् मर्दितो रसः ।
सुश्लक्ष्णः कज्जलाभोऽसौ कज्जलीत्यभिधीयते ॥५॥

रसपङ्क
सद्रवा मर्दिता सैव रसपङ्क इति स्मृता ॥६॥

पिष्टी (१)
अर्कांशतुल्याद् रसतोऽथ गन्धान् निष्कार्धतुल्यात् त्रुटिशोऽभि खल्ले ।
अर्कातपे तीव्रतरे विमर्द्यात् पिष्टी भवेत् सा नवनीतरूपा ॥७॥

पिष्टी (२)
खल्ले विमर्द्य गन्धेन दुग्धेन सह पारदम् ।
पेषणात् पिष्टतां याति सा पिष्टीति मता परैः ॥८॥


पातनपिष्टी
चतुर्थांशसुवर्णेन रसेन घृष्टिषष्टिका ।
भवेत् पातनपिष्टी सा रसस्योत्तमसिद्धिदा ॥९॥
कृष्टी
रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ।
समुत्थितं च बहुशः सा कृष्टी हेमतारयोः ॥१०॥


पिष्टीं क्षिपेत् सुवर्णान्तर् न वर्णो हीयते तया ॥११॥

स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् ॥१२॥

वरलोहकम्
ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः ।
सगन्धलकुचद्रावे निर्गतं वरलोहकम् ॥१३॥
हेमरक्ती
तेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृतम् ॥१४॥

निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।
तारस्य रञ्जनी चापि बीजरागविधायिनी ॥१५॥


ताररक्ती
एवमेव प्रकर्तव्या ताररक्ती मनोहरा ।
रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी ॥१६॥
दल
मृतेन वा बद्धरसेन वान्यल्लोहेन वा साधितमन्यलोहम् ।
सितं च पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम् ॥१७॥

मासकृतबद्धेन रसेन सह योजितम् ।
साधितं वान्यलोहेन सितं पीतं च तद्दलम् ॥१८॥
शुल्बनाग
माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् ।
तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम् ॥१९॥

नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् ।
इति संसिद्धमेतद्धि शुल्वनागं प्रकीर्त्यते ॥२०॥


साधितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् ।
निहन्ति मासमात्रेण मेहव्यूहं विशेषतः ॥२१॥

पथ्याशनस्य वर्षेण पलितवलिभिः सह ।
गृध्रदृष्टिर्लसत्पुष्टिः सर्वारोग्यसमन्वितः ॥२२॥


पिञ्जरी
लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।
पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते ॥२३॥
चन्द्रार्क
भागाः षोडश तारस्य तथा द्वादश भास्वतः ।
एकत्रावर्तितास्तेन चन्द्रार्कमिति कथ्यते ॥२४॥


निर्वापणम्
साध्यलोहेऽन्यलोहं चेत्प्रक्षिप्तं वङ्कनालतः ।
निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु ॥२५॥

क्षिपेन्निर्वापणं द्रव्यं निर्वाह्ये समभागिकम् ।
आवाह्यं वापनीये च भागे दृष्टे च दृष्टवत् ॥२६॥


वारितरम्
मृतं तरति यत्तोये लोहं वारितरं हि तत् ॥२७॥

रेखपूर्ण
अङ्गुष्ठतर्जनीघृष्टं यत् तद् रेखान्तरे विशेत् ।
मृतलोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ॥२८॥

अपुनर्भव
गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम् ।
नायाति प्रकृतिं ध्मानाद् अपुनर्भवम् उच्यते ॥२९॥


ऊनम, उत्तम
तस्योपरि गुरु द्रव्यं धान्यं चोपनयेद्ध्रुवम् ।
हंसवत् तीर्यते वारिण्युत्तमं परिकीर्तितम् ॥३०॥


निरुत्थापुनर्भव
रौप्येण सह संयुक्तं ध्मातं रौप्येण चेल् लगेत् ।
तदा निरुत्थमित्युक्तं लोहं तद् अपुनर्भवम् ॥३१॥


बीज
निर्वापणविशेषेण तत्तद्वर्णं भवेद्यदा ।
मृदुलं चित्रसंस्कारं तद्बीजमिति कथ्यते ॥३२॥


उत्तरण
इदमेव विनिर्दिष्टं वैद्यैरुत्तरणं खलु ।
संस्पृष्टलोहयोरेकलोहस्य परिनाशनम् ॥३३॥


ताडन
प्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतम् ॥३४॥


धान्याभ्र
चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥३५॥


सत्त्व
क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।
यस्ततो निर्गतः सारः सत्त्वमित्यभिधीयते ॥३६॥


(एक)कोलीसक
कोष्ठिकाशिखरापूर्णैः कोकिलैर् ध्मानयोगतः ।
आकण्ठमनुप्राप्तैर् एककोलीसको मतः ॥३७॥


द्रावणे सत्त्वपाते च माधुकाः खादिराः शुभाः ।
दुर्द्रावे वंशजास्ते तु स्वेदने बादराः शुभाः ॥३८॥


हिङ्गुलाकृष्ट
विद्याधराख्ययन्त्रस्थाद् आर्द्रकद्रावमर्दितात् ।
समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते ॥३९॥

घोषाकृष्ट
स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् ।
मुक्तरङ्गं हि तत्ताम्रं घोषाकृष्टम् उदाहृतम् ॥४०॥


वरनाग
तीक्ष्णनीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् ।
कृष्णं द्रुतद्रावं वरनागं तदुच्यते ॥४१॥


उत्थापन
मृतस्य पुनरुद्भूतिः सम्प्रोक्तोत्थापनाख्यया ॥४२॥


ढालन
द्रुतद्रव्यस्य निक्षेपो द्रवे तड्ढालनं मतम् ॥४३॥

चपल औस् Bलेइ
त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् ।
विमर्द्य पुटयेत्तावद्यावत्कर्षावशेषितम् ॥४४॥

न तत्पुटसहस्रेण क्षयमायाति सर्वथा ।
चपलोऽयं समादिष्टो वार्त्तिकैर् नागसम्भवः ॥४५॥


चपल
इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः ॥४६॥


चपल - रसबन्ध
तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ॥४७॥

स रसो धातुवादेषु शस्यते न रसायने ।
अयं हि खर्वणाख्येन लोकनाथेन कीर्तितः ॥४८॥


धौत
भूभुजंगशकृत्तोयैः प्रक्षाल्यापहृतं रजः ।
कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः ॥४९॥

द्वंद्वान
द्रव्ययोर् मर्दनाध्मानाद् द्वंद्वानं परिकीर्तितम् ॥५०॥
भञ्जिनी
भागाद् द्रव्याधिकक्षेपम् अनु वर्णसुवर्णके ।
द्रवैर्वा वह्निकाग्रासो भञ्जनी वादिभिर् मता ॥५१॥

चुल्लका
पतङ्गीकल्कतो जाता लोहे तारे च हेमता ।
दिनानि कतिचित्स्थित्वा यात्यसौ चुल्लका मता ॥५२॥

पतंगीराग
रञ्जिताद्धि चिराल्लोहाद्ध्मानाद्वा चिरकालतः ।
विनिर्यासः स निर्दिष्टः पतङ्गीरागसंज्ञकः ॥५३॥

आवाप, प्रतीवाप, आच्छादन
द्रुते द्रव्यान्तरक्षेपो लोहाद्ये क्रियते हि यः ।
स आवापः प्रतीवापस् तदेवाच्छादनं मतम् ॥५४॥

अभिषेक
द्रुते वह्निस्थिते लोहे विरम्याष्टनिमेषकम् ।
सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः ॥५५॥

निर्वाप
तप्तस्याप्सु विनिक्षेपो निर्वापः स्नपनं च तत् ॥५६॥


Zएइत्पुन्क्त् fंर् आवाप उस्w.
प्रतीवापादिकं कार्यं द्रुते लोहे सुनिर्मले ॥५७॥


शुद्धावर्त
यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ।
शुद्धावर्तस् तदा ज्ञेयः स कालः सत्त्वनिर्गमे ॥५८॥


बीजावर्त
द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा ।
द्रावस्योन्मुखता सेयं बीजावर्तः स उच्यते ॥५९॥


स्वङ्गशीतल
वह्निस्थम् एव शीतं यत्तदुक्तं स्वाङ्गशीतलम् ॥६०॥


बहिःशीत
अग्नेराकृष्य शीतं यत्तद् बहिःशीतमुच्यते ॥६१॥


स्वेदन
क्षाराम्लैर् औषधैर्वापि दोलायन्त्रे स्थितस्य हि ।
पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ॥६२॥

मर्दन
उदितैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ।
पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् ॥६३॥


मूर्छन
मर्दनादिष्टभैषज्यैर् नष्टपिष्टत्वकारकम् ।
तन्मूर्छनं हि वङ्गाहिभुजकञ्चुकनाशनम् ॥६४॥


उत्थापन
स्वेदातपादियोगेन स्वरूपापादनं हि यत् ।
तदुत्थापनम् इत्युक्तं मूर्छाव्यापत्तिनाशनम् ॥६५॥

नष्टपिष्टि
स्वरूपस्य विनाशेन पिष्टत्वाद् बन्धनं हि तत् ।
विद्वद्भिर्निर्जितः सूतो नष्टपिष्टिः स उच्यते ॥६६॥


पातन
उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वम् अधश् च तिर्यक् ।
निर्यातनं पातनसंज्ञम् उक्तं वङ्गाहिसम्पर्कजकञ्चुकघ्नम् ॥६७॥

रोधन
जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् ।
स्थितिर् आस्थापनी कुम्भे यासौ रोधनमुच्यते ॥६८॥

नियमन
रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ।
क्रियते पारदे स्वेदः प्रोक्तं नियमनं हि तत् ॥६९॥

दीपन
धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यगः ।
ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ॥७०॥

ग्रासमान
इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः ।
इयतीत्युच्यते यासौ ग्रासमानं समीरितम् ॥७१॥
जारणा
ग्रासस्य चारणं गर्भे द्रावणं जारणं तथा ।
इति त्रिरूपा निर्दिष्टा जारणा वरवार्त्तिकैः ॥७२॥

जारण--ग्रास, ...
ग्रासः पिण्डः परिणामस्तिस्रश्चाख्याः परा पुनः ॥७३॥


समुखा निर्मुखा चेति जारणा द्विविधा पुनः ॥७४॥


निर्मुखजारणा
निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः ॥७५॥

बीज
शुद्धं स्वर्णं च रूप्यं च बीजम् इत्यभिधीयते ॥७६॥


समुखजारणा
चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ॥७७॥


समुखरस-जारणा
एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् ।
कठिनान्यपि लोहानि क्षमो भवति भक्षितुम् ।
इयं हि समुखा प्रोक्ता जारणा मृगचारिणा ॥७८॥

राक्षसवक्त्रवत्
दिव्यौषधिसमायोगात् स्थितः प्रकटकोष्ठिषु ।
भुञ्जीताखिललोहाद्यं योऽसौ राक्षसवक्त्रवान् ॥७९॥

चारणा
रसस्य जठरे ग्रासक्षपणं चारणा मता ॥८०॥

गर्भद्रुति
ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिर् उदाहृता ॥८१॥


बाह्यद्रुति
बहिरेव द्रुतिं कृत्वा घनसत्त्वादिकं खलु ।
जारणाय रसेन्द्रस्य सा बाह्यद्रुतिर् उच्यते ॥८२॥

द्रुति (सुब्स्तन्चे)
निर्लेपत्वं द्रुतत्वं च तेजस्त्वं लघुता तथा ।
असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ॥८३॥

द्रुति
औषधाध्मानयोगेन लोहधात्वादिकं तथा ।
संतिष्ठते द्रवाकारं सा द्रुतिः परिकीर्तिता ॥८४॥


जारणा (संस्कार)
द्रुतग्रासपरीणामो विडयन्त्रादियोगतः ।
जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ॥८५॥

विड
क्षारैरम्लैश्च गन्धाद्यैर् मूत्रैश्च पटुभिस् तथा ।
रसग्रासस्य जीर्णार्थं तद्विडं परिकीर्तितम् ॥८६॥


रञ्जन
सुसिद्धबीजधात्वादिजारणेन रसस्य हि ।
पीतादिरागजननं रञ्जनं परिकीर्तितम् ॥८७॥
सारणा
सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् ।
वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता ॥८८॥

वेध
व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु ।
वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ॥८९॥

वेधभेदाः
लेपः क्षेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः ॥९०॥


लेपवेध
लेपनं कुरुते लोहं स्वर्णं वा रजतं तथा ।
लेपवेधः स विज्ञेयः पुटमत्र च सौरकम् ॥९१॥

क्षेपवेध
प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञितः ॥९२॥


कुन्तवेध
संदंशधृतसूतेन द्रुतद्रव्याहृतिश्च या ।
सुवर्णत्वादिकरणं कुन्तवेधः स उच्यते ॥९३॥

धूमवेध
वह्नौ धूमायमानेऽन्तः प्रक्षिप्तरसधूमतः ।
स्वर्णाद्यापादनं लोहे धूमवेधः स उच्यते ॥९४॥

शब्दवेध
मुखस्थितरसेनाल्पलोहस्य धमनात् खलु ।
स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः ॥९५॥

उद्घाटन
सिद्धद्रव्यस्य सूतेन कालुष्यादिनिवारणम् ।
प्रकाशनं च वर्णस्य तदुद्घाटनम् ईरितम् ॥९६॥

स्वेदन
क्षाराम्लैरौषधैः सार्द्धं भाण्डं रुद्ध्वातियत्नतः ।
भूमौ निखन्यते यत्नात्स्वेदनं संप्रकीर्तितम् ॥९७॥

संन्यास
रसस्यौषधयुक्तस्य भाण्डरुद्धस्य यत्नतः ।
मन्दाग्नियुतचुल्ल्यन्तः क्षेपः संन्यास उच्यते ॥९८॥

स्वेदनसंन्यासगुणाः
द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् ।
गुणप्रभावजनकौ शीघ्रव्याप्तिकरौ तथा ॥९९॥

रसनिगममहाब्धेः सोमदेवः समन्तात् स्फुटतरपरिभाषानामरत्नानि हृत्वा ।
व्यरचयदतियत्नात्तैरिमां कण्ठमालां कलयतु भिषगग्र्यो मण्डनार्थं सभायाम् ॥१००॥

भवेत्पठितवारोऽयमध्यायो रसवादिनाम् ।
रसकर्माणि कुर्वाणो न स मुह्यति कुत्रचित् ॥१०१॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP