TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नसमुच्चय - अध्याय १२

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अध्याय १२
ज्वरस्य रक्तपित्तस्य कासस्य श्वासहिध्मयोः ।
वैस्वर्यस्य क्षयस्यापि तथारोचप्रसेकयोः ॥१॥

छर्दिहृद्रोगयोश् चैव तृष्णामद्योद्भवार्शसाम् ।
उदावर्तातिसाराणां ग्रहण्यर्तिप्रवाहिणोः ॥२॥

विसूच्या वह्निमान्द्यस्य मूत्रकृच्छ्राश्मरुजाम् ।
मेहस्य सोमरोगस्य पिटिकानां च विद्रधेः ॥३॥

वृद्धिगुल्मादिरोगाणां शूलानामुदरस्य च ।
पाण्डुशोफविसर्पाणां कुष्ठश्वित्रनभस्वताम् ॥४॥

वातास्रस्यावृतानां च वन्ध्यानां गर्भिणीरुजाम् ।
सूतिकाबालरोगाणाम् उन्मादेऽपस्मृताव् अपि ॥५॥

नेत्ररोगे कर्णरोगे नासारोगास्यरोगयोः ।
शिरःसंजातरोगेषु व्रणे भङ्गे भगंदरे ॥६॥

ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे विषेषु च ।
जरायास्त्वनपत्यानां बीजपोषणहेतवे ॥७॥

परिपाट्यानया सर्वं रोगाणां हि चिकित्सनम् ।
रसलोहविषैर् अत्र योगैर्वक्ष्ये यथागमम् ॥८॥

रोमाञ्चकम्पौ वदने मधुत्वमुज्जृम्भणं मस्तकतोददाहौ ।
वातज्वरस्योक्तम् इदं हि लक्ष्म भुक्तोत्तरं स्याद्यदि शश्वदेव ॥९॥

विरेकशोषास्यकटुत्वतीव्रतापप्रलापभ्रममूर्छनानि ।
एतानि पित्तज्वरलक्षणानि वमिः सतृष्णाङ्गविदाहिता च ॥१०॥

कासश्वासौ मुखे जाड्यं माधुर्यं बहुनिद्रता ।
प्रस्वेदः स्वल्पदाहश्च श्लेष्मजज्वरलक्षणम् ॥११॥

मिश्रितं लक्षणं यत्तु द्वयोस् त्रिषु भवेच्च तत् ॥१२॥

विमर्दिताभ्यां रसगन्धकाभ्यां नीरेण कुर्यादिह गोलकं तम् ।
भाण्डे नवीने विनिवेश्य पश्चात्तद्गोलकस्योपरि ताम्रपात्रम् ॥१३॥

सार्धं मुहूर्तं विनिरुध्य धीमान् उद्दीपयेद् दीप्तकृशानुनास्य ।
अधस्ततः सिध्यति पर्पटीयं नवज्वरारण्यकृशानुमेघः ॥१४॥

विलिप्य पूर्वं रसनां च तालुदेशं च सिन्धूद्भवजीरकार्द्रैः ।
वल्लोन्मितां चार्द्रकतोयमिश्राम् एनां नियोज्य स्थगयेत् पटेन ॥१५॥

घर्मोद्गमो यावदतः परं च तक्रौदनं पथ्यमिह प्रयोज्यम् ।
कुर्याद्दिनानां त्रितयं यदीत्थं ज्वरस्य शङ्कापि तदा भवेत्किम् ॥१६॥

सूतार्कगन्धचपलाजयपालतिक्तापथ्यात्रिवृच्च विषतिन्दुकजान् समांशान् ।
संभाव्य वज्रिपयसा मधुना त्रिवल्लस् त्रैलोक्यडम्बररसोऽभिनवज्वरघ्नः ॥१७॥

पादांशकं साररविः समांशगन्धो विपक्वः स्वकषायपिष्टः ।
रसः क्रमान्माषमितोऽनिलादिज्वरेषु नाम्ना किल मेघनादः ॥१८॥

दरदजलदयुक्तं शुद्धसूतं च गन्धं प्रहरमथ सुपिष्टं वल्लयुग्मं च दद्यात् ।
ज्वरगजहरिसंज्ञं शृङ्गवेरोदकेन प्रथमजनितदाही क्षीरभक्तेन भोज्यः ॥१९॥

संतप्तसीसभागं च पारदं गन्धकं कणाम् ।
समभागं पृथक् तत्र मेलयेच्च यथाविधि ॥२०॥

जम्बीरस्य रसे सर्वं मर्दयेच्च दिनत्रयम् ।
मेघनादकुमार्योश्च रसे चापि दिनत्रयम् ॥२१॥

दिनद्वयमजामूत्रे गवां मूत्रे दिनत्रयम् ।
भावयेच्च यथायोग्यं तस्मिन्नेतानि दापयेत् ॥२२॥

सैन्धवं चित्रकं भागं सौवर्चललवणं तथा ।
तेन सम्मेलनं कृत्वा भावयेच्च पुनः पुनः ॥२३॥

अनेन विधिना सम्यक् सिद्धो भवति तद्रसः ।
शर्कराघृतसंयुक्तं दद्याद्वल्लत्रयं रसम् ॥२४॥

गोधूमस्यौदनं पथ्यं माषसूपं च वास्तुकम् ।
धात्रीफलसमायुक्तं सर्वज्वरविनाशनम् ।
दीपिकारस इत्येष तन्त्रज्ञैः परिकीर्तितः ॥२५॥

पारदं रसकं तालं तुत्थं गन्धकटङ्कणम् ।
सर्वमेतत्समं शुद्धं कारवल्ल्या द्रवैर्दिनम् ॥२६॥

मर्दयेत्तेन कल्केन ताम्रपात्रोदरं लिम्पेत् ।
अङ्गुलार्धार्धमानेन तं पचेत्सिकताह्वये ॥२७॥

यन्त्रे यावत्स्फुटन्त्येवं व्रीहयस्तस्य पृष्ठतः ।
ततः सुशीतलं ग्राह्यं ताम्रपात्रोदराद् भिषक् ॥२८॥

शीतभञ्जी रसो नाम चूर्णयेन्मरिचैः समम् ।
माषैकं पर्णखण्डेन भक्षयेन्नाशयेज्ज्वरम् ।
त्रिदिनैर् विषमं तीव्रमेकद्वित्रिचतुर्थकम् ॥२९॥

सूततालशिलास्तुल्या मर्दयेत्कर्कटीरसे ।
ताम्रपात्रे विनिक्षिप्य तत्कल्कं कज्जलीकृतम् ॥३०॥

विपचेद्वालुकायन्त्रे यथोक्तविधिना ततः ।
दद्यान्मरिचचूर्णेन माषमात्रं भिषग्वरः ॥३१॥

प्रपिबेदुष्णतोयस्य चुलुकं शीतकज्वरे ।
शीतभञ्जी रसः सोऽयं शीतज्वरनिवारणः ॥३२॥

कूष्माण्डचूर्णतिलजैः प्रविशुद्धतालं गाढं विमर्द्य सुषवीसलिलेन तुल्यम् ।
सूतेन हिङ्गुलभुवा सिकताख्ययन्त्रे गोलं विधाय परिवृत्तकपालमध्ये ॥३३॥

पत्त्रेण तं दिनपतेश्च पिधाय रुद्ध्वा संधिं तयोर्गुडसुधाखटिकाशिवाभिः ।
वह्नौ पचेन्मृदुनि पात्रशिरःस्थशालीवैवर्ण्यमात्रम् अवधिं प्रविधाय धीमान् ॥३४॥

वल्लं ततः सुरसमिश्रममुष्य दद्यात् सर्पिः सिताकणपयोमधु चानुपेयम् ।
जेतुं ज्वरान् प्रविषमान् इह वान्तिशान्त्यै मौलौ सुशीतलजलस्य ददीत धाराम् ॥३५॥

अथामयान्तं रसराजमौलिभूषामणिं तं मृतजीवनाख्यम् ।
सुधारसेनेव रसेन येन संजीवनं स्यात् सहसातुराणाम् ॥३६॥

रसहिङ्गुलजेपालैर् वृद्ध्या दन्त्यम्बुमर्दितैः ।
दिनार्धेन ज्वरं हन्याद्गुञ्जैकं सितया सह ॥३७॥

शुद्धं सूतं विषं गन्धं धूर्तबीजं त्रिभिः समम् ।
चतुर्भिश्च समं व्योषं चूर्णीकृत्य निधापयेत् ॥३८॥

दन्तभाण्डेऽथ वा शार्ङ्गे काष्ठे नैव कदाचन ।
वातश्लेष्मज्वरे देयं द्वंद्वजे वा त्रिदोषजे ॥३९॥

रसेन शृङ्गवेरस्य जम्बीरस्याथवा पुनः ।
गुञ्जाद्वयं च जीर्णेऽस्मिन्दधिभक्तं प्रयोजयेत् ॥४०॥

एकद्वित्रिदिनैर्हन्याज् ज्वरान् दोषक्रमेण तु ।
महाज्वराङ्कुशो नाम रसोऽयं शम्भुनोदितः ॥४१॥

तालं ताम्ररजो रसश्च गगनं गन्धश्च नेपालकं दीनारप्रमितं तदर्धमुदितं टङ्कं शिलामाक्षिकम् ।
दीनारद्वितयं विषस्य शिखिनः पिष्ट्वा रसैः पाचितो यश्चिन्तामणिवज्ज्वरौघविजयी नाम्ना तु मृत्युंजयः ॥४२॥

तालं ताम्रम् अयोरजश्च चपला तुत्थाभ्रकं कान्तकं नागं स्याच्च समांशकं सुमृदितं मूलं च पौनर्नवम् ।
भृङ्गीकासहरीपुनर्नवामहामन्दारपत्त्रोद्भवैः कल्कं वालुकयन्त्रपाचितम् इदं सर्वज्वरस्यान्तकृत् ॥४३॥

तुत्थेन तुल्यः शिवजश्च गन्धो जम्बीरनीरेण विमर्दनीयः ।
दिनत्रयं मेलय तेन तुल्यं व्योषं ततः सिध्यति चन्द्रसूर्यः ॥४४॥

वल्लो विजेतुं विषमावलम्बि दलेन देयो भुजगाख्यवल्ल्याः ।
दुग्धं हितं स्यादिह शृङ्गवेररसेन शैत्येषु निषेवणीयः ॥४५॥

तक्रं सगर्भाज्वरशूलयोस्तु द्राक्षाम्बुना पथ्यमनन्तरोक्तम् ।
रोधं वरायाः सलिलेन शूलं जम्बीरनीरेण वराजलेन ॥४६॥

अपस्मृताव् अत्र नियोजनीयमभ्यञ्जनं बिम्बपयोभवाभ्याम् ।
घृतौदनं स्यादिह भोजनाय जम्बीरनीरेण निहन्ति गुल्मम् ॥४७॥

हिङ्ग्वम्लिकानिम्बुरसेन देयं प्लीहोदरे स्यादिह तक्रभक्तः ।
स्तम्भार्थमस्मिन्ससितं पयः स्याद् गुडो नियोज्यो वमनप्रशान्त्यै ॥४८॥

अशीतिर् यस्य वर्षाणि वसुवर्षाणि यस्य वा ।
विषं तस्य न दातव्यं दत्तं चेद् दोषकारकम् ॥४९॥

मेघपारदगन्धाश्मविषव्योषपटूनि च ।
जीरकद्वयमेतानि समभागानि कारयेत् ॥५०॥

सिन्दुवाररसेनापि लशुनस्य रसेन च ।
अपामार्गरसेनापि सप्तरात्रं विमर्दयेत् ॥५१॥

तत्पक्वं वालुकायन्त्रे गुञ्जामात्रं प्रयोजयेत् ।
सनागवल्लीमरिचं ततः शीताम्बु पाययेत् ॥५२॥

उमाप्रसादनो नाम रसः शीतज्वरापहः ।
चातुर्थिकं त्रिरात्रं वा नाशयेत् किमुतापरान् ॥५३॥

टङ्कणं रसगन्धौ च समभागान्प्रकल्पयेत् ।
नेपालं द्विगुणं दत्त्वा मर्दयेत् खल्लमध्यतः ॥५४॥

श्लक्ष्णतां याति तद्यावत्तावत्तन्मर्दयेच्छनैः ।
सैन्धवं मरिचं शङ्खं चिञ्चाक्षारं समाक्षिकम् ॥५५॥

तत्तुल्यम् एतत् कृत्वाथ निम्बूतोयेन मर्दयेत् ।
चणप्रमाणवटिकाम् भक्षयेद्दिवसत्रयम् ॥५६॥

ऐकाहिकं द्व्याहिकं च त्र्याहिकं च चतुर्थकम् ।
सर्वज्वरविनाशाय ज्वराङ्कुश इति स्मृतः ॥५७॥

अभ्रकं गन्धकं सूतं तोलकैकं पृथक्पृथक् ।
गृहीत्वा विषतोलार्धं तोलार्धं तिन्तिडीफलम् ॥५८॥

एतत्सर्वं समं कृत्वा मर्दयेत् खल्लमध्यतः ।
श्लक्ष्णतां याति तद्यावत् तावत् संमर्दयेच्छनैः ॥५९॥

विस्तारे परिणाहे च गर्तां कृत्वा षडङ्गुलाम् ।
फणिवल्लीदलान्यन्तर्गर्तायां प्रक्षिपेन्नरः ॥६०॥

पर्णेषु सूतकल्कं तं गर्तायां स्थापयेद् दृढम् ।
कल्काद् उपरि तत्पर्णैर् गर्तावक्त्रं प्रपूरयेत् ॥६१॥

गर्तायां तु ततो देयं पुटमारण्यकोत्पलैः ।
स्वाङ्गशीतलतां ज्ञात्वा समाकर्षेत्ततः परम् ॥६२॥

सूतलिप्तदलैः सार्धं कल्कं खल्ले विमर्दयेत् ।
तोलार्धममृतं क्षिप्त्वा तोलार्धं तिन्तिडीफलम् ॥६३॥

स्थापयेत्खल्लितं कल्कं योजयेद् गुञ्जमात्रया ।
शृङ्गवेराम्भसा युक्तं तीक्ष्णचित्रकसैन्धवैः ॥६४॥

संनिपाते तथा वाते त्रिदोषे विषमज्वरे ।
अग्निमान्द्ये ग्रहिण्यां च तथा देयोऽतिसारिणि ॥६५॥

भोजनं दधिभक्तं च रसेऽस्मिन् संप्रयोजयेत् ।
व्याध्यादिकं यथा कुर्यादुदकं ढालयेत् ततः ॥६६॥

एष योगवरः श्रीमान्प्राणिनां प्राणदायकः ।
चिन्तामणिरितिख्यातो रसः सर्वाङ्गसुन्दरः ॥६७॥

सूतेन्द्रं परिमर्द्य पञ्चपटुभिः क्षारैस् त्रिभिस् तं ततः पिण्डे हिङ्गुमहौषधासुरीमये संस्वेद्य धान्योदके ।
निर्गुण्ड्यम्बुहुताशमन्थतिलपर्ण्युन्मत्तभृङ्गार्द्रकं कामातागिरिकर्णिकाप्लवदलापञ्चाङ्गुलोत्थैर् जलैः ॥६८॥

सूतेन्द्रेण समैर् विमर्द्य सहजैः पित्तैस्ततो भावयेद् दंष्ट्रिच्छागलुलायमत्स्यशिखिनां सा संनिपाताञ्जयेत् ।
विख्याता भुवि लोकनाथगुटिका मारीचमात्रा हिता स्यादस्याः सहितं दधीक्षुशकलं वीर्यं भवेच्छीतलम् ॥६९॥

वज्रवैक्रान्तयोर् भस्म प्रत्येकं निष्कसम्मितम् ।
शृङ्गीविषं द्विनिष्कं च त्रिनिष्कं चूलिकापटु ॥७०॥

पञ्चनिष्कोऽग्निजारश्च सर्वमेकत्र मेलयेत् ।
तावद्भस्म रसं यावन्मर्दयेद् दिवसत्रयम् ॥७१॥

शार्ङ्गष्टादिकवर्गस्य क्षारनीरेण भावयेत् ।
त्रयोविंशतिवाराणि विमर्द्य च विशोष्य च ॥७२॥

ततो विमर्द्य दिवसं क्षिपेद् दन्तकरण्डके ।
मृतसंजीवनाख्योऽयं सूचिकाभरणो रसः ॥७३॥

संनिपातेन तीव्रेण मुमुर्षोर् भूगतस्य च ।
तालुनि वृश्चयित्वाथ रसमेनं विनिक्षिपेत् ॥७४॥

सूच्यातिसूक्ष्मया तोयभिन्नयातिप्रयत्नतः ।
ततस्तैलेन तं लिप्त्वा निर्वाते संनिवेशयेत् ॥७५॥

ततोऽर्धप्रहराद् ऊर्ध्वं मुक्तमूत्रपुरीषकम् ।
लब्धसंज्ञं प्रतापाढ्यं दोलयन्तं शिरो मुहुः ॥७६॥

आयुष्मन्तं विजानीयादन्यथा चान्यथा खलु ।
ततः शीताम्बुसम्पूर्णे कटाहे तं निवेशयेत् ॥७७॥

तत्र चोत्क्वथितं तोयम् अपनीयापरं क्षिपेत् ।
याचमानम् अमुं पश्चात् पाययेत् ससितं पयः ॥७८॥

दधि वा सितयोपेतं नारिकेलजलं तथा ।
रम्भाफलानि दद्याच्च म्रियते सोऽन्यथा खलु ॥७९॥

लब्धसंज्ञं प्रभाषन्तं याचमानं फलादिकम् ।
तस्मादाकृष्य तैलाक्तं तैलं पिष्ट्वापनीय च ॥८०॥

लेपयेद्गन्धकर्पूरैर् आ पादतलमस्तकम् ।
इत्यादिशिशिरैर् द्रव्यैः सप्तरात्रम् उपाचरेत् ॥८१॥

कर्णाक्षिनासिकावक्त्रे क्षिपेत् पोताश्रयं मुहुः ।
अष्टमेऽहनि सम्प्राप्ते दर्दुरीमूलजं रसम् ॥८२॥

ससितं पाययेद् वेगम् अवतारयितुं रसम् ।
रसेऽवतारिते पश्चाद् यथेष्टं भोजनं दधि ॥८३॥

श्वासोच्छ्वासयुतं चान्यैर् मुक्तजीवनलक्षणैः ।
कटाहे जलसम्पूर्णे निक्षिपेद् बोधलब्धये ॥८४॥

लब्धबोधं तमाकृष्य पूर्ववत् समुपाचरेत् ।
जीवित्वा यावद् आयुष्यं म्रियते तदनन्तरम् ॥८५॥

संनिपाते महाघोरे मज्जन्तं मृत्युसागरे ।
उद्धरेत्तस्य धर्मस्य ब्रह्माप्यन्तं न विन्दति ॥८६॥

संनिपातमहामृत्युभयनिर्मुक्तमानवः ।
अपि सर्वस्वदानेन प्राणाचार्यं प्रपूजयेत् ॥८७॥

अन्यथा नरके तावद् यावत् कल्पविकल्पना ।
इत्याज्ञा शांकरी ज्ञेया शम्भुना परिकीर्तिता ॥८८॥

प्रकाशा नैव कर्तव्या रसोत्तरणमूलिका ।
शास्त्रं विना प्रयच्छन्ते मन्दा वित्ताभिकाङ्क्षया ।
गुरुप्रसादम् आसाद्य संनिपाते प्रयुज्यताम् ॥८९॥

शार्ङ्गष्टा च तथा व्याघ्री करीरस् तिलपर्णिका ।
इन्द्रवारुणिका मुस्ता हरिद्राङ्कोलमूलिका ॥९०॥

अपामार्गः कणा स्वर्णं कटुतुम्बी च तिन्तिडी ।
शार्ङ्गष्टादिकवर्गोऽयं संनिपातहरः परम् ॥९१॥

सूतं गन्धकतालकं मणिशिलां ताप्यं लवं तुत्थकं जेपालं विषटङ्कणं मधुफलं कृत्वा समांशं दृढम् ।
कृत्वा कज्जलिकां विषोल्बणफणेः पित्तैश्च संभावयेत् क्षिप्त्वा सीसककूपिके रसवरं सूचीमुखं नामतः ॥९२॥

ब्रह्मद्वारि विकीर्णलोहितलवे गुञ्जैकमात्रं ददेद् दत्त्वा सम्पुटबद्धतन्द्रिकधनुर्वाते सशाखाहिमे ।
कासं श्वासमरोचकं प्रलपनं कम्पं च हिक्कातुरं मूकत्वं बधिरत्वम् उन्मदम् अपस्मारं जयेत् तत्क्षणात् ॥९३॥

रसगन्धकताम्राभ्रं लाङ्गलीवह्निरामठम् ।
वन्ध्यापटोलनिर्गुण्डीसुगन्धानिम्बपल्लवाः ॥९४॥

पाठाक्षारत्रयं क्ष्वेडबोलधत्तूरतण्डुलैः ।
शृङ्गीमधुकसारं च जम्बीराम्लेन मर्दयेत् ॥९५॥

कुर्याद्धि निष्कमानेन वटिका सा नियच्छति ।
सस्वेददाहाभिन्यासं संनिपातगजांकुशः ॥९६॥

ससारा वैष्णवी सेना अचला कादि कङ्कणा ।
रागरुद्रोपमोपेता प्रौढा मस्तकशालिनी ॥९७॥

त्रिभागं तालकं विद्याद् एकभागं तु पारदम् ।
तदर्धं गन्धकं चैव तदर्धं तु मनःशिला ॥९८॥

कारवल्लीदलरसैर् मर्दयेत् तत्प्रहरत्रयम् ।
पाचितो वालुकायन्त्रे चातुर्थिकहरो रसः ॥९९॥

स्याद् रसेन समायुक्तो गन्धकः सुमनोहरः ।
हियावल्लित्रिगुणितो निर्गुण्डीरसमर्दितः ॥१००॥

सप्तवाराणि तद् योज्यम् आर्द्रकस्वरसेन तु ।
संततादिज्वरं हन्याच्चातुर्थिकगजांकुशः ॥१०१॥

ताप्यतालकजेपालवत्सनाभमनःशिलाः ।
ताम्रगन्धकसूतं च मुसलीरसमर्दितः ।
मृत्युंजय इति ख्यातः कुक्कुटीपुटपाचितः ॥१०२॥

वल्लद्वयं प्रयुञ्जीत यथेष्टं दधिभोजनम् ।
नवज्वरं संनिपातं हन्यादेष महारसः ॥१०३॥

शुद्धं सूतं विषं गन्धं मरिचं टङ्कणं कणाम् ।
मर्दयेद् धूर्तजद्रावैर् दिनम् एकं तु शोषयेत् ॥१०४॥

पञ्चवक्त्रो रसो नाम द्विगुञ्जः संनिपातजित् ।
अर्कमूलकषायं च सत्र्यूषम् अनुपाययेत् ।
दध्योदनं हितं तत्र जलयोगं च कारयेत् ॥१०५॥

रसगन्धकतुल्यांशं धत्तूरफलजद्रवैः ।
मर्दयेद् दिनमेकं तु तत्तुल्यं त्रिकटु क्षिपेत् ।
उन्मत्ताख्यो रसो नाम्ना नस्ये स्यात्संनिपातजित् ॥१०६॥

निस्त्वग्जेपालजं बीजं दशनिष्कं प्रचूर्णयेत् ।
मरिचं पिप्पलीं सूतं प्रतिनिष्कं विमिश्रयेत् ॥१०७॥

भाव्यं जम्बीरजैर्द्रावैः सप्ताहं तत् प्रयत्नतः ।
संनिपातं निहन्त्याशु अञ्जने यः शिवः स्मृतः ॥१०८॥

मदनफलं विडलवणं सर्षपाः प्रतिनिष्कद्वयम् ।
चूर्णयित्वा त्रिफलाक्वाथेन सटङ्कणं पिबेत् ॥१०९॥

कुष्ठे ज्वरे कामलायां कण्ठरोगे ह्य् अजीर्णके ।
नस्ये च गिरिकर्ण्युत्थबीजैकं शीतवारिणा ॥११०॥

प्रत्येकं रसगन्धयोर् द्विपलयोः कृत्वा मषीं शुद्धयोर् रम्यां म्लेच्छलुलायलोचनमनोधात्रीप्रकुञ्चत्रयम् ।
पथ्याया बदरत्रिकं त्रिकटु षट्शाणं वचा धर्मिणी वेल्लाम्भोधरपत्त्रकद्विरदकिञ्जल्काश्वगन्धाह्वयम् ॥१११॥

पिष्ट्वैतत् समसारम् अखिलं कर्षोन्मितं न्यस्य तत् प्रोन्मर्द्यार्धकरञ्जकामृतयुतं सागस्तिकत्र्यूषणैः ।
भूधात्रीविजयासरित्पतिफलं ज्वालामुखीमार्कवैः प्रत्येकं विदधीत निश्चलमतिः सप्त क्रमाद्भावनाः ॥११२॥

पित्तैरथो पञ्च विधाय पञ्चभिः करञ्जपत्त्रामृतधूपनं ततः ।
दत्त्वार्द्रकस्य स्वरसेन तण्डुलाकृतिं विदध्याद्गुटिकां भिषग्वरः ॥११३॥

देयैका संनिपाते प्रतिहतविषये मोहनेत्रप्रसुप्त्योः स्याद्गुल्मे साजमोदा पवनविकृतिषु त्र्यूषणेन ग्रहण्याम् ।
दातव्या जीरकेण द्विपतुरगनृणां प्राणसंरक्षणाय कायाम्भोधिर् एतं रसकसमरसं वैद्यनाथोऽभ्यधत्त ॥११४॥

गन्धकाभ्रसमः सूतो वाराहीरसमर्दितः ।
पाचितो वालुकायन्त्रे त्रिफलाव्योषचित्रकैः ॥११५॥

त्रिक्षारं पञ्चलवणहिङ्गुगुग्गुलुदीप्यकैः ।
सजीरकैः सेन्द्रयवैः पृथग्रससमैर्युतः ॥११६॥

माषमात्रोऽनुपानेन द्विपलस्योष्णवारिणः ।
अभिन्यासानलभ्रंशग्रहणीपाण्डुगुल्मिनाम् ॥११७॥

कुर्यात्प्राणपरित्राणमतः प्राणेश्वरः स्मृतः ।
व्याधिवृद्धौ प्रयोगोऽस्य द्वौ वारौ वैद्यसंमतः ॥११८॥

रसायोव्योषकङ्कुष्ठशिलातालाभ्रहिङ्गुलान् ।
कुम्भ्यग्निभृङ्गमारीतण्डुलीयकमाक्षिकान् ॥११९॥

हस्तिशुण्डीयुतांस् तुल्यांस् तदर्धशिवगन्धकान् ।
त्र्यहम् आर्द्राम्बुना पिष्ट्वा कूपीस्थं वालुकाग्निना ॥१२०॥

जयाजम्बीरनिर्गुण्डीचाङ्गेरीवारि निक्षिपेत् ।
पक्त्वा चतुर्दशाहानि पिष्ट्वार्द्राक्तं विशोषयेत् ॥१२१॥

मृतसंजीवनाख्योऽयं रसो वल्लमितोऽशितः ।
द्राग् जयेदौषधं संनिपातादीन् सकलान् गदान् ॥१२२॥

रसभागो भवेदेको गन्धको द्विगुणो मतः ।
विषतालककङ्कुष्ठशिलाहिङ्गुललोहकम् ॥१२३॥

वह्नित्रिकटुभृङ्गाह्वहेममाक्षिकमभ्रकम् ।
हस्तिशुण्डी विषं कुम्भी तण्डुलीयकताम्रकौ ॥१२४॥

एषां प्रत्येकमेकैकं भागमादाय चूर्णयेत् ।
आर्द्रकस्य द्रवेणैव मर्दयेच्च दिनत्रयम् ॥१२५॥

जम्बीरस्य रसो ग्राह्यः पलत्रयपरीक्षितः ।
त्रिफलायाश्च निर्गुण्ड्याः प्रत्येकं च पलत्रयम् ॥१२६॥

रसस्य पलमात्रं तु चाङ्गेर्याः परिकीर्तितम् ।
काचकूप्यां विनिक्षिप्य यन्त्रे क्षिप्त्वा प्रयत्नवान् ॥१२७॥

उद्धृत्यार्द्रकनिर्यासैर् मर्दयित्वा विशोषयेत् ।
मृतसंजीवनो नाम रसोऽयंविदितो भुवि ।
गुञ्जाद्वयं ददीतास्य संनिपातापनुत्तये ॥१२८॥

वङ्गं नागं च सूतं च नेपालं गन्धकं तथा ।
शुल्बं विषं समांशेन रसेनार्द्रेण मर्दयेत् ॥१२९॥

पुनर् मर्द्येत निर्गुण्ड्याश् चाङ्गेर्या रसमर्दितः ।
वल्लप्रयोगेण रसोऽयं संनिपातनुत् ॥१३०॥

गन्धकं च रसं शुद्धं प्रत्येकं कर्षसम्मितम् ।
एकत्र कज्जलीं कृत्वा ततः कुर्वीत गोलकम् ॥१३१॥

नवभाण्डे विनिक्षिप्य ताम्रपात्रेण गोपयेत् ।
दृढं निरुध्य तत् पात्रमग्नावारोपयेत् ततः ॥१३२॥

व्रीहिस्फुटनमात्रेण स्वाङ्गशीतं समुद्धरेत् ।
नवज्वरे प्रयुञ्जीत रसं पर्पटिकाह्वयम् ॥१३३॥

आर्द्रकस्य रसेनैव त्रिवल्लं त्रिदिनं भिषक् ।
ज्वरितं छादयेद्गाढं यावत्स्वेदः समुद्भवेत् ॥१३४॥

तक्रभक्तं भवेत्पथ्यं ज्वरमुक्तस्य देहिनः ।
नवज्वरारिर् इत्येष रसः परमदुर्लभः ।
वातज्वरे विशेषेण रसः साधारणो मतः ॥१३५॥

टङ्कणं रसगन्धौ च मरिचानि समांशकम् ।
सर्वं जम्बीरनीरेण दिनानि त्रीणि मर्दयेत् ॥१३६॥

संशोष्य शर्करायुक्तं मत्स्यपित्तेन भावयेत् ।
भावितं तद्रसं सिद्धमार्द्रकस्वरसैस्त्र्यहम् ॥१३७॥

वल्लं वारत्रयं देयं पानार्थं वारि शीतलम् ।
तक्रभक्तं भवेत्पथ्यं वृन्ताकफलसंयुतम् ।
सर्वान् नवज्वरान् हन्ति रसोऽयं जलमञ्जरी ॥१३८॥

कान्तस्य कण्टवेध्यानां पात्राणां भस्म कारयेत् ।
तत्समश्च रसो गन्धष्टङ्कणो निम्बवारिणा ।
ततः संपेष्य तत्कल्कं मर्दयेत्त्रिदिनं पुनः ॥१३९॥

रसतुल्येन मत्स्यस्य पित्तेन परिभावयेत् ।
सिद्धः कान्तरसो ह्य् एष प्रयोज्योऽभिनवज्वरे ।
शृङ्गवेरानुपानेन मात्रया भिषगुत्तमैः ॥१४०॥

रसगन्धौ तथा वङ्गम् अभ्रकं समभागतः ।
मेलयित्वाथ वङ्गेन समं सूतं विमर्दयेत् ॥१४१॥

तत्रैकीकृत्य गन्धाभ्रे पेष्यं जम्बीरवारिणा ।
सामान्यं पुटम् आदद्यात् सप्तधा साधितं रसम् ॥१४२॥

कुमार्या चित्रकेणापि भावयित्वाथ सप्तधा ।
गुडेन जीरकेणापि ज्वरे जीर्णे प्रयोजयेत् ॥१४३॥

कासे श्वासे कुमार्या च त्रिफलाक्वाथयोगतः ।
उन्मादं च धनुर्वातम् अमृताक्वाथयोगतः ।
इत्येवं रोगतापघ्नो रसश् चन्द्रोदयाभिधः ॥१४४॥

नागं वङ्गं रसं ताम्रं गन्धकं टङ्कणं तथा ।
विषं च नेपालं हरितालं समं तथा ॥१४५॥

वटक्षीरेण संमर्द्य सर्वं कुर्यात्तु गोलकम् ।
तं गोलकं भाण्डमध्ये पाचयेद्दीपवह्निना ॥१४६॥

तं गोलं शीतलं कृत्वा भृङ्गराजेन मर्दयेत् ।
आर्द्रकस्य रसेनापि मर्दयेच्च पुनः पुनः ॥१४७॥

चणप्रमाणवटकान् रसेनार्द्रस्य दापयेत् ।
गुञ्जाद्वयप्रमाणेन ज्वरं जीर्णं हरत्यसौ ॥१४८॥

हरश्च गन्धकं चैव कुनटी च समं समम् ।
मर्द्यं कर्कोटिकायाश्च रसेन विनियोजयेत् ॥१४९॥

नवज्वरमुरारिः स्याद्वल्लं शर्करया सह ।
तण्डुलीयरसेनानुपानं शर्करयापि वा ।
गुञ्जाद्वयप्रमाणेन ज्वरान्हन्ति नवान्हठात् ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:12.3770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ब्रेक

  • पु. गाडी थांबविण्याचें साधन ; आडकण ; खरडी . [ इं . ] 
RANDOM WORD

Did you know?

गणपतीची सोंड कोणत्या दिशेला वळली आहे, यावरून पूजाअर्चेचे कांही धर्मशास्त्र आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.