TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नसमुच्चय - अध्याय १४

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अध्याय १४
अग्निमान्द्यं ज्वरः शैत्यं वान्तिः शोणितपूययोः ।
सत्त्वहानिश्च दौर्बल्यं राजरोगस्य लक्षणम् ॥१॥

रसस्य तुल्यभागेन हेमभस्म प्रकल्पयेत् ।
तालकं गन्धकं तुत्थं माक्षिकं रसकं शिलाम् ॥२॥

रससाम्येन युञ्जीत तुत्थं भस्मीकृतं न्यसेत् ।
वह्नौ भस्मीकृतं चेत्थं मयूरकसुतुत्थकम् ॥३॥

किंचिट् टङ्कणकं दत्त्वा मार्जारस्य विशा युतम् ।
प्रथमं पुटयेद् दध्ना द्वितीयं मधुना सह ॥४॥

तालकं शोधयेदग्रे कूष्माण्डक्षारपाचनात् ।
तैले पचेत्ततः सम्यक् चूर्णे वा परिशोधयेत् ॥५॥

गन्धकं शोधयेद्दुग्धे रसकं नरवारिणा ।
माक्षिकं सिन्धुसंयुक्तं बीजपूररसे पचेत् ॥६॥

जयन्तीद्रवसम्पिष्टां शिलां तत्रैव पाचयेत् ।
एकीकृत्य ततः सर्वम् अर्कक्षीरेण मर्दयेत् ॥७॥

जयन्तीभृङ्गराजाभ्यां वासापाठाकृशानुभिः ।
अगस्तिलाङ्गलीभ्यां च प्रत्येकं दिवसं शनैः ॥८॥

ततस्तु गोलकं बद्ध्वा पचेत्पूर्ववदाहृतः ।
चूर्णयित्वा ततः सम्यग् भावयेदार्द्रकाम्बुना ॥९॥

सप्तधा व्योषनिर्यासै रसः कनकसुन्दरः ।
गुञ्जाद्वयं त्रयं वास्य राजयक्ष्मापनुत्तये ॥१०॥

मधुना पिप्पलीभिश्च मरिचैर्वा घृतान्वितैः ।
लेहयेद्रोगिणं वैद्यो बलावस्थाविशेषवित् ॥११॥

जयपालरजोभिर्वा शुण्ठ्या गव्यघृताक्तया ।
ददीत शूलिने प्राज्ञो गुल्मिने च विशेषतः ॥१२॥

कादिवर्ज्यं चरेत्पथ्यं हृद्यं बल्यं च पूर्ववत् ।
सन्निपाते ददीतैनमार्द्रकद्रवसंयुतम् ।
गुडूचीत्रिफलाक्वाथैः संस्कृतो गुग्गुलुर्वरः ॥१३॥


राजमृगाङ्करसः
रसभस्म त्रयो भागा भागैकं हेमभस्मकम् ।
मृतताम्रस्य भागैकं शिलागन्धकतालकम् ॥१४॥

प्रतिभागद्वयं शुद्धमेकीकृत्य विचूर्णयेत् ।
वराटान्पूरयेत्तेन अजाक्षीरेण टङ्कणम् ॥१५॥

पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे तन्निरोधयेत् ।
शुद्धं गजपुटे पच्याच्चूर्णयेत्स्वाङ्गशीतलम् ॥१६॥

रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः क्षयापहः ।
दशपिप्पलिकाक्षौद्रैर्मरिचैकोनविंशतिः ।
सघृतैर्दापयेद्वैद्यो रोगराजप्रशान्तये ॥१७॥


शङ्खेश्वररसः
शङ्खस्य वलयान्निष्कं चतुर्निष्कं वराटकम् ।
निष्कार्धं नीलतुत्थस्य सर्वतुल्यं तु गन्धकम् ॥१८॥

गन्धतुल्यं मृतं नागं नागतुल्यं मृतं रसम् ।
टङ्कणं रसतुल्यं स्यान्मर्द्यं पाच्यं मृगाङ्कवत् ।
राजयक्ष्महरः सोऽयं नाम्ना शङ्खेश्वरो मतः ॥१९॥


मृगाङ्कपोटलीरसः
शङ्खनाभिं गवां क्षीरैः पेषयेन्निष्कषोडश ।
तेन मूषा प्रकर्तव्या तन्मध्ये भस्मसूतकम् ॥२०॥

निष्कार्धं गन्धकात्त्रीणि चूर्णीकृत्य विनिक्षिपेत् ।
रुद्ध्वा तद्वेष्टयेद्वस्त्रे मृत्तिकां लेपयेद्बहिः ॥२१॥

शोष्यं गजपुटे पच्यान्मूषया सह चूर्णयेत् ।
गुञ्जैकमनुपानेन क्षयं हन्ति मृगाङ्कवत् ॥२२॥


हेमगर्भपटोलीरसः
द्विनिष्कं भस्म सूतस्य निष्कैकं स्वर्णभस्मकम् ।
शुद्धगन्धकनिष्कौ द्वौ चूर्णयित्वा चित्रकद्रवैः ॥२३॥

द्वियामान्ते विशोष्याथ तेन पूर्या वराटिकाः ।
वराटान्मृण्मये भाण्डे रुद्ध्वा गजपुटे पचेत् ॥२४॥

स्वाङ्गशीतं विचूर्ण्याथ पोटलीं हेमगर्भिताम् ।
मृगाङ्कवच्चतुर्गुञ्जं भक्षितं राजयक्ष्मनुत् ॥२५॥

स्वयमग्निरसं खादेत्त्रिनिष्कं राजयक्ष्मनुत् ॥२६॥


पञ्चामृतरसः
भस्मसूताभ्रलोहानां शिलाजतुविषं समम् ।
गुडूचीत्रिफलाक्वाथैः संस्कृतं गुग्गुलुं तथा ॥२७॥

मृतं नेपालताम्रं च सूतस्थाने नियोजयेत् ।
एकीकृत्य द्विगुञ्जं तद्भक्षयेद्राजयक्ष्मनुत् ॥२८॥

पञ्चामृतरसो नाम ह्यनुपानं च पूर्ववत् ॥२९॥

हरेत्क्षीराजगन्धाभ्यां जयन्ती वा क्षयापहा ॥३०॥


क्षयशामकरसः
तुल्यं पारदगन्धकं त्रिकटुकं ताभ्यां रजः कम्बुजं तैस्तुल्यं च भवेत्कपर्दभसितं स्यात्पारदाट्टङ्कणम् ।
पादांशं सकलैः समानमरिचं लिह्यात्क्रमात्साज्यकं यावन्निष्कमितं भवेत्प्रतिदिनं मासात्क्षयः शाम्यति ॥३१॥


लोकनाथरसः
रसस्य भस्मना हेम पादांशेन प्रकल्पयेत् ।
गन्धकं द्विगुणं दत्त्वा मर्दयेच्चित्रकाम्बुना ॥३२॥

चराचरास्ये सम्पूर्य टङ्कणेन निरुध्य च ।
भाण्डे चूर्णप्रलिप्तेऽथ क्षिप्त्वा रुन्धीत मृत्स्नया ॥३३॥

शोषयित्वा पुटेद्गर्तेऽरत्निमात्रेऽपराह्णके ।
स्वाङ्गशीतलम् उद्धृत्य चूर्णयित्वाथ विन्यसेत् ॥३४॥

एष लोकेश्वरो नाम पुष्टिवीर्यविवर्धनः ।
गुञ्जाचतुष्टयं साज्यं मरिचैश्च समन्वितम् ॥३५॥

खादेत्परमया भक्त्या लोकेशे सर्वदर्शिनी ।
अङ्गकार्श्येऽग्निमान्द्ये च रसोऽयं कासहिक्कयोः ॥३६॥

मरीचैर्घृतसंयुक्तैः प्रदातव्यो दिनत्रयम् ।
लवणं वर्जयेत्तत्र साज्यं सदधि भोजनम् ॥३७॥

एकविंशद्दिनं यावन्मरिचं सघृतं पिबेत् ।
पथ्यं मृगाङ्कवद्देयं शयीतोत्तानपादतः ॥३८॥

वमने सम्प्रवृत्ते तु गुडूचीद्रवमाहरेत् ।
मधुना पाययेत्सार्धं दग्धवृन्ताकमाशयेत् ॥३९॥

स्नानं शीतलतोयेन मूर्ध्नि धारां विनिक्षिपेत् ।
जाते श्लेष्मविकारे तु कदलीफलमाहरेत् ॥४०॥

भृष्ट्वा तन्मरिचैः सार्धं भोजयेच्छ्लेष्मनुत्तये ।
आर्द्रकं मधुमिश्रं वा गुडार्द्रकमथोऽपि वा ॥४१॥

भृष्ट्वा कुस्तुम्बरीमाषान्निस्तुषांश्चूर्णयेत्ततः ।
शर्कराघृतसम्मिश्रान्ददीतारुचिशान्तये ॥४२॥

भृष्ट्वा कुस्तुम्बरीं सम्यग् घृते शर्करया पिबेत् ।
एलां मरिचसंयुक्तां यावद् वान्तिः प्रशाम्यति ॥४३॥

अजमोदं विडङ्गं च पिष्ट्वा तक्रेण पाययेत् ।
कृमिकोपप्रशान्त्यर्थं क्वाथं वातघ्नमुस्तयोः ॥४४॥

संस्कृत्य दुग्धिकां वह्नौ विरेके च प्रयोजयेत् ।
ईषद्भृष्ट्वा जयाचूर्णं मधुना खादयेन्निशि ॥४५॥

अङ्गतोदे घृतेनाङ्गं मर्दयित्वोष्णवारिणा ।
स्नापयेद्रोगिणं वैद्यो लोकनाथं रसं स्मरन् ॥४६॥


वैद्यनाथरसः
शंखस्य वलयं निष्कं चतुर्निष्कं वराटिकाः ।
कर्षांशं नीलतुत्थं च तालं गन्धाश्मटङ्कणम् ॥४७॥

तुत्थं नागरसं चार्धं निष्कांशं पूर्ववत्पुटेत् ।
वराटचूर्णं मण्डूरकल्पितालेपने पचेत् ॥४८॥

अस्यार्धमाषं मरिचार्धमाषं ताम्बूलवल्लीरसभावितं च ।
तत्पत्रलिप्तं मधुनावलिह्याद्धैयङ्गवीनेन घृतेन वापि ॥४९॥

नाडीमार्गे निर्गते चाल्पमल्पं पथ्यं भोज्यं लोकनाथोपदिष्टम् ।
यामे यामे चैवम् आ मण्डलान्तात् सिद्धं सद्यः शोषजिद्वैद्यनाथः ॥५०॥


लोकनाथरसः
अध्यर्धनिष्कौ रसतुत्थभागौ पृथक्पृथग्गन्धकटङ्ककर्षम् ।
शंखस्य कर्षं मृतताम्रतो द्वौ वराटिकानां नव सम्पुटस्थान् ॥५१॥

पक्त्वा पचेदर्कदलद्रवार्द्रान् भूयोऽर्धभागेन करीषकाणाम् ।
अस्यार्धपादं मरिचार्धभागं गन्धाश्मनिष्कं च घृतेन लिह्यात् ॥५२॥

अश्नीयात्पूर्ववत्पथ्यं वासराण्येकविंशतिः ।
लोकनाथरसो नाम्ना रोगराजनिकृन्तनः ॥५३॥


प्राणनाथरसः
अयोरजो विंशतिनिष्कमानं विभावितं भृङ्गरसाढकेन ।
धत्तूरभार्ङ्गित्रिफलारसार्द्रं तुल्यांशताप्यं विपचेत्पुटेषु ॥५४॥

सूतं च निष्कं समभागतुत्थं गन्धोपलौ द्वौ चतुरो वराटान् ।
पक्त्वा पुटाग्नौ समलोहचूर्णान्पचेत्तथा पूर्वरसैर्विमिश्रान् ॥५५॥

चूर्णेऽस्मिन्मरिचाः सप्त तुत्थटङ्कणयोर्दश ।
संसृजेत् तत् पृथङ्निष्कान् प्राणनाथाह्वयोदितः ॥५६॥

अर्धपादो रसाद्भक्ष्यः केवलाद्राजयक्ष्मिभिः ।
शोषोदरार्शोग्रहणीज्वरगुल्माद्युपद्रुतैः ॥५७॥


वज्ररसः
कर्षं खर्परसत्त्वस्य षण्मासे हेम्नि विद्रुते ।
षण्निष्कसूतं गन्धाश्मन्यष्टनिष्के प्रवेशितम् ॥५८॥

प्रवालमुक्ताफलयोश्चूर्णं हेमसमांशयोः ।
क्रमाद्द्वित्रिचतुर्निष्कं मृतायः सीसभास्करम् ॥५९॥

चाङ्गेर्यम्लेन यामांस्त्रीन्मर्दितं चूर्णितं पृथक् ।
द्वौ निष्कौ नीलवटकव्योमायस्कान्ततालकात् ॥६०॥

अङ्कोल्लकङ्गुणीबीजतुत्थेभ्यश् चतुरः पृथक् ।
अष्टौ च टंकणक्षाराद्वराटानां च विंशतिः ॥६१॥

महाजम्बीरनीरस्य प्रस्थद्वन्द्वेन पेषयेत् ।
एतदष्टशरावस्थं शुद्धं खार्यास्तुषस्य च ॥६२॥

करीषभारे च पचेदथ माषद्वयं ततः ।
एतावद्गन्धकात्पादं मरिचाद्भावितादपि ॥६३॥

मधुनालोडितं लिह्यात्ताम्बूलीपत्रलेपितम् ।
गतेऽस्य घटिकामात्रे प्रतियामं च पथ्यभुक् ॥६४॥

नो चेदुद्दीपितो वह्निः क्षणाद्धातून्पचत्यतः ।
दिनमेकं निषेव्यैनं त्याज्यान्यामण्डलं त्यजेत् ॥६५॥

ततः परं यथेष्टाशी द्वादशाब्दं सुखी भवेत् ।
एकमेकं दिनं भुक्त्वा वर्षे वर्षे महारसम् ॥६६॥

वर्षादौ च त्यजेत्त्याज्यं द्वादशाब्दं जरां जयेत् ।
एष वज्ररसो नाम क्षयपर्वतभेदनः ॥६७॥


महावीररसः
निष्कौ द्वौ तुत्थभागस्य रसाद् एकं सुसंस्कृतात् ।
निष्कं विषस्य द्वौ तीक्ष्णात्कर्षांशं गन्धमौक्तिकात् ॥६८॥

अग्निपर्णीहरिलताभृङ्गार्द्रसुरसारसैः ।
मर्दितं लाङ्गलीकन्दप्रलिप्ते सम्पुटे पचेत् ॥६९॥

अर्धपादं च पोटल्याः काकिन्यौ द्वे विषस्य च ।
लिहेन्मरिचचूर्णं च मधुना पोटलीसमम् ॥७०॥

क्षयग्रहण्यतीसारवह्निदौर्बल्यकासिनाम् ।
पाण्डुगुल्मवतां श्रेष्ठो महावीरो हितो रसः ॥७१॥

अतिस्थूलस्य पूयासृक्कफानुद्वमताक्षये ।
न योजयेत्क्षीररसान्विरुद्धक्रमतत्त्वतः ॥७२॥


सांआन्योपायः
मातुलुङ्गस्य मूलानि लाजचूर्णं ससैन्धवम् ।
पिप्पलीमधुना युक्तं खादेद्वान्तिप्रशान्तये ॥७३॥

रजनीशङ्खपूगं च निष्कैकं वान्तिनाशनम् ।
निष्कार्धं टङ्कणं वाथ काकमाचीद्रवैः पिबेत् ॥७४॥

सुगन्धां वा पिबेत्खादेत् सर्ववान्तिप्रशान्तये ।
अलक्तकरसं क्षौद्रै रक्तवान्तिहरं परम् ॥७५॥


तृष्णाहररसः
युक्तं गन्धकपिष्ट्यायस्तालकं स्वर्णमाक्षिकम् ।
युक्त्या तद्भस्मतां नीतं तृष्णाछर्दिनिवारणम् ॥७६॥


राजावर्तरसः
राजावर्तो रसः शुल्बं माक्षिकं घृतपाचितम् ।
मध्वाज्यशर्करायुक्तं हन्ति सर्वान्मदात्ययान् ॥७७॥

राजावर्तरसः शुल्बं सूतगर्भे नियोजितम् ।
यष्टीमधुरसैर्घृष्टं घृतमध्ये विपाचितम् ॥७८॥

मध्वाज्यशर्करायुक्तं हन्ति सर्वान्मदात्ययान् ॥७९॥


भैरवनाथी पञ्चामृतपर्पटी
सुवर्णं रजतं ताम्रं सत्त्वाभ्रं कान्तलोहकम् ।
क्रमवृद्धमिदं सर्वं शाणेयौ नागवङ्गकौ ॥८०॥

द्रावयित्वैकतः सर्वं रेतयित्वा ततश्चरेत् ।
पृथक्पलमितं गन्धं शिलालं विनिधाय च ॥८१॥

सर्वं खल्ले विनिक्षिप्य मर्दयेद् अम्लवर्गतः ।
ताप्यं नीलाञ्जनं तालं शिलागन्धं च चूर्णितम् ॥८२॥

दत्त्वा दत्त्वा पुटेत्तावद्यावद्विंशतिवारकम् ।
लोहाद् द्विगुणसूतेन ततो द्विगुणगन्धतः ॥८३॥

विधाय कज्जलीं श्लक्ष्णां क्षिप्त्वा तां लोहपात्रके ।
द्रावयेद् बदराङ्गारैर् मृदुभिश्चाथ निक्षिपेत् ॥८४॥

हेमादिपञ्चलोहानां भस्म चाथ विलोडयेत् ।
अथ तत्कदलीपत्रे गोमयस्थे विनिक्षिपेत् ॥८५॥

पत्रेणान्येन संछाद्य कुर्याद्यत्नेन चिप्पिटीम् ।
तस्योपरि क्षिपेत्सद्यो गोमयं स्तोकमेव च ॥८६॥

स्वतः शीतं समाहृत्य पटचूर्णं विधाय च ।
निक्षिपेदूर्ध्वदण्डायां पालिकायां ततः परम् ॥८७॥

पूर्ववद्बदराङ्गारैर् मृदुभिर् द्रावयेच्छनैः ।
तुल्यालकशिलागन्धं पलार्धं विषभावितम् ॥८८॥

पूर्वपर्पटिकातुल्यं तस्मादल्पं मुहुर्मुहुः ।
जारयेत्पलिकामध्ये यथा दह्येन्न पर्पटी ॥८९॥

पलिकेति विनिर्दिष्टा स्नेहक्षेपणयन्त्रिका ।
जीर्णे तालादिके चूर्णे पटचूर्णं विधीयताम् ॥९०॥

पूतीकरञ्जषट्कोलव्याघ्रीसौभाञ्जनाङ्घ्रिभिः ।
एतैः पञ्चपलैः क्वाथं षोडशांशावशेषितम् ॥९१॥

तेन क्वाथेन संस्वेद्य शोषयेत्सप्तधा हि ताम् ।
विषतिन्दुफलोद्भूतै रसैर्निर्गुण्डिकारसैः ॥९२॥

विभाव्य पलिकामध्ये क्षिप्त्वा बदरवह्निना ।
ईषत्प्रस्वेदनं कृत्वा स्थापयेदतियत्नतः ॥९३॥

उक्ता भैरवनाथेन स्यात् पञ्चामृतपर्पटी ।
व्योषाज्यसहिता लीढा गुञ्जाबीजेन संमिता ॥९४॥

सर्वलक्षणसम्पूर्णं विनिहन्ति क्षयामयम् ।
श्वासं कासं विषूचीं च प्रमेहमुदरामयम् ॥९५॥

अरोचकं च दुःसाध्यं प्रसेकं छर्दिहृद्भवम् ।
सर्वजं गुदरोगं च शूलकुष्ठान्यशेषतः ॥९६॥

वातज्वरं च विड्बन्धं ग्रहणीं कफजान्गदान् ।
एकद्वन्द्वत्रिदोषोत्थान् रोगान् अन्यान् महागदान् ॥९७॥

अग्निमान्द्यं विशेषेण हन्तीयं पर्पटी ध्रुवम् ।
एवं समूह्य दातव्या रोगेषु भिषगुत्तमैः ॥९८॥

तत्तद्रोगहरैर् योगैस् तत्तद्रोगानुपानतः ।
क्षयादिसर्वरोगघ्नी स्यात् पञ्चामृतपर्पटी ॥९९॥

तिलसर्षपबिल्वाम्लकारवेल्लकुसुम्भकम् ।
त्यजेत्पारावतं मांसं वृन्ताकं कुक्कुटं तथा ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:12.7130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अ‍ॅडमिशन

  • ना. प्रवेश , शिरकाव ; 
  • ना. कबुली , मान्यता , संमती . 
RANDOM WORD

Did you know?

What is Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site