TransLiteral Foundation

रसरत्नसमुच्चय - अध्याय १५

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अध्याय १५
अथार्शः
गुदस्य बहिरन्तर्वा जायन्ते चर्मकीलकाः ।
सर्वरोगकराः पुंसामर्शांसीति हि विश्रुताः ॥१॥

रुधिरस्राविणस्तेषां पित्तजाः परिकीर्तिताः ॥२॥

वातजा निःसहोत्थाना उदावर्तं प्रकुर्वते ॥३॥

श्वयथुं श्लेष्मजाः कुर्युः सर्वं कुर्युस्त्रिदोषजाः ॥४॥


अर्शःकुठाररसः
शुद्धसूतं पलैकं तु द्विपलं शुद्धगन्धकम् ।
मृतं ताम्रं मृतं लोहं प्रत्येकं तु पलत्रयम् ॥५॥

त्र्यूषणं लाङ्गली दन्ती पिरुकं चित्रकं तथा ।
प्रत्येकं द्विपलं योज्यं यवक्षारं च टङ्कणम् ॥६॥

उभौ पञ्चपलौ योज्यौ सैन्धवं पलपञ्चकम् ।
द्वात्रिंशत्पलगोमूत्रं स्नुहीक्षीरं च तत्समम् ॥७॥

मृद्वग्निना पचेत्स्थाल्यां सर्वं यावत्सुपिण्डितम् ।
माषद्वयं सदा खादेद् रसो ह्यर्शःकुठारकः ।
तक्रेण दाडिमाम्भोभिः पक्वकन्देन वाथ तत् ॥८॥

मृतसूतार्कहेमाभ्रतीक्ष्णमुण्डं सगन्धकम् ।
मण्डूरं माक्षिकं तुल्यं मर्द्यं कन्याद्रवैर्दिनम् ॥९॥

अन्धमूषागतं पाच्यं त्रिदिनं तुषवह्निना ।
चूर्णितं सितया माषं खादेत्पित्तार्शसां जयेत् ॥१०॥


सर्वलोकाश्रयरसः
शुद्धं सूतं पलं गन्धं गन्धार्धं तालताप्यकम् ।
अमृतं रसकं चैव तालकार्धविभागिकम् ॥११॥

एतेषां कज्जलीं कुर्याद् दृढं संमर्द्य वासरम् ।
त्रिदिनं मर्दयेच्चाथ दत्त्वा निम्बुजलं खलु ॥१२॥

वटीकृत्य विशोष्याथ काचकुप्यां निधापयेत् ।
निष्कतुल्यार्कपत्रेण पिधायास्यं प्रयत्नतः ॥१३॥

सार्धांगुलमितोत्सेधं मृत्स्नया तां विलेप्य च ।
नतो भाण्डतृतीयांशे सिकतापरिपूरिते ॥१४॥

निधाय सिकतामूर्ध्नि सिकताभिः प्रपूरयेत् ।
रुद्ध्वास्यं तदधो वह्निं ज्वालयेत्सार्धवासरम् ॥१५॥

स्वांगशीतलितं काचघटादाकृष्य तं रसम् ।
पटचूर्णं विधायाथ ताम्रमभ्रं पलद्वयम् ॥१६॥

पलार्धममृतं चैव मरिचं च चतुष्पलम् ।
एकीकृत्य क्षिपेत्सर्वं नारिकेलकरण्डके ॥१७॥

साज्यो गुञ्जाद्विमानो हरति रसवरः सर्वलोकाश्रयोऽयं वातश्लेष्मोत्थरोगान्गुदजनितगदं शोषपाण्ड्वामयं च ।
यक्ष्माणं वातशूलं ज्वरमपि निखिलं वह्निमान्द्यं च गुल्मं तत्तद्रोगघ्नयोगैः सकलगदचयं दीपनं तत्क्षणेन ॥१८॥


अर्शोघ्नवटक
अर्शोघ्नं वटकं वक्ष्ये पुत्रकं शृणु भद्रक ।
पिप्पली पिप्पलीमूलवनसूरणचित्रकम् ॥१९॥

मारिचं कण्टकारी च रक्तपुष्पी समांशका ।
पलमेकं पृथक् सर्वं श्लक्ष्णं दृषदि पेषयेत् ॥२०॥

गजाजपशुमूत्रेषु शुभे भाण्डे विनिक्षिपेत् ।
मृद्वग्निना पचेत्सर्वं चूर्णशेषं यथा भवेत् ॥२१॥

लोणत्रयं च तत्रैव पलमेकं तु निक्षिपेत् ।
अक्षप्रमाणवटकान्कुर्यादेवं पृथक्पृथक् ॥२२॥

त्रिंशद्दिनानि मतिमानर्शोघ्नं दीपनं परम् ।
घृततक्रसमायुक्तं भोजनं संप्रदापयेत् ॥२३॥


अर्शोघ्नी वटिका
गन्धकं तारताम्रं च कृत्वा चैकत्र पिष्टिकाम् ।
तत्समं चाभ्रकं तीक्ष्णं गन्धकात्पञ्चमांशकम् ॥२४॥

विषं च षोडशांशेन द्वौ भागौ सूतकस्य च ।
एकीकृत्य प्रयत्नेन जम्बीरद्रवमर्दितम् ॥२५॥

भाजने मृण्मये स्थाप्य वराक्वाथेन भावयेत् ।
दशमूलशतावर्योः क्वाथे पाच्यः क्रमेण हि ॥२६॥

अथोत्तार्य प्रयत्नेन वटिकां कारयेद् बुधः ।
गुञ्जात्रयप्रमाणेन हन्ति शूलं गुदाङ्कुरम् ॥२७॥


मूलकुठाररसः
वरनागं तथा व्योमसत्त्वं शुल्बं च तीक्ष्णकम् ।
सर्वमेकत्र विद्राव्य क्षिप्त्वालं चाल्पमल्पकम् ॥२८॥

चालयेदनिशं यावत्तालकं त्रिगुणं खलु ।
ततस्तेन विमर्द्याथ पिष्टीं कुर्याद्रसेन तु ॥२९॥

ततो भल्लातकीवृक्षमूलान्तस्थां खनेच्च ताम् ।
मासादाकृष्य तां पिष्टीं गव्यदुग्धे विनिक्षिपेत् ॥३०॥

ततो भल्लातकीतैलं हृतं पातालयन्त्रतः ।
आयसे भाजने स्निग्धे पिष्टिकां तां निवेश्य च ॥३१॥

प्रस्थमात्रं हि तत्तैलं जारयेद् अतियत्नतः ।
तत्तैलभावितैर्गन्धैः पुटित्वा भस्मतां व्रजेत् ॥३२॥

ततः कार्तिकमासोत्थकोरंटदलजै रसैः ।
रसं संमर्द्य संमर्द्य घर्मे संस्थाप्य मारयेत् ॥३३॥

तद्भस्म मेलयेत्पूर्वभस्मना समभागिकम् ।
वनसूरणनिर्गुण्डीमहाराष्ट्रीभकण्टिका ॥३४॥

वज्रवल्ली शिखी चैषां रसैः पिष्ट्वा विशोषयेत् ।
त्रिवारं मार्कवद्रावैर्द्रावयित्वा विशोषयेत् ।
चूर्णीकृत्य प्रयत्नेन क्षिपेत्काचकरण्डके ॥३५॥

सोऽयं मूलकुठारको रसवरो दीप्याग्निवेल्लोत्तमासंयुक्तः सघृतश्च वल्लतुलितः संसेवितो नाशयेत् ।
अर्शांस्यानननासिकाक्षिगुदजान्यत्युग्रपीडानि च प्लीहानं ग्रहणीं च गुल्मयकृतौ मान्द्यं च कुष्ठामयान् ॥३६॥

रसग्रस्तसमुद्गीर्णगन्धकस्य पलत्रयम् ।
मृतसूताभ्रताम्रायः कर्षं कर्षं पृथक् पृथक् ॥३७॥

पलं हिङ्गुलचूर्णस्य माक्षिकस्य पलत्रयम् ।
पलं कम्पिल्लकस्यापि विषस्यार्धपलं तथा ॥३८॥

सप्ताहं मर्दयेत्सर्वं दत्त्वा चूर्णोदकं मुहुः ।
ततस्तद्गोलकं कृत्वा सप्ताहं चातपे क्षिपेत् ॥३९॥

गुडचूर्णं शिलाचूर्णं लिम्पेदङ्गुलिकाघनम् ।
त्रिपलं गन्धकं दत्त्वा क्रौञ्च्याम् अथ च गोलकम् ॥४०॥

गोलकस्योपरिष्टाच्च क्षिपेत्तालपलत्रयम् ।
संरुध्यातिप्रयत्नेन दद्याद्गजपुटं खलु ॥४१॥

स्वाङ्गशीतलमाहृत्य गोलकं लेपनैः सह ।
विचूर्ण्य सप्तवारं हि विषतिन्दुफलोद्भवैः ॥४२॥

द्रवैरथातपे शुष्कं क्षिपेद्रम्ये करण्डके ।
त्रिंशदंशेन वैक्रान्तभस्म तस्मिन्विनिक्षिपेत् ॥४३॥

अयं हि नन्दीश्वरसम्प्रदिष्टो रसो विशिष्टः खलु रोगहन्ता ।
निःशेषरोगेष्वहतप्रतापो महोदयप्रत्ययसारनामा ॥४४॥

हन्यात्सर्वगुदामयान्क्षयगदं कुष्ठं च मन्दाग्नितां शूलाध्मानगदं कफं श्वसनताम् उन्मादकापस्मृती ।
सर्वा वातरुजो महाज्वरगदान् नानाप्रकारांस्तथा वातश्लेष्मभवं महामयचयं दुष्टग्रहण्यामयम् ॥४५॥


कनकसुन्दररसः
स्याद्रसं धौतमाक्षीकं कान्ताभ्रं नागहाटकम् ।
पृथ्वीभटेन संतुल्यं सर्वतुल्यं च गन्धकम् ॥४६॥

दत्त्वा विद्याधरे यन्त्रे पुटेदारण्यकोत्पलैः ।
स्वाङ्गशीतलम् उद्धृत्य त्र्यूषणेन विमिश्रयेत् ॥४७॥

अर्शोव्याधौ कटीशूले चक्षुःशूले च दारुणे ।
सन्निपाते क्षये कासे श्वासे मन्दानले ज्वरे ॥४८॥

कर्णशूले शिरःशूले दन्तशूले प्रयोजयेत् ।
पीनसे प्लीह्नि हृच्छूले ग्रन्थिवाते च दारुणे ॥४९॥

एकाङ्गे वा धनुर्वाते कम्पवाते च मूर्छिते ।
ज्वरांश्च विषमान् सर्वान्हन्ति रोगाननेकधा ॥५०॥

सेवितः पथ्ययोगेन रसः कनकसुन्दरः ।
गुञ्जामात्रं ददीतास्य यथायुक्तानुपानतः ॥५१॥

घृतेन संयुतो वाते मधुना पैत्तिके ज्वरे ।
पिप्पल्या श्लैष्मिके देयः पित्तोद्भूते सचन्दनः ॥५२॥

तक्रेण श्लेष्मवातोत्थे वातपित्ते घृतान्वितः ।
श्लेष्मपित्ते चार्द्रकेण निर्गुण्ड्या सान्निपातिके ॥५३॥

फलत्रयेण शूलेषु विषमेषु ज्वरेष्वपि ।
आर्द्रकेणाथ वा दद्याद्वह्निमान्द्ये विशेषतः ॥५४॥

अभिष्यन्दे शिरःशूले गायत्रीबोलसंयुतम् ।
पक्षिमांससमायुक्तं कफवाते च मूर्छिते ॥५५॥

एकाङ्गे च धनुर्वाते क्षीरयुक्तं च पीनसे ।
पाण्डुरोगे क्षये कासे मरिचाज्यैश्च कामले ॥५६॥

अजमोदाविडङ्गैश्च नाभिशूलेऽग्निमान्द्यजित् ।
रूक्षज्वरेऽरुचौ देयः कदलीफलसंयुतः ।
बोलेनार्धकटीशूले भाषितं नागबोधिना ॥५७॥


अर्केशः
नागं पारदगन्धकं त्रिलवणं वायर्कजं मेलयेद् एकैकं च पलं पलं त्रयमतः पञ्च क्रमान्मर्दयेत् ।
सर्वं तद्दिवसत्रयं तदनु तद्दत्त्वा पुटं भावनाः कुर्यात्सत्रिफलाग्निवेतसरसैः पञ्चाधिका विंशतिः ॥५८॥

पञ्चैतत् क्रमशस्ततो गुडभवैर् दत्तोऽस्य वल्लो जलैर् हन्त्यर्शांस्यखिलानि सूरणघृतैस्तस्यान्नम् अस्मिन्हितम् ।
अर्केशः परिवर्ज्यतामिति मुनिः श्रीवासुदेवोऽवदत् कूष्माण्डीफलमाषपायसम् अतिव्यायामम् अर्कातपम् ॥५९॥


तीक्ष्णमुखरसः
रसेन्द्रहेमार्कबिडालगोलसुरायसलोहमलाभ्रगन्धाः ।
ताप्यं च कन्यारसमर्दितोऽयं पक्वः पुटे तीक्ष्णमुखोऽर्शसां स्यात् ॥६०॥


अर्शःकुठाररसः
श्रेष्ठा दन्त्यग्नियुग्मत्रिकटुकहलिनीपीलुकुम्भं विपक्वं प्रस्थे मूत्रस्य सस्नुक्पयसि रसपलं द्वे पले गन्धकस्य ।
लोहस्य त्रीणि ताम्रात्कुडवमथ रजःक्षारयोश्चापि पञ्च क्षिप्त्वा स्थाल्यां पचेत्तु ज्वलति दहनतश्चूर्णम् अर्शःकुठारः ॥६१॥


त्रैलोक्यतिलकरसः
वज्रकृष्णाभ्रजं सत्त्वं शोधितं काचटङ्कणम् ।
रेतयित्वा रजःकृत्वा भर्जयित्वा घृतेन तत् ॥६२॥

अष्टांशसस्यकोपेतं पुटेद्वारत्रयं ततः ।
त्रिवारं नृपवर्तेन लुङ्गस्वरसयोगिना ॥६३॥

चतुर्वारं च वर्षाभूवासामत्स्याक्षिकारसैः ।
गुग्गुलुत्रिफलाक्वाथैस्त्रिंशद्वाराणि यत्नतः ॥६४॥

तुल्यांशरसगन्धोत्थकज्जल्याष्टांशभागया ।
पुटेत्पञ्चाशतं वारान्मर्दयेच्च पुटे पुटे ॥६५॥

शोधितं रेतितं कान्तसत्वं च घृतमर्दितम् ।
पुटेदष्टांशदरदैः संयुक्तं लकुचाम्बुना ॥६६॥

दशवारं तथा सम्यक् तारं शुद्धं मनोह्वया ।
तथा विंशतिवाराणि बलिना मीनदृग्रसैः ॥६७॥

दशवाराणि ताप्येन कृष्णगोघृतयोगिना ।
उभयं समभागं तत् पुटेन्निर्गुंडिकारसैः ॥६८॥

रसगन्धोत्थकज्जल्या दशवारं पुटेत्पुनः ।
तस्मिन्नष्टांशभागेन क्षिपेद्वैक्रान्तभस्मकम् ॥६९॥

राजावर्तकलांशेन समभागेन पर्पटी ।
तत्सर्वं परिमर्द्याथ भावयित्वार्द्रकाम्बुना ॥७०॥

गुडूच्याः स्वरसेनापि भूकदम्बरसेन वा ।
भृङ्गराजरसेनापि चित्रमूलरसेन च ॥७१॥

व्योषगञ्जाकिनीकन्दैर् भूयोऽप्यार्द्रद्रवेण च ।
पटचूर्णमतः कृत्वा क्षिपेच्छुद्धकरण्डके ॥७२॥

त्रैलोक्यतिलकः सोऽयं ख्यातः सर्वरसोत्तमः ।
सर्वव्याधिहरः श्रीमाञ्छम्भुना परिकीर्तितः ॥७३॥

उदावर्तं च विड्बन्धं व्यथां च जठरोद्भवाम् ।
लोहलं मन्दबुद्धित्वं शूलित्वमपि वन्ध्यताम् ॥७४॥

सूतिरोगान् अशेषांश्च शूलं नानाविधं तथा ।
परिणामाख्यशूलं च तथा भिन्द्यात् समुत्कटम् ॥७५॥

रक्तगुल्मं च नारीणां रजःशूलं च दुःसहम् ।
अनुपानं च पथ्यं च तत्तद्रोगानुरूपतः ॥७६॥


सामान्योपचारः
वचाहिङ्गुविडङ्गानि सैन्धवं जीरनागरम् ।
मरिचं पिप्पली कुष्ठं पथ्या वह्न्यजमोदकम् ॥७७॥

क्रमोत्तरगुणं चूर्णं सर्वेषां द्विगुणं गुडम् ।
कर्षं चोष्णजलेनानुपिबेद्वातार्शसां जये ॥७८॥

मृतं लोहं चेन्द्रयवं शुण्ठीभल्लातचित्रकम् ।
बिल्वमज्जाविडङ्गानि पथ्या तुल्यं विचूर्णयेत् ॥७९॥

सर्वतुल्यं गुडं योज्यं कर्षं भुक्त्वार्शसां जयेत् ।
श्लेष्मार्शसां प्रशान्त्यर्थं देयमानन्दभैरवम् ।
मृतताम्रेण सन्तुल्यं देयं गुञ्जात्रयं हि तत् ॥८०॥

कुसुम्भमृदुपत्राणि काञ्जिकेनैव पाचयेत् ।
शाकवद्भक्षयेन्नित्यमर्शोरोगप्रशान्तये ॥८१॥


सामान्यलेपः
देवदाल्याश्च बीजानि सैन्धवेन सुचूर्णितः ।
आरनालेन लेपोऽयं मूलरोगनिकृन्तनः ॥८२॥

काञ्चनीकुसुमं चूर्णं शङ्खचूर्णं मनःशिलाम् ।
गजपिप्पलिकातोयैर्लेपो ह्यर्शःकुठारकः ॥८३॥

देवदाल्याः कषायेण ह्यर्शोघ्नं शौचमाचरेत् ।
गुदनिःसरणं चापि शान्तिमायाति नान्यथा ॥८४॥

आरनालेन सम्पिष्टा सबीजा कटुतुम्बिका ।
सगुडा हन्ति लेपेन दुर्नामानि समूलतः ॥८५॥

पीलुतैलेन संलिप्ता वर्तिका गुदमध्यगा ।
घातयत्यर्शसां शीघ्रं सकलां वेदनां तथा ॥८६॥

अर्कक्षीरं स्नुहीकांडं कटुलावुपत्रकम् ।
करंजं छागमूत्रेण लेपः स्राव्यर्शसां हितः ॥८७॥

शिग्रुमूलार्कजैः पत्रैर्लेपनं हितमर्शसाम् ॥८८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:12.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

target and commitment schedule

  • लक्ष्य व बांधिलकी अनुसूची 
RANDOM WORD

Did you know?

जर सर्व प्राण्य़ांचा आत्मा एकच असेल तर प्राणी पक्ष्यांची भुते होतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.