TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नसमुच्चय - अध्याय ३

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अध्याय ३
गन्धाश्मगैरिकासीसकाङ्क्षीतालशिलाञ्जनम् ।
कङ्कुष्ठं चेत्युपरसाश्चाष्टौ पारदकर्मणि ॥१॥

पार्वत्युवाच ।
गन्धकस्य तु माहात्म्यं तद्गुह्यं वद मे प्रभो ॥२॥

ईश्वर उवाच ।

मिथकीय उत्पत्ति

श्वेतद्वीपे पुरा देवि सर्वरत्नविभूषिते ।
सर्वकाममये रम्ये तीरे क्षीरपयोनिधेः ॥३॥

विद्याधरादिमुख्याभिरङ्गनाभिश्च योगिनाम् ।
सिद्धाङ्गनाभिः श्रेष्ठाभिस्तथैवाप्सरसां गणैः ॥४॥

देवाङ्गनाभी रम्याभिः क्रीडिताभिर्मनोहरैः ।
गीतैर्नृत्यैर्विचित्रैश्च वाद्यैर्नानाविधैस्तथा ॥५॥

एवं संक्रीडमानायाः प्राभवत् प्रसृतं रजः ।
तद्रजोऽतीव सुश्रोणि सुगन्धि सुमनोहरम् ॥६॥

रजसश्चातिबाहुल्याद्वासस्ते रक्ततां ययौ ।
तत्र त्यक्त्वा तु तद्वस्त्रं सुस्नाता क्षीरसागरे ॥७॥

वृता देवाङ्गनाभिस्त्वं कैलासं पुनरागता ।
ऊर्मिभिस्तद्रजोवस्त्रं नीतं मध्ये पयोनिधेः ॥८॥

एवं ते शोणितं भद्रे प्रविष्टं क्षीरसागरे ।
क्षीराब्धिमथने चैतदमृतेन सहोत्थितम् ॥९॥

निजगन्धेन तान्सर्वान्हर्षयन्सर्वदानवान् ।
ततो देवगणैरुक्तं गन्धकाख्यो भवत्वयम् ॥१०॥

रसस्य बन्धनार्थाय जारणाय भवत्वयम् ।
ये गुणाः पारदे प्रोक्तास्ते चैवात्र भवन्त्विति ॥११॥

इति देवगणैः प्रीतैः पुरा प्रोक्तं सुरेश्वरि ।
तेनायं गन्धको नाम विख्यातः क्षितिमण्डले ॥१२॥

गन्धकभेदाः - १

स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः ।
मध्यमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ॥१३॥

गन्धकभेदाः - २

चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु ।
श्वेतोऽत्र खटिकाप्रोक्तो लेपने लोहमारणे ॥१४॥
तथा चामलसारः स्याद्यो भवेत्पीतवर्णवान् ।
शुकपिच्छः स एव स्याच्छ्रेष्ठो रसरसायने ॥१५॥

रक्तश्च शुकतुण्डाख्यो धातुवादविधौ वरः ।
दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥१६॥

गन्धकगुणाः

गन्धाश्मातिरसायनः सुमधुरः पाके कटूष्णो मतः कण्डूकुष्ठविसर्पदद्रुदलनो दीप्तानलः पाचनः ।
आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो गौरीपुष्पभवस्तथा कृमिहरः सत्यात्मकः सूतजित् ॥१७॥

बलिना सेवितः पूर्वं प्रभूतबलहेतवे ॥१८॥

वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता ।
वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ॥१९॥

गन्धकत्वं च सम्प्राप्ता गन्धोऽभूत्सविषः स्मृतः ।
तस्माद् बलिवसेत्युक्तो गन्धकोऽतिमनोहरः ॥२०॥

गन्धकशोधन

पयःस्विन्नो घटीमात्रं वारिधौतो हि गन्धकः ।
गव्याज्यविद्रुतो वस्त्राद्गालितः शुद्धिमृच्छति ॥२१॥

एवं संशोधितः सोऽयं पाषाणान् अम्बरे त्यजेत् ।
घृते विषं तुषाकारं स्वयं पिण्डत्वमेव च ॥२२॥

इति शुद्धो हि गन्धाश्मा नापथ्यैर्विकृतिं व्रजेत् ।
अपथ्यादन्यथा हन्यात्पीतं हालाहलं यथा ॥२३॥

शोधन

गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति ।
तद्रसैः सप्तधा भिन्नो गन्धकः परिशुध्यति ॥२४॥

गन्धकशोधन - ३

स्थाल्यां दुग्धं विनिक्षिप्य मुखे वस्त्रं निबध्य च ।
गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृति ॥२५॥

छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ।
ज्वालयेत्खर्परस्योर्ध्वं वनछाणैस् तथोपलैः ॥२६॥

दुग्धे निपतितो गन्धो गलितः परिशुध्यति ।
शतवारं कृतं चैव निर्गन्धो जायते ध्रुवम् ॥२७॥

शुद्धगन्धकप्रयोग

इत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः ।
गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः ॥२८॥

गन्धतैल

कलांशव्योषसंयुक्तं गन्धकं श्लक्ष्णचूर्णितम् ।
अरत्निमात्रे वस्त्रे तद् विप्रकीर्य विवेष्ट्य तत् ॥२९॥

सूत्रेण वेष्टयित्वाथ यामं तैले निमज्जयेत् ।
धृत्वा संदंशतो वर्तिमध्यं प्रज्वालयेच्च तम् ।
द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने ॥३०॥

गन्धतैल

तां द्रुतिं प्रक्षिपेत् पत्त्रे नागवल्ल्यास् त्रिबिन्दुकाम् ।
वल्लेन प्रमितं स्वच्छं सूतेन्द्रं च विमर्दयेत् ॥३१॥

अङ्गुल्याथ सपत्त्रां तां द्रुतिं सूतं च भक्षयेत् ।
करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् ॥३२॥

कासं श्वासं च शूलार्तिग्रहणीम् अतिदुर्धराम् ।
आमं विनाशयत्याशु लघुत्वं प्रकरोति च ॥३३॥

गन्धतैल

घृताक्ते लोहपात्रे तु विद्रुतं शुद्धगन्धकम् ।
घृताक्तदर्विकाक्षिप्तं द्विनिष्कप्रमितं भजेत् ।
हन्ति क्षयमुखान् रोगान् कुष्ठरोगं विशेषतः ॥३४॥

क्षाराम्लतैलसौवीरविदाहि द्विदलं तथा ।
शुद्धगन्धकसेवायां त्यजेद्योगयुतेन हि ॥३५॥

गन्धकस्तुल्यमरिचः षड्गुणत्रिफलान्वितः ।
घृष्टः शम्याकमूलेन पीतश्चाखिलकुष्ठहा ॥३६॥

तन्मूलं सलिले पिष्टं लेपयेत्प्रत्यहम् तनौ ।
दृष्टप्रत्यययोगोऽयं सर्वत्र प्रतिवीर्यवान् ।
श्रीमता सोमदेवेन सम्यगत्र प्रकीर्तितः ॥३७॥

द्विनिष्कप्रमितं गन्धं पिष्ट्वा तैलेन संयुतम् ।
अथापामार्गतोयेन सतैलमरिचेन हि ॥३८॥

विलिप्य सकलं देहं तिष्ठेद्घर्मे ततः परम् ।
तक्रभक्तं च भुञ्जीत तृतीये प्रहरे खलु ॥३९॥

भजेद्रात्रौ तथा वह्निं समुत्थाय तथा प्रगे ।
महिषीछगणम् लिप्त्वा स्नायाच्छीतेन वारिणा ॥४०॥

ततोऽभ्यज्य घृतैर्देहं स्नायादिष्टोष्णवारिणा ।
अमुना क्रमयोगेन विनश्यत्यतिवेगतः ।
दुर्जया बहुकालीना पामा कण्डुः सुनिश्चितम् ॥४१॥

गन्धकस्य प्रयोगाणां शतं तन्न प्रकीर्तितम् ।
ग्रन्थविस्तारभीतेन सोमदेवेन भूभुजा ॥४२॥

गन्धतैल

अथवार्कस्नुहीक्षीरैर् वस्त्रं लेप्यं तु सप्तधा ।
गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेद्घनम् ॥४३॥

तद्वर्तिं ज्वलितां दंशे धृतां कुर्याद् अधोमुखीम् ।
तैलं पतेदधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥४४॥

शुद्ध-आयुर्वेदीय गुण

शुद्धगन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान् ।
अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥४५॥

गैरिक

पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् ॥४६॥

पाषाणगैरिक-गुण

पाषाणगैरिकं प्रोक्तं कठिनम् ताम्रवर्णकम् ।

स्वर्णगैरिक-गुण

अत्यन्तशोणितं स्निग्धं मसृणं स्वर्णगैरिकम् ॥४७॥

स्वर्णगैरिक-आयुर्वेदीय गुण

स्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ।
हिध्मावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ।

पाषाणगैरिक-आयुर्वेदीय गुण

पाषाणगैरिकं चान्यत्पूर्वस्मादल्पकं गुणैः ॥४८॥

गैरिक-शोधन

गैरिकं तु गवां दुग्धैर्भावितं शुद्धिम् ऋच्छति ॥४९॥

गैरिक-सत्त्व

गैरिकं सत्त्वरूपं हि नन्दिना परिकीर्तितम् ॥५०॥

कैर् अप्युक्तं पतेत्सत्त्वं क्षाराम्लक्लिन्नगैरिकात् ।
उपतिष्ठति सूतेन्द्रमेकत्वं गुणवत्तरम् ॥५१॥

कासीस

कासीसं वालुकाद्येकं पुष्पपूर्वम् अथापरम् ॥५२॥

कासीस-आयुर्वेदीय गुण

क्षाराम्लागरुधूमाभं सोष्णवीर्यं विषापहम् ।
वालुकापुष्पकासीसं श्वित्रघ्नं केशरञ्जनम् ॥५३॥

पुष्पकासीस-आयुर्वेदीय गुण

पुष्पादिकासीसमतिप्रशस्तं सोष्णं कषायाम्लम् अतीव नेत्र्यम् ।
विषानिलश्लेष्मगदव्रणघ्नं श्वित्रक्षयघ्नं कचरञ्जनं च ॥५४॥

कासीस-शोधन

सकृद्भृङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् ॥५५॥

कासीस-सत्त्वपातन

तुवरीसत्त्ववत्सत्त्वमेतस्यापि समाहरेत् ॥५६॥

कासीस-शोधन

कासीसं शुद्धिमाप्नोति पित्तैश्च रजसा स्त्रियाः ॥५७॥

बलिना हतकासीसं क्रान्तं कासीसमारितम् ।
उभयं समभागं हि त्रिफलावेल्लसंयुतम् ॥५८॥

विषमांशघृतक्षौद्रप्लुतं शाणमितं प्रगे ।
सेवितं हन्ति वेगेन श्वित्रं पाण्डुक्षयामयम् ॥५९॥

गुल्मप्लीहगदं शूलं मूलरोगं विशेषतः ।
रसायनविधानेन सेवितं वत्सरावधि ॥६०॥

आमसंशोषणं श्रेष्ठं मन्दाग्निपरिदीपनम् ।
पलितं वलिभिः सार्धं विनाशयति निश्चितम् ॥६१॥

तुवरी

सौराष्ट्राश्मनि सम्भूता सा तुवरी मता ।
वस्त्रेषु लिप्यते यासौ मञ्जिष्ठारागबन्धिनी ॥६२॥

तुवरी

फटकी फुल्लिका चेति द्वितीया परिकीर्तिता ॥६३॥

फटकी-आयुर्वेदीय गुण

ईषत्पीता गुरुः स्निग्धा पीतिका विषनाशनी ।
व्रणकुष्ठहरा सर्वकुष्ठघ्नी च विशेषतः ॥६४॥

फुल्लिका-आयुर्वेदीय गुण

निर्भारा शुभ्रवर्णा च स्निग्धा साम्लापरा मता ।
सा फुल्लतुवरी प्रोक्ता लेपात्ताम्रं चरेदयः ॥६५॥

काङ्क्षी कषाया कटुकाम्लकण्ठ्या केश्या व्रणघ्नी विषनाशनी च ।
श्वित्रापहा नेत्रहिता त्रिदोषशान्तिप्रदा पारदजारणी च ॥६६॥

तुवरी-शोधन

तुवरी काञ्जिके क्षिप्त्वा त्रिदिनाच्छुद्धिमृच्छति ॥६७॥

तुवरी-सत्त्वपातन

क्षाराम्लैर् मर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम् ॥६८॥

तुवरी-सत्त्वपातन

गोपित्तेन शतं वारान् सौराष्ट्रां भावयेत्ततः ।
धमित्वा पातयेत्सत्त्वं क्रामणं चातिगुह्यकम् ॥६९॥

हरिताल

हरितालं द्विधा प्रोक्तं पत्त्राद्यं पिण्डसंज्ञकम् ॥७०॥

पत्त्रतालक

स्वर्णवर्णं गुरु स्निग्धं तनुपत्त्रं च भासुरम् ।
तत् पत्त्रतालकं प्रोक्तं बहुपत्त्रं रसायनम् ॥७१॥

पिण्डतालक

निष्पत्त्रं पिण्डसदृशम् स्वल्पसत्त्वं तथागुरु ।
स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम् ॥७२॥

हरिताल-आयुर्वेदीय गुण

श्लेष्मरक्तविषवातभूतनुत्केवलं च खलु पुष्पहृत्स्त्रियः ।
स्निग्धमुष्णकटुकं च दीपनं कुष्ठहारि हरितालमुच्यते ॥७३॥

हरिताल-शोधन

स्निग्धं कूष्माण्डतोये वा तिलक्षारजले अपि वा ।
तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति ॥७४॥

हरिताल-अशुद्ध-आयुर्वेदीय गुण

अशुद्धं तालमायुघ्नं कफमारुतमेहकृत् ।
तापस्फोटाङ्गसंकोचं कुरुते तेन शोधयेत् ॥७५॥

हरिताल-शोधन

तालकं कणशः कृत्वा दशांशेन च टङ्कणम् ।
जम्बीरोत्थद्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्ततः ॥७६॥

वस्त्रे चतुर्गुणे बद्ध्वा दोलायन्त्रे दिनं पचेत् ।
सचूर्णेनारनालेन दिनं कूष्माण्डजे रसे ।
स्वेद्यं वा शाल्मलीतोयैस्तालकं शुद्धिमाप्नुयात् ॥७७॥

हरिताल-शोधन

मधुतुल्ये घनीभूते कषाये ब्रह्ममूलजे ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ॥७८॥

उपलैर्दशभिर्देयं पुटं रुद्ध्वाथ पेषयेत् ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥७९॥

हरिताल-सत्त्वपातन

कुलित्थक्वाथसौभाग्यमहिष्याज्यमधुप्लुतम् ।
स्थाल्यां क्षिप्त्वा विदध्याच्च त्व् अम्लेन छिद्रयोगिना ॥८०॥

सम्यङ्निरुध्य शिखिनं ज्वालयेत्क्रमवर्धितम् ।
एकप्रहरमात्रं हि रन्ध्रमाच्छाद्य गोमयैः ॥८१॥

यामान्ते छिद्रमुद्घाट्य दृष्टे धूमे च पाण्डुरे ।
शीतां स्थालीं समुत्तार्य सत्त्वमुत्कृष्य चाहरेत् ॥८२॥

सर्वपाषाणसत्त्वानां प्रकाराः सन्ति कोटिशः ।
ग्रन्थविस्तारभीत्यातो लिखिता न मया खलु ॥८३॥

हरिताल-सत्त्वपातन

पलालकं रवेर्दुग्धैर्दिनमेकं विमर्दयेत् ।
क्षिप्त्वा षोडशिकातैले मिश्रयित्वा ततः पचेत् ॥८४॥

अनावृतप्रदेशे च सप्तयामावधि ध्रुवम् ।
स्वाङ्गशीतमधस्थं च सत्त्वं श्वेतं समाहरेत् ॥८५॥

हरिताल-सत्त्वपातन

छागलस्याथ बालस्य बलिना च समन्वितम् ।
तालकं दिवसद्वंद्वं मर्दयित्वातियत्नतः ॥८६॥

युक्तं द्रावणवर्गेण काचकुप्यां विनिक्षिपेत् ।
त्रिधा तां च मृदा लिप्त्वा परिशोष्य खरातपे ॥८७॥

ततः खर्परकच्छिद्रे तामर्धां चैव कूपिकाम् ।
प्रवेश्य ज्वालयेदग्निं द्वादशप्रहरावधि ।
कूपिकण्ठस्थितं शीतं शुद्धं सत्त्वं समाहरेत् ॥८८॥

हरिताल-सत्त्वपातन

पलार्धप्रमितं तालं बद्ध्वा वस्त्रे सिते दृढे ।
बलिनालिप्य यत्नेन त्रिवारं परिशोष्य च ॥८९॥

द्राविते त्रिफले ताम्रे क्षिपेत्तालकपोटलीम् ।
भस्मना छादयेच्छीघ्रं ताम्रेणावेष्टितं सितम् ।
मृदुलं सत्त्वमादद्यात्प्रोक्तं रसरसायने ॥९०॥

मनःशिला

मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका ।
खण्डाख्या चेति तद्रूपं विविच्य परिकथ्यते ॥९१॥

मनःशिला-श्यामाङ्गी

श्यामा रक्ता सगौरा च भाराढ्या श्यामिका मता ।

मनःशिला-कणवीरक

तेजस्विनी च निर्गौरा ताम्राभा कणवीरका ॥९२॥

मनःशिला-खण्ड

चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका ।
उत्तरोक्तगुणैः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता ॥९३॥

मनःशिलागुणाः

मनःशिला सर्वरसायनाग्र्या तिक्ता कटूष्णा कफवातहन्त्री ।
सत्त्वात्मिका भूतविषाग्निमान्द्यकण्डूतिकासक्षयहारिणी च ॥९४॥

मनःशिला-अशुद्ध-आयुर्वेदीय गुण

अश्मरीं मूत्रकृच्छ्रं च अशुद्धा कुरुते शिला ।
मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा ॥९५॥

मनःशिलाशोधनम्

अगस्त्यपत्त्रतोयेन भाविता सप्तवारकम् ।
शृङ्गवेररसैर् वापि विशुध्यति मनःशिला ॥९६॥

मनःशिला-शोधन

जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिलाम् ।
दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः ।
क्षालयेदारनालेन सर्वरोगेषु योजयेत् ॥९७॥

मनःशिलासत्त्वपातन - १

अष्टमांशेन किट्टेन गुडगुग्गुलुसर्पिषा ।
कोष्ठ्यां रुद्ध्वा दृढं ध्माता सत्त्वं मुञ्चेन्मनःशिला ॥९८॥

मनःशिलासत्त्वपातन - २

भूनागधौतसौभाग्यमदनैश्च विमर्दितैः ।
कारवल्लीदलाम्भोभिर्मूषां कृत्वात्र निक्षिपेत् ॥९९॥

शिलां क्षाराम्लनिष्पिष्टां प्रधमेत्तदनन्तरम् ।
कोकिलाद्वयमात्रं हि ध्मानात्सत्त्वं त्यजत्यसौ ॥१००॥

अञ्जन

सौवीरमञ्जनं प्रोक्तं रसाञ्जनमतः परम् ।
स्रोतोञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च ।
नीलाञ्जनं च तेषां हि स्वरूपमिह वर्ण्यते ॥१०१॥

सौवीर

सौवीरमञ्जनं धूम्रं रक्तपित्तहरं हिमम् ।
विषहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् ॥१०२॥

रसाञ्जन

रसाञ्जनं च पीताभं विषवक्त्रगदापहम् ।
श्वासहिध्मापहं वर्ण्यं वातपित्तास्रनाशनम् ॥१०३॥

स्रोतोञ्जन

स्रोतोञ्जनं हिमं स्निग्धं कषायं स्वादु लेखनम् ।
नेत्र्यं हिध्माविषछर्दिकफपित्तास्ररोगनुत् ॥१०४॥

पुष्पाञ्जन

पुष्पाञ्जनं सितं स्निग्धं हिमं सर्वाक्षिरोगनुत् ।
अतिदुर्धरहिध्माघ्नं विषज्वरगदापहम् ॥१०५॥

नीलाञ्जन

नीलाञ्जनं गुरु स्निग्धं नेत्र्यं दोषत्रयापहम् ।
रसायनं सुवर्णघ्नं लोहमार्दवकारकम् ॥१०६॥

अञ्जन-शोधन

अञ्जनानि विशुध्यन्ति भृङ्गराजनिजद्रवैः ॥१०७॥

अञ्जन-सत्त्वपातन

मनोह्वासत्त्ववत् सत्त्वम् अञ्जनानां समाहरेत् ॥१०८॥

स्रोतोञ्जन-गुण

वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।
घृष्टं तु गैरिकच्छायं स्रोतोजं लक्षयेद्बुधः ॥१०९॥

स्रोतोञ्जन-रसबन्धन

गोशकृद्रसमूत्रेषु घृतक्षौद्रवसासु च ।
भावितं बहुशस्तच्च शीघ्रं बध्नाति सूतकम् ॥११०॥

रसाञ्जन-शोधन

सूर्यावर्तादियोगेन शुद्धिमेति रसाञ्जनम् ॥१११॥

स्रोतोञ्जन-सत्त्वपातन

राजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोञ्जनादपि ॥११२॥

कङ्कुष्ठ

हिमवत्पादशिखरे कङ्कुष्ठमुपजायते ।

कङ्कुष्ठ

तत्रैकं नालिकाख्यं हि तदन्यद्रेणुकं मतम् ॥११३॥

नालिक

पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् ।

रेणुक

श्यामपीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम् ॥११४॥

कङ्कुष्ठ-ओरिगिन् fरोम् दिff. अनिमल्स्

केचिद्वदन्ति कङ्कुष्ठं सद्योजातस्य दन्तिनः ।
वर्चश्च श्यामपीताभं रेचनं परिकथ्यते ॥११५॥

कतिचित् तेजिवाहानां नालं कङ्कुष्ठसंज्ञकम् ।

वदन्ति श्वेतपीताभं तदतीव विरेचनम् ॥११६॥

रसे रसायनं श्रेष्ठं निःसत्त्वं बहुवैकृतम् ॥११७॥

कङ्कुष्ठ-आयुर्वेदीय गुण

कङ्कुष्ठं तिक्तकटुकं वीर्योष्णं चातिरेचनम् ।
व्रणोदावर्तशूलार्तिगुल्मप्लीहगुदार्तिनुत् ॥११८॥

महारस, उपरस-शोधन, सत्त्वपातन

सूर्यावर्तककदली वन्ध्या कोशातकी च सुरदाली ।
शिग्रुश्च वज्रकन्दो निरङ्कणा काकमाची च ॥११९॥

आसामेकरसेन तु लवणक्षाराम्लभावितं बहुशः ।
शुध्यन्ति रसोपरसा ध्माता मुञ्चन्ति सत्त्वानि ॥१२०॥

कङ्कुष्ठ-शोधन

कङ्कुष्ठं शुद्धिमायाति त्रिधा शुण्ठ्यम्बुभावितम् ॥१२१॥

कङ्कुष्ठ-सत्त्वपातन

सत्त्वाकर्षोऽस्य न प्रोक्तो यस्मात्सत्त्वमयं हि तत् ॥१२२॥

भजेदेनं विरेकार्थं ग्राहिभिर्यवमात्रया ।
नाशयेदामपूर्तिं च विरेच्य क्षणमात्रतः ॥१२३॥

भक्षितः सह ताम्बूलैर्विरिच्यासून्विनाशयेत् ॥१२४॥

बर्बुरीमूलिकाक्वाथजीरसौभाग्यकं समम् ।
कङ्कुष्ठं विषनाशाय भूयो भूयः पिबेन्नरः ॥१२५॥

साधारणरसाः

कम्पिल्लश्चपलो गौरीपाषाणो नवसारकः ।
कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुलौ ॥१२६॥
मोदारशृङ्गम् इत्यष्टौ साधारणरसाः स्मृताः ।
रससिद्धकराः प्रोक्ता नागार्जुनपुरःसरैः ॥१२७॥

कम्पिल्लकः

इष्टिकाचूर्णसंकाशश्चन्द्रिकाढ्योऽतिरेचनः ।
सौराष्ट्रदेशे चोत्पन्नः स हि कम्पिल्लकः स्मृतः ॥१२८॥

कम्पिल्ल-आयुर्वेदीय गुण

पित्तव्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्तिकृमिगुल्मवैरी ।
मूलामशोफज्वरशूलहारी कम्पिल्लको रेच्यगदापहारी ॥१२९॥

गौरीपाषाणकः

गौरीपाषाणकः पीतो विकटो हतचूर्णकः ।
स्फटिकाभश्च शङ्खाभो हरिद्राभस् त्रयः स्मृताः ॥१३०॥

गौरीपाषाण-शोधन

पूर्वं पूर्वं गुणैः श्रेष्ठः कारवल्लीफले क्षिपेत् ।
स्वेदयेद्धण्डिकामध्ये शुद्धो भवति मूषकः ॥१३१॥

गौरीपाषाण-सत्त्वपातन

तालवद्ग्राहयेत्सत्त्वं शुद्धं शुभ्रं प्रयोजयेत् ॥१३२॥

गौरीपाषाण-आयुर्वेदीय गुण

रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥१३३॥

नवसार

करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः ।
क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः ॥१३४॥

इष्टिकादहने जातं पाण्डुरं लवणं लघु ।
तदुक्तं नवसाराख्यं चूलिकालवणं च तत् ॥१३५॥

नवसार-गुण

रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ।

नवसार-आयुर्वेदीय गुण

गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ।
विडाख्यं च त्रिदोषघ्नं चूलिकालवणम् मतम् ॥१३६॥

वराटिका

पीताभा ग्रन्थिका पृष्ठे दीर्घवृत्ता वराटिका ।
रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका ॥१३७॥

वराटिक

सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ।
पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ॥१३८॥

वराटिका-आयुर्वेदीय गुण

परिणामादिशूलघ्नी ग्रहणीक्षयनाशिनी ।
कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा ।

वराटिका-गुण

रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥१३९॥

वराटिका-आयुर्वेदीय गुण

तदन्ये तु वराटाः स्युर् गुरवः श्लेष्मपित्तलाः ॥१४०॥

वराटिका-शोधन

वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ॥१४१॥

अग्निजार

समुद्रेणाग्निनक्रस्य जरायुर् बहिरुज्झितः ।
संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥१४२॥

अग्निजार-आयुर्वेदीय गुण

अग्निजारस्त्रिदोषघ्नो धनुर्वातादिवातनुत् ।
वर्धनो रसवीर्यस्य दीपनो जारणस्तथा ॥१४३॥

अग्निजार-शोधन

तद् अब्धिक्षारसंशुद्धं तस्माच्छुद्धिर्न हीष्यते ॥१४४॥

गिरिसिन्दूर

महागिरिषु चाल्पीयःपाषाणान्तःस्थितो रसः ।
शुष्कशोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञया ॥१४५॥

गिरिसिन्दूर-आयुर्वेदीय गुण

त्रिदोषशमनम् भेदि रसबन्धनमग्रिमम् ।
देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥१४६॥

हिङ्गुल

हिङ्गुलः शुकतुण्डाख्यो हंसपाकस्तथापरः ॥१४७॥

हिङ्गुल-शुकतुण्ड

प्रथमोऽल्पगुणस्तत्र चर्मारः स निगद्यते ॥१४८॥

हिङ्गुल-हंसपाक

श्वेतरेखः प्रवालाभो हंसपाकः स ईरितः ॥१४९॥

हिङ्गुल-आयुर्वेदीय गुण

हिङ्गुलः सर्वदोषघ्नो दीपनोऽतिरसायनः ।
सर्वरोगहरो वृष्यो जारणायातिशस्यते ॥१५०॥

हिङ्गुलाकृष्ट

एतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः ॥१५१॥

हिङ्गुलाकृष्ट-शोधन

सप्तकृत्वार्द्रकद्रावैर्लकुचस्याम्बुनापि वा ।
शोषितो भावयित्वा च निर्दोषो जायते खलु ॥१५२॥

हिङ्गुल

किमत्र चित्रं दरदः सुभावितः क्षीरेण मेष्या बहुशोऽम्लवर्गैः ।
एवं सुवर्णं बहुघर्मतापितं करोति साक्षाद्वरकुङ्कुमप्रभम् ॥१५३॥

हिङ्गुल-सत्त्वपातन

दरदः पातनायन्त्रे पातितश्च जलाश्रये ।
तत्सत्त्वं सूतसंकाशं पातयेन्नात्र संशयः ॥१५४॥

मृद्दारशृङ्गक

सदलं पीतवर्णं च भवेद्गुर्जरमण्डले ।
अर्बुदस्य गिरेः पार्श्वे जातं मृद्दारशृङ्गकम् ॥१५५॥

मृद्दारशृङ्ग-आयुर्वेदीय गुण

सीससत्त्वं गुरु श्लेष्मशमनं पुंगदापहम् ।
रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥१५६॥

साधारणरस-शोधन

साधारणरसाः सर्वे मातुलुङ्गार्द्रकाम्बुना ।
त्रिरात्रं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥१५७॥

यानि कानि च सत्त्वानि तानि शुध्यन्त्यशेषतः ।
ध्मातानि शुद्धिवर्गेण मिलन्ति च परस्परम् ॥१५८॥

इति करवालभैरवः ।

राजावर्त

राजावर्तोऽल्परक्तोरुनीलिकामिश्रितप्रभः ।
गुरुत्वमसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ॥१५९॥

राजावर्त-आयुर्वेदीय गुण

प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ।
दीपनः पाचनो वृष्यो राजावर्तो रसायनः ॥१६०॥

राजावर्त-शोधन

निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु ।
द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः ॥१६१॥

राजावर्त-शोधन

शिरीषपुष्पार्द्ररसै राजावर्तं विशोधयेत् ॥१६२॥

राजावर्त-मारण

लुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः ।
पुटनात्सप्तवारेण राजावर्तो मृतो भवेत् ॥१६३॥

राजावर्त-सत्त्वपातन

राजावर्तस्य चूर्णं तु कुनटीघृतमिश्रितम् ।
विपचेदायसे पात्रे महिषीक्षीरसंयुतम् ॥१६४॥

सौभाग्यपञ्चगव्येन पिण्डीबद्धं तु जारयेत् ।
ध्मापितं खदिराङ्गारैः सत्त्वं मुञ्चति शोभनम् ॥१६५॥

गैरिक-शोधन

अनेन क्रमयोगेन गैरिकं विमलं भवेत् ।

गैरिक-सत्त्वपातन

क्रमात् पीतं च रक्तं च सत्त्वं पतति शोभनम् ॥१६६॥     

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:10.1200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

colinearity

  • स्त्री. एकरेषीयता 
  • स्त्री. समरेखिता 
RANDOM WORD

Did you know?

How I do save the text on my computer?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site