TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नसमुच्चय - अध्याय ४

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अध्याय ४
मणयः

मणयोऽपि च विज्ञेयाः सूतबन्धस्य कारकाः ॥१॥

वैक्रान्तः सूर्यकान्तश्च हीरकं मौक्तिकं मणिः ॥२॥

चन्द्रकान्तस्तथा चैव राजावर्तश्च सप्तमः ।

गरुडोद्गारकश्चैव ज्ञातव्या मणयस्त्वमी ॥३॥

पुष्परागं महानीलं पद्मरागं प्रवालकम् ।

वैडूर्यं च तथा नीलमेते च मणयो मताः ।
यत्नतः संग्रहीतव्या रसबन्धस्य कारणात् ॥४॥

पञ्चरत्न

पद्मरागेन्द्रनीलाख्यौ तथा मरकतोत्तमः ।
पुष्परागः सवज्राख्यः पञ्च रत्नवराः स्मृताः ॥५॥

नवग्रह

माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्पं भिदुरं च नीलम् ।
गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥६॥

ग्रहानुमैत्र्या कुरुविन्दपुष्पप्रवालमुक्ताफलतार्क्ष्यवज्रम् ।
नीलाख्यगोमेदविदूरकं च क्रमेण मुद्राधृतमिष्टसिद्ध्यै ॥७॥

रसे रसायने दाने धारणे देवतार्चने ।
सुरक्ष्याणि सुजातीनि रत्नान्युक्तानि सिद्धये ॥८॥

माणिक्य

माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ॥९॥

माणिक्य-परीक्षा

कुशेशयदलच्छायं स्वच्छं स्निग्धं महत्स्फुटम् ।
वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठमुच्यते ॥१०॥

माणिक्य-नीलगन्धि

नीलं गङ्गाम्बुसम्भूतं नीलगर्भारुणच्छवि ।
पूर्वमाणिक्यवच्छ्रेष्ठमाणिक्यं नीलगन्धि तत् ॥११॥

माणिक्य-परीक्षा

रन्ध्रकार्कश्यमालिन्यरौक्ष्यावैशद्यसंयुतम् ।
चिपिटं लघु वक्रं च माणिक्यं दुष्टमष्टधा ॥१२॥

माणिक्य-आयुर्वेदीय गुण

माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिनुत् ।
भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् ॥१३॥

मौक्तिक-परीक्षा

ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् ।
ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥१४॥

मौक्तिक-आयुर्वेदीय गुण

मुक्ताफलं लघु हिमं मधुरं च कान्तिदृष्ट्यग्निपुष्टिकरणं विषहारि भेदि ।
वीर्यप्रदं जलनिधेर्जनिता च शुक्तिर्दीप्ता च पक्तिरुजमाशु हरेदवश्यम् ॥१५॥

मौक्तिक-परीक्षा

रूक्षाङ्गं निर्जलं श्यावं ताम्राभं लवणोपमम् ।

अर्धशुभ्रं च विकटं ग्रन्थिलं मौक्तिकं त्यजेत् ॥१६॥

मौक्तिक-आयुर्वेदीय गुण

कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् ।
पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥१७॥

प्रवाल-परीक्षा

पक्वबिम्बफलच्छायं वृत्तायतमवक्रकम् ।
स्निग्धमव्रणकं स्थूलं प्रवालं सप्तधा शुभम् ॥१८॥

प्रवाल-परीक्षा

पाण्डुरं धूसरं सूक्ष्मं सव्रणं कण्डरान्वितम् ।

निर्भारं शुल्बवर्णं च प्रवालं नेष्यतेऽष्टधा ॥१९॥

प्रवाल-आयुर्वेदीय गुण

क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु ।
विषभूतादिशमनं विद्रुमं नेत्ररोगनुत् ॥२०॥

तार्क्ष्य-परीक्षा

हरिद्वर्णं गुरु स्निग्धं स्फुरद्रश्मिचयं शुभम् ।
मसृणं भासुरं तार्क्ष्यं गात्रं सप्तगुणं मतम् ॥२१॥

तार्क्ष्य-परीक्षा

कपिलं कर्कशं नीलं पाण्डु कृष्णं च लाघवम् ।
चिपिटं विकटं कृष्णं रूक्षं तार्क्ष्यं न शस्यते ॥२२॥

तार्क्ष्य-आयुर्वेदीय गुण

ज्वरच्छर्दिविषश्वाससंनिपाताग्निमान्द्यनुत् ।
दुर्नामपाण्डुशोफघ्नं तार्क्ष्यमोजोविवर्धनम् ॥२३॥

पुष्पराग-परीक्षा

पुष्परागं गुरु स्वच्छं स्निग्धं स्थूलं समं मृदु ।
कर्णिकारप्रसूनाभं मसृणं शुभमष्टधा ॥२४॥

पुष्पराग-परीक्षा

निष्प्रभं कर्कशं रूक्षं पीतं श्यामं नतोन्नतम् ।
कपिशं कपिलं पाण्डु पुष्परागं परित्यजेत् ॥२५॥

पुष्पराग-आयुर्वेदीय गुण

पुष्परागं विषच्छर्दिकफवाताग्निमान्द्यनुत् ।
दाहकुष्ठास्रशमनं दीपनं पाचनं लघु ॥२६॥

वज्र

वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् ।
पूर्वं पूर्वमिह श्रेष्ठं रसवीर्यविपाकतः ॥२७॥

पुंवज्र

अष्टास्रं वाष्टफलकं षट्कोणमतिभासुरम् ।
अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते ॥२८॥

स्त्रीवज्र

तदेव चिपिटाकारं स्त्रीवज्रं वर्तुलायतम् ।

नपुंसक

वर्तुलं कुण्ठकोणाग्रं किंचिद्गुरु नपुंसकम् ॥२९॥

स्त्रीपुंनपुंसकं वज्रं योज्यं स्त्रीपुंनपुंसके ।
व्यत्यासान्नैव फलदं पुंवज्रेण विना क्वचित् ॥३०॥

वज्र

श्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् ।
ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम् ॥३१॥

उत्तमोत्तमवर्णं हि नीचवर्णफलप्रदम् ।
न्यायोऽयं भैरवेणोक्तः पदार्थेष्वखिलेष्वपि ॥३२॥

वज्र-आयुर्वेदीय गुण

आयुःप्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनम् सकलामयघ्नम् ।
सूतेन्द्रबन्धवधसद्गुणकृत्प्रदीपनं मृत्युंजयं तदमृतोपममेव वज्रम् ॥३३॥

दोषस्

गौरत्रासश्च बिन्दुश्च रेखा च जलगर्भता ।
सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः ।

क्षेत्रतोयभवा दोषा रत्नेषु न लगन्ति ते ॥३४॥

वज्र-शोधन

कुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा ।
एकयामावधि स्विन्नं वज्रं शुध्यति निश्चितम् ॥३५॥

वज्र-मारण

वज्रं मत्कुणरक्तेन चतुर्वारं विभावितम् ।
सुगन्धिमूषिकामांसैर्वर्तितैर्मर्द्य वेष्टयेत् ॥३६॥

पुटेत्पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् ।
ध्मात्वा ध्मात्वा शतं वारान्कुलत्थक्वाथके क्षिपेत् ।
अन्यैरुक्तः शतं वारान्कर्तव्योऽयं विधिक्रमः ॥३७॥

वज्र-मारण

कुलत्थक्वाथसंयुक्तलकुचद्रवपिष्टया ।
शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च ॥३८॥

अष्टवारं पुटेत्सम्यग्विशुष्कैश्च वनोत्पलैः ।
शतवारं ततो ध्मात्वा निक्षिप्तं शुद्धपारदे ।
निश्चितं म्रियते वज्रं भस्म वारितरं भवेत् ॥३९॥

सत्यवाक् सोमसेनानीर् एतद्वज्रस्य मारणम् ।
दृष्टप्रत्ययसंयुक्तमुक्तवान्रसकौतुकी ॥४०॥

वज्र-मारण

विलिप्तं मत्कुणस्यास्रे सप्तवारं विशोषितम् ।
कासमर्दरसापूर्णे लोहपात्रे निवेशितम् ॥४१॥

सप्तवारं परिध्मातं वज्रभस्म भवेत्खलु ।
ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्तितः ॥४२॥

वज्र-मारण

नीलज्योतिर्लताकन्दे घृष्टं घर्मे विशोषितम् ।
वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवह्निना ॥४३॥

वज्र-मारण

मदनस्य फलोद्भूतरसेन क्षोणिनागकैः ।
कृतकल्केन संलिप्य पुटेद्विंशतिवारकम् ।
वज्रचूर्णं भवेद्वर्यं योजयेच्च रसादिषु ॥४४॥

वज्र-मारण

तद्वज्रं चूर्णयित्वाथ किंचिट् टङ्कणसंयुतम् ।
खरभूनागसत्त्वेन विंशेनावर्तते ध्रुवम् ।
तुल्यस्वर्णेन तद्ध्मातं योजनीयं रसादिषु ॥४५॥

त्रिगुणेन रसेनैव संमर्द्य गुटिकीकृतम् ।
मुखे धृतं करोत्याशु चलद्दन्तविबन्धनम् ॥४६॥

त्रिंशद्भागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगुणं सितामृतवरं रुद्रांशकं चाभ्रकम् ।
पादांशं खलु ताप्यकं वसुगुणं वैक्रान्तकं षड्गुणं भागोऽप्युक्तरसै रसोऽयमुदितः षाड्गुण्यसंसिद्धये ॥४७॥

नील

जलनीलेन्द्रनीलं च शक्रनीलं तयोर्वरम् ॥४८॥

जलनील-गुण

श्वैत्यगर्भितनीलाभं लघु तज्जलनीलकम् ।

इन्द्रनील-गुण

कार्ष्ण्यगर्भितनीलाभं सभारं शक्रनीलकम् ॥४९॥

नील-परीक्षा

एकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् ।
मृदु मध्ये लसज्ज्योतिः सप्तधा नीलमुत्तमम् ॥५०॥

जलनील-परीक्षा

कोमलं विहितं रूक्षं निर्भारं रक्तगन्धि च ।
चिपिटाभं ससूक्ष्मं च जलनीलं च सप्तधा ॥५१॥

नील-आयुर्वेदीय गुण

श्वासकासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् ।
विषमज्वरदुर्नामपापघ्नं नीलमीरितम् ॥५२॥

गोमेद

गोमेदःसमरागत्वाद्गोमेदं रत्नमुच्यते ॥५३॥

गोमेद-परीक्षा

सुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु ।

निर्दलं मसृणं दीप्तं गोमेदं शुभमष्टधा ॥५४॥

गोमेद-परीक्षा

विच्छायं लघु रूक्षाङ्गं चिपिटं पटलान्वितम् ।
निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम् ॥५५॥

गोमेद-आयुर्वेदीय गुण

गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् ।
दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम् ॥५६॥

वैडूर्य-परीक्षा

वैदूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् ।
भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम् ॥५७॥

वैडूर्य-परीक्षा

श्यामं तोयसमच्छायं चिपिटं लघु कर्कशम् ।
रक्तगर्भोत्तरीयं च वैदूर्यं नैव शस्यते ॥५८॥

वैडूर्य-आयुर्वेदीय गुण

वैदूर्यं रक्तपित्तघ्नं प्रज्ञायुर्बलवर्धनम् ।
पित्तप्रधानरोगघ्नं दीपनं मलमोचनम् ॥५९॥

रत्न-शोधन

शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धकैस्तथा ॥६०॥

पुष्परागं च संधानैः कुलत्थक्वाथसंपुटैः ।
तण्डुलीयजलैर् वज्रं नीलं नीलीरसेन च ।
रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ॥६१॥

रत्न-मारण

लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।
वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥६२॥

रत्न-द्रावण

रामठं पञ्चलवणं क्षाराणां त्रितयं तथा ।
मांसद्रवोऽम्लवेतश्च चूलिकालवणं तथा ॥६३॥

स्थूलं कुम्भीफलं पक्वं तथा ज्वालामुखी शुभा ।
द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम् ॥६४॥

दुग्धं स्नुह्यास्तथार्कस्य सर्वं संमर्द्य यत्नतः ।
गोलं विधाय तन्मध्ये प्रक्षिपेत्तदनन्तरम् ॥६५॥

गुणवन्नवरत्नानि जातिमन्ति शुभानि च ।
भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः ॥६६॥

पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च ।
सर्वाम्लयुक्तसंधानपरिपूर्णघटोदरे ॥६७॥

अहोरात्रत्रयं यावत् स्वेदयेत् तीव्रवह्निना ।
तस्मादाहृत्य संक्षाल्य रत्नजां द्रुतिमाहरेत् ।
रत्नतुल्यप्रभा लघ्वी देहलोहकरी शुभा ॥६८॥

द्रावण

मुक्ताचूर्णं तु सप्ताहं वेतसाम्लेन मर्दितम् ।
जम्बीरोदरमध्ये तु धान्यराशौ विनिक्षिपेत् ।
सप्ताहादुद्धृतं चैव पुटे धृत्वा द्रुतिर्भवेत् ॥६९॥

वज्र-द्रावण

वज्रवल्ल्यन्तरस्थं च कृत्वा वज्रं निरोधयेत् ।
अम्लभाण्डगतं स्वेद्यं सप्ताहाद् द्रवताम् व्रजेत् ॥७०॥

वैक्रान्त-द्रावण

श्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् ।
सप्ताहान्नात्र संदेहः खरघर्मे द्रवत्यसौ ॥७१॥

वैक्रान्त-द्रावण

केतकीस्वरसं ग्राह्यं सैन्धवं स्वर्णपुष्पिका ।
इन्द्रगोपकसंयुक्तं सर्वं भाण्डे विनिक्षिपेत् ।
सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् ॥७२॥

रत्न-द्रावण

लोहाष्टके तथा वज्रवापनात् स्वेदनाद् द्रुतिः ।
जायते नात्र संदेहो योगस्यास्य प्रभावतः ॥७३॥

कुरुते योगराजोऽयं रत्नानां द्रावणं परम् ॥७४॥

द्रुतीनां दीर्घकालरक्षणोपायः

कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् ।
तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत् ॥७५॥

रत्न

सूर्यादिग्रहनिग्रहापहरणं दीर्घायुरारोग्यदं ।
सौभाग्योदयभाग्यवश्यविभवोत्साहप्रदं धैर्यकृत् ॥७६॥      


दुश्छायाचलधूलिसंगतिभवालक्ष्मीहरं सर्वदा ।
रत्नानां परिधारणं निगदितं भूतादिनिर्नाशनम् ॥७७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:10.3070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पुडी फोडणें

  • बातमी बाहेर फोडणें 
  • भोभाटा करणें 
  • वार्ता पसरविणें. 
RANDOM WORD

Did you know?

देवाचे तीर्थ ग्रहण करण्यासंबंधी शास्त्रीय संकेत कोणते?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.