रसरत्नसमुच्चय - अध्याय ६

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


रसशास्त्राणि सर्वाणि समालोच्य यथाक्रमम् ।
साधकानां हितार्थाय प्रकटीक्रियतेऽधुना ॥१॥

न क्रमेण विना शास्त्रं न शास्त्रेण विना क्रमः ।
शास्त्रं क्रमयुतं ज्ञात्वा यः करोति स सिद्धिभाक् ॥२॥

आचार्यो ज्ञानवान्दक्षो रसशास्त्रविशारदः ।
मन्त्रसिद्धो महावीरो निश्चलशिववत्सलः ॥३॥

देवीभक्तः सदा धीरो देवतायागतत्परः ।
सर्वाम्नायविशेषज्ञः कुशलो रसकर्मणि ।
एवं लक्षणसंयुक्तो रसविद्यागुरुर् भवेत् ॥४॥

गुरुभक्ताः सदाचाराः सत्यवन्तो दृढव्रताः ।
निरालस्याः स्वधर्मज्ञाः सदाज्ञापरिपालकाः ॥५॥

दम्भमात्सर्यनिर्मुक्ताः कुलाचारेषु दीक्षिताः ।
अत्यन्तसाधकाः शान्ता मन्त्राराधनतत्पराः ।
इत्येवं लक्षणैर्युक्ताः शिष्याः स्युः सूतसिद्धये ॥६॥

सहायाः सोद्यमास्तत्र यथा शिष्यास्ततोऽधिकाः ।
कुलीनाः स्वामिभक्ताश्च कर्तव्या रसकर्मणि ॥७॥

नास्तिका ये दुराचाराश्चुम्बका गुरुतोऽपरात् ।
विद्यां ग्रहीतुमिच्छति चौर्यच्छद्मखलोत्सवात् ॥८॥

न तेषां सिध्यते किंचिन् मणिमन्त्रौषधादिकम् ।
कुर्वन्ति यदि मोहेन नाशयन्ति स्वकं धनम् ।
इह लोके सुखं नास्ति परलोके तथैव च ॥९॥

तस्माद् भक्तिबलादेव संतुष्यति यदा गुरुः ।
तदा शिष्येण सा ग्राह्या रसविद्यात्मसिद्धये ।
हस्तमस्तकयोगेन वरं लब्ध्वा सुसाधयेत् ॥१०॥

आतङ्करहिते देशे धर्मराज्ये मनोरमे ।
उमामहेश्वरोपेते समृद्धे नगरे शुभे ॥११॥

कर्तव्यं साधनं तत्र रसराजस्य धीमता ।
अत्यन्तोपवने रम्ये चतुर्द्वारोपशोभिते ॥१२॥

तत्र शाला प्रकर्तव्या सुविस्तीर्णा मनोरमा ।
सम्यग्वातायनोपेता दिव्यचित्रैर् विचित्रिता ॥१३॥

तत्समीपे समे दीप्ते कर्तव्यं रसमण्डपम् ।
अतिगुप्तं सुविस्तीर्णं कपाटार्गलशोभितम् ॥१४॥

ध्वजछत्त्रवितानाढ्यं पुष्पमालाविलम्बितम् ।
भेरीकाहलघण्टादिशृङ्गीनादावनादितम् ॥१५॥

भूः समा तत्र कर्तव्या सुदृढा दर्पणोपमा ।
तन्मध्ये वेदिका रम्या कर्तव्या लक्षणान्विता ॥१६॥

निष्कत्रयं हेमपत्त्रं रसेन्द्रं नवनिष्ककम् ।
अम्लेन मर्दयेद् यामं तेन लिङ्गं तु कारयेत् ॥१७॥

दोलायन्त्रे सारनाले जम्बीरस्थं दिनं पचेत् ।
तल्लिङ्गं पूजयेत्तत्र सुशुभैरुपचारकैः ॥१८॥

लिङ्गकोटिसहस्रस्य यत्फलं सम्यगर्चनात् ।
तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥१९॥

ब्रह्महत्यासहस्राणि गोहत्याश्चायुतानि हि ।
तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात् ॥२०॥

स्पर्शनात्प्राप्यते मुक्तिरिति सत्यं शिवोदितम् ।
आग्नेय्यां श्रीघोरेण मन्त्रराजेन चार्चयेत् ॥२१॥

अष्टादशभुजं शुभ्रं पञ्चवक्त्रं त्रिलोचनम् ।
प्रेतारूढं नीलकण्ठं रसलिङ्गं विचिन्तयेत् ॥२२॥

तस्योत्सङ्गे महादेवीमेकवक्त्रां चतुर्भुजाम् ।
अक्षमालाङ्कुशं दक्षे वामे पाशाभयं शुभम् ।
दधतीं तप्तहेमाभां पीतवस्त्रां विभावयेत् ॥२३॥

वाङ्मयी श्रीः कामराजशक्तिबीजं रसाङ्कुशायै नमो द्वादशार्णैषा ज्ञेया विद्या रसाङ्कुशा ॥२४॥

अनया पूजयेद्देवीं गन्धपुष्पाक्षतादिभिः ।
नन्दीभृङ्गीमहाकालकुलीरान् पूर्वदिक्क्रमात् ।
पूजयेन् नाममन्त्रैश् च प्रणवादिनमोऽन्तकैः ॥२५॥

एव नित्यार्चनं तत्र कर्तव्यं रससिद्धये ॥२६॥

रसविद्या शिवेनोक्ता दातव्या साधकाय वै ।
यथोक्तेन विधानेन गुरुणा मुदितात्मना ॥२७॥

सुमुहूर्ते सुनक्षत्रे चन्द्रताराबलान्विते ।
कलशं तोयसम्पूर्णं हेमरत्नफलैर्युतम् ॥२८॥

स्थापयेद् रसलिङ्गाग्रे दिव्यवस्त्रेण वेष्टितम् ।
गन्धपुष्पाक्षतैर् धूपैर् नैवेद्यैश्च सुपूजयेत् ॥२९॥

पूजान्ते हवनं कुर्याद्योनिकुण्डे सुलक्षणे ।
तिलाज्यैः पायसैः पुष्पैः शतपुष्पादिकैः पृथक् ॥३०॥

अघोरेण रसाङ्कुश्या होमान्ते शिष्यमाह्वयेत् ।
कालिनीशक्तिसंयुक्तं रससिद्धिपरायणम् ॥३१॥

यस्यास्तु कुञ्चिताः केशाः श्यामा या पद्मलोचना ।
सुरूपा तरुणी भिन्ना विस्तीर्णजघना शुभा ॥३२॥

संकीर्णहृदया पीनस्तनभारेण नम्रिता ।
चुम्बनालिङ्गस्पर्शकोमला मृदुभाषिणी ॥३३॥

अश्वत्थपत्त्रसदृशयोनिदेशसुशोभिता ।
कृष्णपक्षे पुष्पवती सा नारी कालिनी स्मृता ।
रसबन्धे प्रयोगे च उत्तमा सा रसायने ॥३४॥

तदभावे सुरूपा तु या काचित् तरुणाङ्गना ।
तस्या देयं त्रिसप्ताहं गन्धकं घृतसंयुतम् ।
कर्षैकैकं प्रभाते तु सा भवेत्कालिनीसमा ॥३५॥

एवं शक्तियुतो योऽसौ दीक्षयेत् तं गुरूत्तमः ।
सुस्नातम् अभिषिञ्चेत मन्त्रेण कलशोदकैः ॥३६॥

अघोरामङ्कुशीं विद्यां दध्याच्छिष्याय सद्गुरुः ।
यथाशक्त्या सुशिष्येण दातव्या गुरुदक्षिणा ॥३७॥

अथाज्ञया गुरोर्मन्त्रं लक्षं लक्षं पृथग्जपेत् ।
ओं ह्रां ह्रीं ह्रूं अद्योरतर प्रस्फुट २ प्रकट २ कह २ शमय २ जात २ दह २ पातय २ ओं ह्रीं ह्रैं ह्रौं ह्रूं अघोराय फट् इमम् अघोरमन्त्रं तु औं कामराजशक्तिबीजरसाङ्कुशायै आज्ञया विद्यां रसाङ्कुशाम् ।
अनया पूजयेद्देवीं शक्तिम् अङ्कुशविद्यया ॥३८॥

दशांशं जुहुयात्कुण्डे त्रिकोणे हस्तमात्रके ।
जातिपुष्पं त्रिमध्वक्तं पूर्णान्ते कन्यकार्चनम् ॥३९॥

कृत्वाथ प्रविशेच्छालां शुद्धां लिप्तां सवेदिकाम् ।
षट्कोणं मण्डलं तत्र सिन्दूरेण द्विहस्तकम् ॥४०॥

वेदिकायां लिखेत्सम्यक् तद्बहिश् चाष्टपत्त्रकम् ।
कमलं चतुरस्रं च चतुर्द्वारैः सुशोभितम् ॥४१॥

कर्णिकायां न्यसेत् खल्लं लोहजं स्वर्णलेखितम् ।
तन्मध्ये रसराजं तु पलानां शतमात्रकम् ।
पञ्चाशत्पञ्चविंशद् वा पूजयेद् रसलिङ्गवत् ॥४२॥

वज्रवैक्रान्तवज्राभ्रकान्तपाषाणटङ्कणम् ।
भूनागः शक्तयश्चैताः षट्कोणे पूजयेत् क्रमात् ॥४३॥


उपरस
गन्धतालककासीसशिलाकङ्कुष्ठभूषणम् ।
राजावर्तो गैरिकं च ख्याता उपरसा अमी ।
पूज्या अष्टदलेष्वेते पूर्वादीशानगं क्रमात् ॥४४॥


महारस
रसकं विमला ताप्यं चपला तुत्थम् अञ्जनम् ।
हिङ्गुलं सस्यकं चैव ख्याता एते महारसाः ।
पूर्वादीशानपर्यन्तं पत्त्राग्रेषु प्रपूजयेत् ॥४५॥

पूर्वद्वारे स्वर्णरौप्ये दक्षिणे ताम्रसीसके ।
पश्चिमे वङ्गकान्तौ च उत्तरे मुण्डतीक्ष्णके ।
सर्वमेतद् अघोरेण पूजयेद् अङ्कुशान्वितम् ॥४६॥

विडं काञ्जिकयन्त्राणि क्षारमृल्लवणानि च ।
कोष्ठी मूषा वङ्कनालतुषाङ्गारवनोपलाः ॥४७॥

भस्त्रिका दण्डिकानेका शिला खल्वान्युलूखलम् ।
स्वर्णकारोपकरणं समस्ततुलनानि च ॥४८॥

मृत्काष्ठताम्रलोहोत्थपात्राणि विविधानि च ।
दिव्यौषधीनां वर्गाश्च रञ्जकस्नेहनानि च ।
एतानि द्वारबाह्ये तु मूलमन्त्रेण पूजयेत् ॥४९॥

वाङ्माया ह्रीं ततः क्षें च क्ष्मश्च पञ्चाक्षरो मनुः ।
अनेन मन्त्रेण भैरवं तत्र पूजयेत् ।
सर्वेषां रससिद्धानां नाम संकीर्तयेत् तदा ॥५०॥

व्यालाचार्यश् चन्द्रसेनः सुबुद्धिर्नरवाहनः ।
नागार्जुनो रत्नघोषः सुरानन्दो यशोधनः ॥५१॥

इन्द्रश्च माण्डव्यश्चर्पटी शूरसेनकः ।
आगमो नागबुद्धिश् च खण्डः कापालिको मतः ॥५२॥

कामारिस् तान्त्रिकः शम्भुर् लङ्कालम्पटशारदौ ।
बाणासुरो मुनिश्रेष्ठो गोविन्दः कपिलो बलिः ॥५३॥

एते सर्वे तु सूतेन्द्रा रससिद्धा महाबलाः ।
चरन्ति सर्वलोकेषु नित्या भोगपरायणाः ॥५४॥

सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः ।
वैद्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसार्चनम् ॥५५॥

हर्षयन्द्विजदेवानां तर्पयेदिष्टदेवताः ।
कुमारीयोगिनीयोगीश्वरान्मेलकसाधकान् ।
तर्पयेत् पूजयेद् भक्त्या यथाशक्त्यनुसारतः ॥५६॥

इत्येवं सर्वसम्भारयुक्तं कुर्याद्रसोत्सवम् ।
सर्वविघ्नप्रशान्त्यर्थं सर्वेप्सितफलप्रदम् ॥५७॥

अन्यथा यो विमूढात्मा मन्त्रदीक्षाक्रमाद्विना ।
कर्तुमिच्छति सूतस्य साधनं गुरुवर्जितः ॥५८॥

नासौ सिद्धिमवाप्नोति यत्नकोटिशतैरपि ।
तस्मात्सर्वप्रयत्नेन शास्त्रोक्तां कारयेत्क्रियाम् ॥५९॥

सम्यक्साधनसोद्यमा गुरुयुता राजाज्ञयालंकृता नानाकर्मपराङ्मुखा रसपराश् चाढ्या जनैश्चार्थिताः ।
मात्रायन्त्रसुपाककर्मकुशलाः सर्वौषधे कोविदाः तेषां सिध्यति नान्यथा विधिबलाच्छ्रीपारदः पारदः ॥६०॥

रसशास्त्रं प्रदातव्यं विप्राणां धर्महेतवे ।
राज्ञे वैश्याय वृद्ध्यर्थं दास्यार्थम् इतरस्य च ॥६१॥

गुरौ तुष्टे शिवस्तुष्येच्छिवे तुष्टे रसस्तथा ।
रसे तुष्टे क्रियाः सर्वाः सिध्यन्त्येव न संशयः ॥६२॥

रसविद्या दृढं गोप्या मातुर्गुह्यमिव ध्रुवम् ।
भवेद् वीर्यवती गुप्ता निर्वीर्या च प्रकाशनात् ॥६३॥

न रोगिविदितं कार्यं बहुभिर्विदितं तथा ।
रोगिणां बहुभिर्ज्ञातं भवेन्निर्वीर्यम् औषधम् ॥६४॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP