TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नसमुच्चय - अध्याय २

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अष्टमहारसाः
अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम् ।
चपलो रसकश्चेति ज्ञात्वाष्टौ संग्रहेद् रसान् ॥१॥

देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकम् इति क्षेपकः ।

आयुर्वेदीय गुण

गौरीतेजः परमममृतं वातपित्तक्षयघ्नम् प्रज्ञाबोधि प्रशमितरुजं वृष्यमायुष्यमग्र्यम् ।
बल्यं स्निग्धं रुचिदम् अकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद् व्योम सूतेन्द्रबन्धि ॥२॥

राजहस्ताद् अधस्ताद् यत्समानीतं घनं खनेः ।
भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम् ॥३॥

पिनाकं नागमण्डूकं वज्रमित्यभ्रकं मतम् ।
श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥४॥

पिनाक
पिनाकं पावकोत्तप्तं विमुञ्चति दलोच्चयम् ।
तत्सेवितं मलं बद्ध्वा मारयत्येव मानवम् ॥५॥

नाग
नागाभ्रं नागवत्कुर्याद्ध्वनिं पावकसंस्थितम् ।

आयुर्वेदीय गुण
तद्भुक्तं कुरुते कुष्ठं मण्डलाख्यं न संशयः ॥६॥

मण्डूक
उत्प्लुत्योत्प्लुत्य मण्डूकं ध्मातं पतति चाभ्रकम् ।

आयुर्वेदीय गुण
तत्कुर्यादश्मरीरोगमसाध्यं शस्त्रतोऽन्यथा ॥७॥

वज्र
वज्राभ्रं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम् ।
देहलोहकरं तच्च सर्वरोगहरं परम् ॥८॥

श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम् ।
श्वेतं श्वेतक्रियासूक्तं रक्ताभं रक्तकर्मणि ।
पीताभमभ्रकं यत्तु श्रेष्ठं तत्पीतकर्मणि ॥९॥

चतुर्विधं वरं व्योम यद्यप्युक्तं रसायने ।
तथापि कृष्णवर्णाभ्रं कोटिकोटिगुणाधिकम् ॥१०॥

परीक्षा
स्निग्धं पृथुदलं वर्णसंयुक्तं भारतोऽधिकम् ।
सुखनिर्मोच्यपत्त्रं च तदभ्रं शस्तमीरितम् ॥११॥

ग्रासायोग्याभ्र
सचन्द्रिकं च किट्टाभं व्योम न ग्रासयेद्रसः ।
ग्रसितश्च नियोज्योऽसौ लोहे चैव रसायने ॥१२॥
अभ्र-निश्चन्द्रिक-आयुर्वेदीय गुण

निश्चन्द्रिकं मृतं व्योम सेव्यं सर्वगदेषु च ।
सेवितं चन्द्रसंयुक्तं मेहं मन्दानलं चरेत् ॥१३॥

यैर् उक्तं युक्तिनिर्मुक्तैः पत्त्राभ्रकरसायनम् ।
तैर् दृष्टं कालकूटाख्यं विषं जीवनहेतवे ॥१४॥

सत्त्वार्थं सेवनार्थं च योजयेच्छोधिताभ्रकम् ।
अन्यथा त्व् अगुणं कृत्वा विकरोत्येव निश्चितम् ॥१५॥

शोधन
प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् ।
निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले ॥१६॥

त्रिफलाक्वथिते चापि गवां दुग्धे विशेषतः ।

मारण
ततो धान्याभ्रकं कृत्वा पिष्ट्वा मत्स्याक्षिकारसैः ॥१७॥
पुटेदेवं हि षड्वारं पौनर्नवरसैः सह ॥१८॥

कलांशटङ्कणेनापि संमर्द्य कृतचक्रिकम् ।
अर्धेभाख्यपुटैस् तद्वत् सप्तवारं पुटेत् खलु ॥१९॥

एवं वासारसेनापि तण्डुलीयरसेन च ।
प्रपुटेत् सप्तवाराणि पूर्वप्रोक्तविधानतः ।
एवं सिद्धं घनं सर्वयोगेषु विनियोजयेत् ॥२०॥

धान्याभ्र
चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥२१॥

मारण
धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् ।
पुटितं दशवारेण म्रियते नात्र संशयः ।
तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च ॥२२॥

मारण
पीतामलकसौभाग्यपिष्टं चक्रीकृताभ्रकम् ।
पुटितं षष्टिवाराणि सिन्दूराभं प्रजायते ।
क्षयाद्यखिलरोगघ्नं भवेद्रोगानुपानतः ॥२३॥

मारण
वटमूलत्वचः क्वाथैस् ताम्बूलीपत्त्रसारतः ।
वासामत्स्याक्षिकाभ्यां वा मीनाक्ष्या सकठिल्लया ॥२४॥

पयसा वटवृक्षस्य मर्दितं पुटितं घनम् ।
भवेद्विंशतिवारेण सिन्दूरसदृशप्रभम् ॥२५॥

सत्त्वपातन
पादांशटङ्कणोपेतं मुसलीरसमर्दितम् ।
रुन्ध्यात्कोष्ठ्यां दृढं ध्मातं सत्त्वरूपं भवेद् घनम् ॥२६॥

सत्त्वपातन
कासमर्दघनाधान्यवासानां च पुनर्भुवः ।
मत्स्याक्ष्याः काण्डवल्ल्याश्च हंसपाद्या रसैः पृथक् ॥२७॥

पिष्ट्वा पिष्ट्वा प्रयत्नेन शोषयेद् घर्मयोगतः ।
पलं गोधूमचूर्णस्य क्षुद्रमत्स्याश्च टङ्कणम् ॥२८॥

प्रत्येकमष्टमांशेन दत्त्वा दत्त्वा विमर्दयेत् ।
मर्दने मर्दने सम्यक्शोषयेद्रविरश्मिभिः ॥२९॥

पञ्चाजं पञ्चगव्यं वा पञ्चमाहिषमेव च ।
क्षिप्त्वा गोलान्प्रकुर्वीत किंचित्तिन्दुकतोऽधिकान् ॥३०॥

पञ्चाज
पयो दधि घृतं मूत्रं सविट्कं चाजम् उच्यते ।
अधःपातनकोष्ठ्यां हि ध्मात्वा सत्त्वं निपातयेत् ॥३१॥

सत्त्वपातन
कोष्ठ्यां किट्टं समाहृत्य विचूर्ण्य रवकान् हरेत् ।
तत्किट्टं स्वल्पटङ्केन गोमयेन विमर्द्य च ॥३२॥

गोलान्विधाय संशोष्य घर्मे भूयोऽपि पूर्ववत् ।
भूयः किट्टं समाहृत्य मृदित्वा सत्त्वमाहरेत् ॥३३॥

सत्त्व-शोधन
अथ सत्त्वकणांस्तांस्तु क्वाथयित्वाम्लकाञ्जिकैः ।
शोधनीयगणोपेतं मूषामध्ये निरुध्य च ॥३४॥

सम्यग्द्रुतं समाहृत्य द्विवारं प्रधमेद् घनम् ।
इति शुद्धं भवेत्सत्त्वं योज्यं रसरसायने ॥३५॥

सत्त्व-मृदूकरण

मधुतैलवसाज्येषु द्रावितं परिवापितम् ।
मृदु स्याद्दशवारेण सत्त्वं लोहादिकं खरम् ॥३६॥

मारण
पट्टचूर्णं विधायाथ गोघृतेन परिप्लुतम् ।
भर्जयेत्सप्तवाराणि चुल्लीसंस्थितखर्परे ॥३७॥

अग्निवर्णं भवेद्यावद्वारं वारं विचूर्णयेत् ।
तृणं क्षिप्त्वा दहेद्यावत्तावद्वा भर्जनं चरेत् ॥३८॥

ततः सगन्धकं पिष्ट्वा वटमूलकषायतः ।
पुटेद्विंशतिवारेण वाराहेण पुटेन हि ॥३९॥

पुनर्विंशतिवाराणि त्रिफलोत्थकषायतः ।
त्रिफलामुण्डिकाभृङ्गपत्रपथ्याक्षमूलकैः ॥४०॥

भावयित्वा प्रयोक्तव्यं सर्वरोगेषु मात्रया ।
सत्त्वाभ्रात्किंचिदपरं निर्विकारं गुणाधिकम् ॥४१॥

एवं चेच्छतवाराणि पुटपाकेन साधितम् ।
गुणवज्जायतेऽत्यर्थं परं पाचनदीपनम् ॥४२॥

मारण-निश्चन्द्रिक
गन्धर्वपत्त्रतोयेन गुडेन सह भावितम् ।
अधोर्ध्वं वटपत्राणि निश्चन्द्रं त्रिपुटैः खगम् ॥४३॥

क्षुधं करोति चात्यर्थं गुञ्जार्धमितिसेवया ।
तत्तद्रोगहरैर्योगैः सर्वरोगहरं परम् ॥४४॥

सत्त्व-शोधन
सत्त्वस्य गोलकं ध्मातं सस्यसंयुक्तकाञ्जिके ।
निर्वाप्य तत्क्षणेनैव कुट्टयेल्लोहपारया ॥४५॥

सम्प्रताप्य घनस्थूलकणान् क्षिप्त्वाथ काञ्जिके ।
तत्क्षणेन समाहृत्य कुट्टयित्वा रजश्चरेत् ॥४६॥

गोघृतेन च तच्चूर्णं भर्जयेत् पूर्ववत् त्रिधा ।
धात्रीफलरसैस्तद्वद्धात्रीपत्ररसेन वा ॥४७॥

भर्जने भर्जने कार्यं शिलापट्टेन पेषणम् ।
ततः पुनर्नवावासारसैः काञ्जिकमिश्रितैः ॥४८॥

प्रपुटेद्दशवाराणि दशवाराणि गन्धकैः ।
एवं संशोधितं व्योमसत्त्वं सर्वगुणोत्तरम् ।
यथेष्टं विनियोक्तव्यं जारणे च रसायने ॥४९॥

द्रुति
द्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि दृढम् ।
विना शंभोः प्रसादेन न सिध्यन्ति कदाचन ॥५०॥

मृत-आयुर्वेदीय गुण

वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाशूलामकुष्ठामयम् ।
जूर्तिं श्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेषामयान् ॥५१॥

वैक्रान्त-परीक्षा

अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥५२॥

वैक्रान्त
श्वेतो रक्तश्च पीतश्च नीलः पारापतच्छविः ।
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥५३॥

वैक्रान्त-आयुर्वेदीय गुण
आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषगदापहारी ।
दीप्ताग्निकृत् पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥५४॥

रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् ।
वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वदोषहा ॥५५॥

वैक्रान्त-मिथकीय उत्पत्ति
दैत्येन्द्रो माहिषः सिद्धः सहदेवसमुद्भवः ।
दुर्गा भगवती देवी तं शूलेन व्यमर्दयत् ॥५६॥

तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि ।
तत्र तत्र तु वैक्रान्तं वज्राकारं महारसम् ॥५७॥

वैक्रान्त-लोचल् दिस्त्रिबुतिओन्

विन्ध्यस्य दक्षिणे वास्ति ह्य् उत्तरे वास्ति सर्वतः ।

वैक्रान्त-निरुक्ति

विकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः ॥५८॥

वैक्रान्त

श्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः ।
मयूरकण्ठसदृशश्चान्यो मरकतप्रभः ॥५९॥

देहसिद्धिकरं कृष्णं पीते पीतं सिते सितम् ।
सर्वार्थसिद्धिदं रक्तं तथा मरकतप्रभम् ।
शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा ॥६०॥

यत्र क्षेत्रे स्थितं चैव वैक्रान्तं तत्र भैरवम् ।
विनायकं च सम्पूज्य गृह्णीयाच्छुद्धमानसः ॥६१॥

वैक्रान्त-आयुर्वेदीय गुण

वैक्रान्तो वज्रसदृशो देहलोहकरो मतः ।
विषघ्नो रसराजश्च ज्वरकुष्ठक्षयप्रणुत् ॥६२॥

वैक्रान्त-शोधन

वैक्रान्तकाः स्युस्त्रिदिनं विशुद्धाः संस्वेदिताः क्षारपटूनि दत्त्वा ।
अम्लेषु मूत्रेषु कुलत्थरम्भानीरेऽथवा कोद्रववारिपक्वाः ॥६३॥

वैक्रान्त-शोधन

कुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।

वैक्रान्त-मारण

म्रियतेऽष्टपुटैर् गन्धनिम्बुकद्रवसंयुतः ॥६४॥

वैक्रान्त-मारण

वैक्रान्तेषु च तप्तेषु हयमूत्रं विनिक्षिपेत् ।
पौनःपुन्येन वा कुर्याद्द्रवं दत्त्वा पुटं त्वनु ।
भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥६५॥

वैक्रान्त-सत्त्वपातन

मोचमोरटपालाशक्षारगोमूत्रभावितम् ।
वज्रकन्दनिशाकल्कफलचूर्णसमन्वितम् ॥६६॥

तत्कल्कं टङ्कणं लाक्षाचूर्णं वैक्रान्तसंभवम् ।
नवसारसमायुक्तं मेषशृङ्गीद्रवान्वितं ॥६७॥

पिण्डितं मूकमूषस्थं ध्मापितं च हठाग्निना ।
तत्रैव पतते सत्त्वं वैक्रान्तस्य न संशयः ॥६८॥

वैक्रान्त-सत्त्वपातन

सत्त्वपातनयोगेन मर्दितश्च वटीकृतः ।
मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥६९॥

वैक्रान्त

भस्मत्वं समुपागतो विकृतको हेम्ना मृतेनान्वितः पादांशेन कणाज्यवेल्लसहितो गुञ्जामितः सेवितः ।
यक्ष्माणं जरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीम् उरःक्षतमुखान् रोगाञ्जयेद् देहकृत् ॥७०॥

सूतभस्मार्धसंयुक्तं नीलवैक्रान्तभस्मकं ।
मृताभ्रसत्त्वमुभयोस्तुलितं परिमर्दितम् ॥७१॥

क्षौद्राज्यसंयुतं प्रातर्गुञ्जामात्रं निषेवितम् ।
निहन्ति सकलान्रोगान्दुर्जयानन्यभेषजैः ।
त्रिःसप्तदिवसैर् नॄणां गङ्गाम्भ इव पातकम् ॥७२॥

माक्षिक-मिथकीय उत्पत्ति

सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः ।
ताप्यां किरातचीनेषु यवनेषु च निर्मितः ।

माक्षिक

ताप्यः सूर्यांशुसंतप्तो माधवे मासि दृश्यते ॥७३॥

माक्षिक-आयुर्वेदीय गुण

मधुरः काञ्चनाभासः साम्लो रजतसंनिभः ।
किंचित्कषायमधुरः शीतः पाके कटुर्लघुः ।
तत्सेवनाज्जराव्याधिविषैर्न परिभूयते ॥७४॥

माक्षिकअभ्र

माक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः ।

स्वर्णमाक्षिक

तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसंनिभम् ॥७५॥

तारमाक्षिक

तपतीतीरसम्भूतं पञ्चवर्णसुवर्णवत् ।
पाषाणबहलः प्रोक्तस्ताराख्योऽल्पगुणात्मकः ॥७६॥

माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः ।
दुर्मेललोहद्वयमेलनश् च गुणोत्तरः सर्वरसायनाग्र्यः ॥७७॥

माक्षिक-शोधन

एरण्डतैललुङ्गाम्बुसिद्धं शुध्यति माक्षिकम् ।

माक्षिक-शोधन

सिद्धं वा कदलीकन्दतोयेन घटिकाद्वयम् ।
तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् ॥७८॥

माक्षिक-मारण

मातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम् ।
पञ्चक्रोडपुटैर् दग्धं म्रियते माक्षिकं खलु ॥७९॥

माक्षिक-मारण

एरण्डस्नेहगव्याजैर् मातुलुङ्गरसेन वा ।
खर्परस्थं दृढं पक्वं जायते धातुसंनिभम् ।
एवं मृतं रसे योज्यं रसायनविधाव् अपि ॥८०॥

माक्षिक-सत्त्वपातन

त्रिंशांशनागसंयुक्तं क्षारैर् अम्लैश्च वर्तितम् ।
ध्मातं प्रकटमूषायां सत्त्वं मुञ्चति माक्षिकम् ॥८१॥

माक्षिक-सत्त्व-नागग्रास

सप्तवारं परिद्राव्य क्षिप्तं निर्गुण्डिकारसे ।
माक्षीकसत्त्वसंमिश्रं नागं नश्यति निश्चितम् ॥८२॥

माक्षिक-सत्त्वपातन

क्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च ।
कदलीकन्दसारेण भावितं माक्षिकं मुहुः ।
मूषायां मुञ्चति ध्मातं सत्त्वं शुल्बनिभं मृदु ॥८३॥

माक्षिक-सत्त्व-गुण

गुञ्जाबीजसमच्छायं द्रुतद्रावं च शीतलम् ।
ताप्यसत्त्वं विशुद्धं तद्देहलोहकरं परम् ॥८४॥

माक्षिक-सत्त्व

माक्षीकसत्त्वेन रसेन्द्रपिष्टं कृत्वा विलीने च बलिं निधाय ।
संमिश्र्य संमर्द्य च खल्वमध्ये निक्षिप्य सत्त्वं द्रुतिमभ्रकस्य ॥८५॥

विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्धं मृदुवह्निना च ।
स्वतः सुशीतं परिचूर्ण्य सम्यग्वल्लोन्मितं व्योषविडङ्गयुक्तम् ॥८६॥

संसेवितं क्षौद्रयुतं निहन्ति जरां सरोगां त्वपमृत्युमेव ।
दुःसाध्यरोगानपि सप्तवासरैर्नैतेन तुल्योऽस्ति सुधारसोऽपि ॥८७॥

एरण्डोत्थेन तैलेन गुञ्जाक्षौद्रं च टङ्कणम् ।
मर्दितं तस्य वापेन सत्त्वं माक्षीकजं द्रवेत् ॥८८॥

विमल

विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः ।
तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ॥८९॥

विमल

वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।

विमल-आयुर्वेदीय गुण

मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ॥९०॥

विमल

पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः ।
तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः ॥९१॥

विमल-शोधन

आटरूषजले स्विन्नो विमलो विमलो भवेत् ।
जम्बीरस्वरसे स्विन्नो मेषशृङ्गीरसेऽथवा ।
आयाति शुद्धिं विमलो धातवश्च यथा परे ॥९२॥

विमल-मारण

गन्धाश्मलकुचाम्लैश्च म्रियते दशभिः पुटैः ॥९३॥

विमल-सत्त्वपातन

सटङ्कलकुचद्रावैर्मेषशृङ्ग्याश्च भस्मना ।
पिष्टो मूषोदरे लिप्तः संशोष्य च निरुध्य च ॥९४॥

षट्प्रस्थकोकिलैर्ध्मातो विमलः सीससंनिभः ।
सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्स रसायनः ॥९५॥

विमल-सत्त्वपातन

विमलं शिग्रुतोयेन काङ्क्षीकासीसटङ्कणम् ।
वज्रकन्दसमायुक्तं भावितं कदलीरसैः ॥९६॥

मोक्षकक्षारसंयुक्तं ध्मापितं मूकमूषगम् ।
सत्त्वं चन्द्रार्कसंकाशं पतते नात्र संशयः ॥९७॥

विमल-सत्त्व-आयुर्वेदीय

तत्सत्त्वं सूतसंयुक्तं पिष्टं कृत्वा सुमर्दितम् ।
विलीने गन्धके क्षिप्त्वा जारयेत्त्रिगुणालकं ॥९८॥

शिलां पञ्चगुणां चापि वालुकायन्त्रके खलु ।
तारभस्मदशांशेन तावद्वैक्रान्तकं मृतं ॥९९॥

सर्वमेकत्र संचूर्ण्य पटेन परिगाल्य च ।
निक्षिप्य कूपिकामध्ये परिपूर्य प्रयत्नतः ॥१००॥

लीढो व्योषवरान्वितो विमलको युक्तो घृतैः सेवितो हन्याद्दुर्भगकृज्ज्वराञ्श्वयथुकं पाण्डुप्रमेहारुचीः ।
मूलार्तिं ग्रहणीं च शूलमतुलं यक्ष्मामयं कामलां सर्वान्पित्तमरुद्गदान्किमपरैर्योगैरशेषामयान् ॥१०१॥

शिलाजतु

शिलाधातुर् द्विधा प्रोक्तो गोमूत्राद्यो रसायनः ।
कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः ।
ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ॥१०२॥

शिलाजतु

ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ।
स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर्विनिःसरेत् ॥१०३॥

शिलाजतु

स्वर्णगर्भगिरेर्जातो जपापुष्पनिभो गुरुः ।
सस्वल्पतिक्तः सुस्वादुः परमं तद्रसायनम् ॥१०४॥

शिलाजतु

रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ।
शिलाजं पित्तरोगघ्नं विशेषात्पाण्डुरोगहृत् ॥१०५॥

शिलाजतु

ताम्रगर्भं गिरेर्जातं नीलवर्णं घनं गुरु ।
शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगहृत् ॥१०६॥

शिलाजतु-परीक्षा-शुद्ध

वह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारमधूमकम् ।
सलिलेऽथ विलीनं च तच्छुद्धं हि शिलाजतु ॥१०७॥

शिलाजतु-आयुर्वेदीय गुण

नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं शूलामयोन्मूलनम् ।
गुल्मप्लीहविनाशनं जठरहृच्छूलघ्नमामापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥१०८॥

शिलाजतु-गुण

रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।
वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥१०९॥

शिलाजतु-शोधन

क्षाराम्लगोजलैर् धौतं शुध्यत्येव शिलाजतु ॥११०॥

शिलाजतु-शोधन

शिलाधातुं च दुग्धेन त्रिफलामार्कवद्रवैः ।
लोहपात्रे विनिक्षिप्य शोधयेदतियत्नतः ॥१११॥

शिलाजतु-शोधन

क्षाराम्लगुग्गुलोपेतैः स्वेदनीयन्त्रमध्यगैः ।
स्वेदितं घटिकामानाच्छिलाधातु विशुध्यति ॥११२॥

शिलाजतु-मारण

शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च ।
पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ॥११३॥

शिलाजतु-आयुर्वेदीय

भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तं च त्रिफलाकटुत्रिकघृतैर्वल्लेन तुल्यं भजेत् ।
पाण्डौ यक्ष्मगदे तथाग्निसदने मेहेषु मूलामये गुल्मप्लीहमहोदरे बहुविधे शूले च योन्यामये ॥११४॥

सेवेत यदि षण्मासं रसायनविधानतः ।
वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी ॥११५॥

शिलाजतु-सत्त्वपातन

पिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् ।
क्षिप्त्वा मूषोदरे रुद्ध्वा गाढैर्ध्मातं हि कोकिलैः ।
सत्त्वं मुञ्चेच्छिलाधातुः श्वसनैर्लोहसंनिभम् ॥११६॥

कर्पूरशिलाजतु-गुण

पाण्डुरं सिकताकारं कर्पूराद्यं शिलाजतु ।

कर्पूरशिलाजतु-आयुर्वेदीय गुण

मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ॥११७॥

कर्पूरशिलाजतु-शोधन

एलातोयेन संभिन्नं सिद्धं शुद्धिमुपैति तत् ।

कर्पूरशिलाजतु-मारण, सत्त्वपातन

नैतस्य मारणं सत्त्वपातनं विहितं बुधैः ॥११८॥

सस्यक-मिथकीय उत्पत्ति

पीत्वा हालाहलं वान्तं पीतामृतगरुत्मता ।
विषेणामृतयुक्तेन गिरौ मरकताह्वये ।
तद्वान्तं हि घनीभूतं संजातं सस्यकं खलु ॥११९॥

सस्यक-परीक्षा

मयूरकण्ठसच्छायं भाराढ्यमतिशस्यते ॥१२०॥

द्रव्यं विषयुतं यत्तद्द्रव्याधिकगुणं भवेत् ।
हालाहलं सुधायुक्तं सुधाधिकगुणं तथा ॥१२१॥

मयूरतुत्थ-आयुर्वेदीय गुण

निःशेषदोषविषहृद्गदशूलमूलकुष्ठाम्लपैत्तिकविबन्धहरं परं च ।
रसायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुत्थम् ॥१२२॥

सस्यक-शोधन

सस्यकं शुद्धिमाप्नोति रक्तवर्गेण भावितम् ॥१२३॥

स्नेहवर्गेण संसिक्तं सप्तवारमदूषितम् ।
दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् ।
गोमहिष्याजमूत्रेषु शुध्यते पञ्चखर्परम् ॥१२४॥

मारण

लकुचद्रावगन्धाश्मटङ्कणेन समन्वितम् ।
निरुध्य मूषिकामध्ये म्रियते कौक्कुटैः पुटैः ॥१२५॥

सत्त्वपातन

सस्यकस्य तु चूर्णं तु पादसौभाग्यसंयुतम् ।
करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ॥१२६॥

अन्धमूषास्यमध्यस्थं ध्मापयेत्कोकिलत्रयम् ।
इन्द्रगोपाकृति चैव सत्त्वं भवति शोभनम् ॥१२७॥

सत्त्वपातन

निम्बुद्रवाल्पटङ्काभ्यां मूषामध्ये निरुध्य च ।
ताम्ररूपं परिध्मातं सत्त्वं मुञ्चति सस्यकम् ॥१२८॥

सत्त्वपातन

शुद्धं सस्यं शिलाक्रान्तं पूर्वभेषजसंयुतम् ।
नानाविधानयोगेन सत्त्वं मुञ्चति निश्चितम् ॥१२९॥

सत्त्वमेतत्समादाय खरभूनागसत्त्वभुक् ।
तन्मुद्रिका कृतस्पर्शा शूलघ्नी तत्क्षणाद् भवेत् ॥१३०॥

चराचरं विषं भूतडाकिनीदृग्गतं जयेत् ।
मुद्रिकेयं विधातव्या दृष्टप्रत्ययकारिका ॥१३१॥

रामवत् सोमसेनानीर् मुद्रितेऽपि तथाक्षरम् ।
हिमालयोत्तरे पार्श्वे अश्वकर्णो महाद्रुमः ।
तत्र शूलं समुत्पन्नं तत्रैव विलयं गतम् ॥१३२॥

मन्त्रेणानेन मुद्राम्भो निपीतं सप्तमन्त्रितम् ।
सद्यः शूलहरं प्रोक्तमिति भालुकिभाषितम् ॥१३३॥

अनया मुद्रया तप्तं तैलमग्नौ सुनिश्चितम् ।
लेपितं हन्ति वेगेन शूलं यत्र क्वचिद्भवेत् ।
सद्यः सूतिकरं नार्याः सद्यो नेत्ररुजापहम् ॥१३४॥

चपल

गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु चतुर्विधः ।
हेमाभश्चैव ताराभो विशेषाद्रसबन्धनः ॥१३५॥

शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ ।

चपल-निरुक्ति

वङ्गवद्द्रवते वह्नौ चपलस्तेन कीर्तितः ॥१३६॥

चपल-आयुर्वेदीय गुण

चपलो लेखनः स्निग्धो देहलोहकरो मतः ।
रसराजसहायः स्यात्तिक्तोष्णमधुरो मतः ॥१३७॥

चपल-गुण

चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः ।

चपल-आयुर्वेदीय गुण

त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः ॥१३८॥

चपल-महारस

महारसेषु कैश्चिद्धि चपलः परिकीर्तितः ॥१३९॥

चपल-शोधन

जम्बीरकर्कोटकशृङ्गवेरैर् विभावनाभिश्चपलस्य शुद्धिः ॥१४०॥

चपल-सत्त्वपातन

शैलं तु चूर्णयित्वा तु धान्याम्लोपविषैर् विषैः ।
पिण्डं बद्ध्वा तु विधिवत्पातयेच्चपलं तथा ॥१४१॥

रसक

रसको द्विविधः प्रोक्तो दुर्दुरः कारवेल्लकः ।
सदलो दुर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ॥१४२॥
सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ।

रसक-आयुर्वेदीय गुण

रसकः सर्वमेहघ्नः कफपित्तविनाशनः ।
नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः ॥१४३॥

नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ ।
श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परम् ॥१४४॥

रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ ।
देहलोहमयी सिद्धिर्दासी तस्य न संशयः ॥१४५॥

रसक-शोधन

कटुकालाबुनिर्यास आलोड्य रसकं पचेत् ।
शुद्धं दोषविनिर्मुक्तं पीतवर्णं तु जायते ॥१४६॥

रसक-शोधन

खर्परः परिसंतप्तः सप्तवारं निमज्जितः ।
बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥१४७॥

रसक-शोधन

नृमूत्रे वाश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा ।
प्रताप्य मज्जितं सम्यक्खर्परं परिशुध्यति ॥१४८॥

रसक-शोधन

नरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् ।
शुद्धताम्रं रसं तारं शुद्धस्वर्णप्रभं यथा ॥१४९॥

रसक-सत्त्वपातन

हरिद्रात्रिफलारालासिन्धुधूमैः सटङ्कणैः ।
सारुष्करैश्च पादांशैः साम्लैः संमर्द्य खर्परम् ॥१५०॥

लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च ।
मूषामुखोपरि न्यस्य खर्परं प्रधमेत्ततः ॥१५१॥

खर्परे प्रहृते ज्वाला भवेन्नीला सिता यदि ।
तदा संदंशतो मूषां धृत्वा कृत्वा त्वधोमुखीम् ॥१५२॥

शनैरास्फालयेद्भूमौ यथा नालं न भज्यते ।
वङ्गाभं पतितं सत्त्वं समादाय नियोजयेत् ।
एवं त्रिचतुरैर्वारैः सर्वं सत्त्वं विनिःसरेत् ॥१५३॥

रसक-सत्त्वपातन

साभयाजतुभूनागनिशाधूमजटङ्कणम् ।
मूकमूषागतं ध्मातं शुद्धं सत्त्वं विमुञ्चति ॥१५४॥

रसक-सत्त्वपातन

लाक्षागुडासुरीपथ्याहरिद्रासर्जटङ्कणैः ।
सम्यक्संचूर्ण्य तत्पक्वं गोदुग्धेन घृतेन च ॥१५५॥

वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् ।
ध्मात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले ।
सत्त्वं वङ्गाकृतिं ग्राह्यं रसकस्य मनोहरम् ॥१५६॥

रसक-सत्त्वपातन

यद्वा जलयुतां स्थालीं निखनेत्कोष्ठिकोदरे ।
सच्छिद्रं तन्मुखे मल्लं तन्मुखेऽधोमुखीं क्षिपेत् ॥१५७॥

मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेद्दृढम् ।
पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ॥१५८॥

रसक-सत्त्व-मारण

तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खर्परे ।
मर्दयेल्लोहदण्डेन भस्मीभवति निश्चितम् ॥१५९॥

रसक-सत्त्व-मृत-आयुर्वेदीय

तद्भस्म मृतकान्तेन समेन सह योजयेत् ।
अष्टगुञ्जामितं चूर्णं त्रिफलाक्वाथसंयुतम् ॥१६०॥

कान्तपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ।
निषेवितं निहन्त्याशु मधुमेहमपि ध्रुवम् ॥१६१॥

पित्तं क्षयं च पाण्डुं च श्वयथुं गुल्ममेव च ।
रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् ॥१६२॥

योनिरोगानशेषांश्च विषमांश्च ज्वरानपि ।
रजःशूलं च नारीणां कासं श्वासं च हिध्मिकाम् ॥१६३॥   

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:09.9470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

rejected note

  • अस्वीकृत नोट 
RANDOM WORD

Did you know?

निर्जीव गाड्यांची पूजा करतात, यामागील शास्त्र काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.