TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसरत्नसमुच्चय - अध्याय ५

श्रीशालिनाथ कृत रसरत्नसमुच्चय रसचिकित्सा का सर्वांगपूर्ण ग्रन्थ है । इसमें रसों के उत्तम उपयोग तथा पारद-लोह के अनेक संस्कारों का उत्तम वर्णन है अतएव समाज में यह बहुपयोगी सिद्ध हो रहा है ।


अध्याय ५
शुद्धं लोहं कनकरजतं भानुलोहाश्मसारं पूतीलोहं द्वितयमुदितं नागवंगाभिधानम् ।
मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवर्तं धातुर् लोहे लुह इति मतः सोऽप्यनेकार्थवाची ॥१॥


स्वर्ण
प्राकृतं सहजं वह्निसम्भूतं खनिसंभवम् ।
रसेंद्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् ॥२॥


स्वर्ण-आयुर्वेदीय गुण
आयुर्लक्ष्मीप्रभाधीस्मृतिकरमखिलव्याधिविध्वंसि पुण्यं भूतावेशप्रशान्तिस्मरभरसुखदं सौख्यपुष्टिप्रकाशि ।
गाङ्गेयं चाथ रूप्यं गदहरमजराकारि मेहापहारि क्षीणानां पुष्टिकारि स्फुटमतिकरणं वीर्यवृद्धिप्रकारि ॥३॥


स्वर्ण-प्राकृत
ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु ।
तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् ॥४॥


स्वर्ण-सहज
ब्रह्मा येनावृतो जातः सुवर्णेन जरायुणा ।
तन्मेरुरूपतां यातं सुवर्णं सहजं हि तत् ॥५॥


स्वर्ण-वह्निसंभव
विसृष्टमग्निना शैवं तेजः पीतं सुदुःसहम् ।
अभूत्सर्वं समुद्दिष्टं सुवर्णं वह्निसंभवम् ॥६॥

एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् ।
धारणादेव तत्कुर्याच्छरीरमजरामरम् ॥७॥


स्वर्ण-खनिज
तत्र तत्र गिरीणां हि जातं खनिषु यद्भवेत् ।
तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥८॥

स्वर्ण-वेधज
रसेंद्रवेधसम्भूतं तद्वेधजमुदाहृतम् ।
रसायनं महाश्रेष्ठं पवित्रं वेधजं हि तत् ॥९॥

स्वर्ण-आयुर्वेदीय गुण
स्निग्धं मेध्यं विषगदहरं बृंहणं वृष्यमग्र्यं यक्ष्मोन्मादप्रशमनपरं देहरोगप्रमाथि ।
मेधाबुद्धिस्मृतिसुखकरं सर्वदोषामयघ्नं रुच्यं दीपि प्रशमितरुजं स्वादुपाकं सुवर्णम् ॥१०॥


स्वर्ण-अशुद्ध-आयुर्वेदीय गुण
सौख्यं वीर्यं बलं हन्ति रोगवर्गं करोति च ।
अशुद्धममृतं स्वर्णं तस्माच्छुद्धं च मारयेत् ॥११॥


स्वर्ण-चोलोउरिन्ग् (सुवर्णसम्पादन)
कर्षप्रमाणं तु सुवर्णपत्रं शरावरुद्धं पटुधातुयुक्तम् ।
अङ्गारसंस्थं प्रहरार्धमानं ध्मानेन तत्स्यान्ननु पूर्णवर्णम् ॥१२॥

लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना ।
मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ।

अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् ॥१३॥


स्वर्ण-मारण
कृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् ।
लुंगांबुभस्मसूतेन म्रियते दशभिः पुटैः ॥१४॥


स्वर्ण-मारण
द्रुते विनिक्षिपेत्स्वर्णे लोहमानं मृतं रसम् ।
विचूर्ण्य लुङ्गतोयेन दरदेन समन्वितम् ।
जायते कुंकुमच्छायं स्वर्णं द्वादशभिः पुटैः ॥१५॥


स्वर्ण-मारण
हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ।
पत्रे लिप्त्वा पुटैः पच्यादष्टभिर्म्रियते ध्रुवम् ॥१६॥


स्वर्ण-द्रावण
मंडूकास्थिवसाटंकहयलालेन्द्रगोपकैः ।

प्रतिवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥१७॥


स्वर्ण-द्रावण
चूर्णं सुरेन्द्रगोपानां देवदालीफलद्रवैः ।

भावितं सदृशं हेम करोति जलवद्द्रुतम् ॥१८॥


स्वर्ण-भस्मन्
एतद्भस्म सुवर्णजं कटुघृतोपेतं द्विगुंजोन्मितं लीढं हन्ति नृणां क्षयाग्निसदनं श्वासं च कासारुचिम् ।
ओजोधातुविवर्धनं बलकरं पाण्ड्वामयध्वंसनं पथ्यं सर्वविषापहं गरहरं दुष्टग्रहण्यादिनुत् ॥१९॥


स्वर्ण-अमारित-आयुर्वेदीय गुण
बलं च वीर्यं हरते नराणां रोगव्रजं कोपयतीव काये ।
असौख्यकारं च सदैव हेमापक्वं सदोषं मरणं करोति ॥२०॥


रजतं
सहजं खनिसंजातं कृत्रिमं त्रिविधं मतम् ।
रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरम् ॥२१॥


रजतं-सहज
कैलासाद्यद्रिसम्भूतं सहजं रजतं भवेत् ।
तत्स्पृष्टं हि सकृद्व्याधिनाशनं देहिनां भवेत् ॥२२॥


रजतं-खनिज
हिमालयादिकूटेषु यद्रूपं जायते हि तत् ।
खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् ॥२३॥


रजतं-पादरूप्य
श्रीरामपादुकान्यस्तं वंगं यद्रूप्यतां गतम् ।
तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत् ॥२४॥


रजतं-परीक्षा
घनं स्वच्छं गुरु स्निग्धं दाहे छेदे सितं मृदु ।

शंखाभं मसृणं स्फोटरहितं रजतं शुभम् ॥२५॥


रजतं-परीक्षा
दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु ।
स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यमष्टधा ॥२६॥


रजतं-आयुर्वेदीय गुण
रूप्यं विपाकमधुरं तुवराम्लसारं शीतं सरं परमलेखनकं च रूप्यम् ।
स्निग्धं च वातकफजिज्जठराग्निदीपि बल्यं परं स्थिरवयस्करणं च मेध्यम् ॥२७॥


रजतं-आयुर्वेदीय गुण (२)
रौप्यं शीतं कषायाम्लं स्निग्धं वातहरं गुरु ।
रसायनविधानेन सर्वरोगापहारकम् ॥२८॥


रजतं-शोधन
तैले तक्रे गवां मूत्रे ह्यारनाले कुलत्थजे ।
क्रमान्निषेचयेत्तप्तं द्रावे द्रावे तु सप्तधा ।
स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रशस्यते ॥२९॥


रजतं-अशुद्ध-आयुर्वेदीय गुण
आयुः शुक्रं बलं हन्ति तापविड्बन्धरोगकृत् ।
अशुद्धं न मृतं तारं शुद्धं मार्यमतो बुधैः ॥३०॥

रजतं-शोधन
नागेन टंकणेनैव वापितं शुद्धिमृच्छति ।
तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मतीभवे ॥३१॥


रजतं-शोधन
खर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् ।
तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् ॥३२॥

जातसीसक्षयं यावद्धमेत्तावत्पुनः पुनः ।
इत्थं संशोधितं रूप्यं योजनीयं रसादिषु ॥३३॥

रजतं-मारण
लकुचद्रवसूताभ्यां तारपत्रं प्रलेपयेत् ।
ऊर्ध्वाधो गन्धकं दत्त्वा मूषामध्ये निरुध्य च ॥३४॥

स्वेदयेद्वालुकायन्त्रे दिनमेकं दृढाग्निना ।
स्वांगशीतां च तां पिष्टिं साम्लतालेन मर्दिताम् ।
पुटेद्द्वादशवाराणि भस्मीभवति रूप्यकम् ॥३५॥


रजतं-मारण
माक्षीकचूर्णलुंगाम्लमर्दितं पुटितं शनैः ।
त्रिंशद्वारेण तत्तारं भस्मसाज्जायतेतराम् ॥३६॥


रजतं-निरुत्थीकरण
भाव्यं ताप्यं स्नुहीक्षीरैस्तारपत्राणि लेपयेत् ।
मारयेत्पुटयोगेन निरुत्थं जायते ध्रुवम् ॥३७॥


रजतं-मारण-निरुत्थ
तारपत्रं चतुर्भागं भागैकं शुद्धतालकम् ।
मर्द्यं जम्बीरजद्रावैस्तारपत्राणि लेपयेत् ॥३८॥

शोधयेद् अन्धयन्त्रे च त्रिंशदुत्पलकैः पचेत् ।
चतुर्दशपुटैरेवं निरुत्थं जायते ध्रुवम् ॥३९॥


रजतं, स्वर्ण-द्रावण
सप्तधा नरमूत्रेण भावयेद्देवदालिकाम् ।
तच्चूर्णावापमात्रेण द्रुतिः स्यात्स्वर्णतारयोः ॥४०॥


रजतं-आयुर्वेदीय
भस्मीभूतं रजतममलं तत्समौ व्योमभानू सर्वैस्तुल्यं त्रिकटु सवरं सारघाज्येन युक्तम् ।
लीढं प्रातः क्षपयतितरां यक्ष्मपाण्डूदरार्शः श्वासं कासं नयनजरुजः पित्तरोगानशेषान् ॥४१॥


चोप्पेर्
म्लेच्छं नेपालकं चेति तयोर्नेपालकं वरम् ।
नेपालादन्यखन्युत्थं म्लेच्छमित्यभिधीयते ॥४२॥

चोप्पेर्-म्लेच्छ-गुण
सितकृष्णारुणच्छायम् अतिवामि कठोरकम् ।
क्षालितं च पुनः कृष्णम् एतन्म्लेच्छकताम्रकम् ॥४३॥


चोप्पेर्-नेपाल-परीक्षा
सुस्निग्धं मृदुलं शोणं घनाघातक्षमं गुरु ।
निर्विकारं गुणश्रेष्ठं ताम्रं नेपालमुच्यते ॥४४॥


चोप्पेर्-परीक्षा-बद् ॠउअलित्य्
पाण्डुरं कृष्णशोणं च लघुस्फुटनसंयुतम् ।

रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि ॥४५॥


चोप्पेर्-आयुर्वेदीय गुण
ताम्रं तिक्तकषायकं च मधुरं पाकेऽथ वीर्योष्णकं साम्लं पित्तकफापहं जठररुक्कुष्ठामजन्त्वन्तकृत् ।
ऊर्ध्वाधः परिशोधनं विषयकृत् स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनम् ॥४६॥


चोप्पेर्-अशुद्ध-आयुर्वेदीय गुण
अशुद्धं ताम्रमायुर्घ्नं कान्तिवीर्यबलापहम् ।
वान्तिमूर्च्छाभ्रमोत्क्लेदं कुष्ठं शूलं करोति तत् ॥४७॥

उत्क्लेदभेदभ्रमदाहमोहास्ताम्रस्य दोषाः खलु दुर्धरास्ते ।
विशोधनात्तद्विगतस्वदोषं सुधासमं स्याद् रसवीर्यपाके ॥४८॥


चोप्पेर्-शोधन
ताम्रं क्षाराम्लसंयुक्तं द्रावितं दत्तगैरिकम् ।
निक्षिप्तं महिषीतक्रे छगणे सप्तवारकम् ।
पञ्चदोषविनिर्मुक्तं भस्मयोग्यं हि जायते ॥४९॥


चोप्पेर्-शोधन
ताम्रनिर्मलपत्राणि लिप्त्वा निम्ब्वम्बुसिन्धुना ।
ध्मात्वा सौवीरकक्षेपाद्विशुध्यत्यष्टवारतः ॥५०॥


चोप्पेर्-शोधन
निम्ब्वम्बुपटुलिप्तानि तापितान्यष्टवारकम् ।
विशुध्यन्त्यर्कपत्राणि निर्गुंड्यारसमज्जनात् ॥५१॥


चोप्पेर्-शोधन
गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना ।
शुध्यते नात्र संदेहो मारणं चाप्यथोच्यते ॥५२॥


चोप्पेर्-मारण
जम्बीररससम्पिष्टरसगन्धकलेपितम् ।
शुल्बपत्रं शरावस्थं त्रिपुटैर्याति पञ्चताम् ॥५३॥


चोप्पेर्-मारण
अथवा मारितं ताम्रमम्लेनैकेन मर्दितम् ।
तद्गोलं सूरणस्यान्ता रुद्ध्वा सर्वत्र लेपयेत् ॥५४॥

शुष्कं गजपुटे पच्यात्सर्वदोषहरं भवेत् ।
वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन ॥५५॥


चोप्पेर्-मारण
ताम्रपत्राणि सूक्ष्माणि गोमूत्रे पञ्चयामकम् ।
क्षिप्त्वा रसेन भाण्डे तद्द्विगुणं देहि गन्धकम् ॥५६॥

अम्लपर्णीं प्रपिष्याथ ह्यभितो देहि ताम्रकम् ।
सम्यङ् निरुध्य भाण्डे तमग्निं ज्वालय यामकम् ।
भस्मीभवति ताम्रं तद्यथेष्टं विनियोजयेत् ॥५७॥


चोप्पेर्-आयुर्वेदीय
सूताद् द्विगुणितं ताम्रपत्रं कन्यारसैः प्लुतम् ।
पिष्ट्वा तुल्येन बलिना भाण्डमध्ये विनिक्षिपेत् ॥५८॥

छन्नं शरावकेणैतत्तदूर्ध्वं लवणं त्यजेत् ।
मुखे शरावकं दत्त्वा वह्निं यामचतुष्टयम् ॥५९॥

अवचूर्ण्यैव तच्छुल्बं वल्लमात्रं प्रयोजयेत् ।
पिप्पलीमधुना सार्धं सर्वरोगेषु योजयेत् ॥६०॥

श्वासं कासं क्षयं पाण्डुमग्निमांद्यमरोचकम् ।
गुल्मप्लीहयकृन्मूर्च्छाशूलपक्त्यर्थम् उत्तमम् ॥६१॥

दोषत्रयसमुद्भूतानामयाञ्जयति ध्रुवम् ।
रोगानुपानसहितं जयेद्धातुगतं ज्वरम् ।
रसे रसायने ताम्रं योजयेद्युक्तमात्रया ॥६२॥


सोमनाथ
शुल्बतुल्येन सूतेन बलिना तत्समेन च ।
तदर्धांशेन तालेन शिलया च तदर्धया ॥६३॥

विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभाम् ।
यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ॥६४॥

कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् ।
प्रपचेद्यामपर्यन्तं स्वांगशीतं विचूर्णयेत् ॥६५॥

तत्तद्रोगहरानुपानसहितताम्रं द्विवल्लोन्मितं संलीढं परिणामशूलमुदरं शूलं च पाण्डुज्वरम् ।
गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद् ध्रुवम् इदं श्रीसोमनाथाभिधम् ॥६६॥


इरोन्
मुंडं तीक्ष्णं च कांतं च त्रिप्रकारमयः स्मृतम् ॥६७॥


मुण्ड
मृदु कुण्ठं कडारं च त्रिविधं मुण्डमुच्यते ॥६८॥


मृदु-गुण
द्रुतद्रावमविस्फोटं चिक्कणं मृदु तच्छुभम् ॥६९॥


कुण्ठ-गुण
हतं यत्प्रसरेद् दुःखात्तत्कुण्ठं मध्यमं स्मृतम् ॥७०॥


कडार-गुण
यद्धतं भज्यते भंगे कृष्णं स्यात्तत्कडारकम् ॥७१॥


मुण्ड-आयुर्वेदीय गुण
मुण्डं परं मृदुलकं कफवातशूलमूलाममेहगदकामलपाण्डुहारि ।
गुल्मामवातजठरार्तिहरं प्रदीपि शोफापहं रुधिरकृत्खलु कोष्ठशोधि ॥७२॥


इरोन्-अशुद्ध-आयुर्वेदीय गुण
अशुद्धलोहं न हितं निषेवणाद् आयुर्बलं कान्तिविनाशि निश्चितम् ।
हृदि प्रपीडां तनुते ह्यपाटवं रुजं करोत्येव विशोध्य मारयेत् ॥७३॥


तीक्ष्णलोह
खरं सारं च हृन्नालं तारावट्टं च वाजिरम् ।
काललोहाभिधानं च षड्विधं तीक्ष्णमुच्यते ॥७४॥


खरलोह-गुण
परुषं पोगरोन्मुक्तं भंगे पारदवच्छवि ।
नमने भङ्गुरं यत्तत्खरलोहमुदाहृतम् ॥७५॥
सार
वेगभङ्गुरधारं यत्सारलोहं तदीरितम् ।
पोगराभासकं पाण्डुभूमिजं सारमुच्यते ॥७६॥


हृन्नाल
कृष्णपाण्डुवपुश्चञ्चुबीजतुल्योरुपोगरम् ।
छेदने चातिपरुषं हृन्नालमिति कथ्यते ॥७७॥


पोगर
अङ्गक्षया च वङ्गं च पोगरस्याभिधात्रयम् ।
चिकुरं भङ्गुरं लोहात् पोगरं तत्परं मतम् ॥७८॥

वाजिर
पोगरैर्वज्रसंकाशैः सूक्ष्मरेखैश्च सान्द्रकैः ।
निचितं श्यामलाङ्गं च वाजीरं तत्प्रकीर्त्यते ॥७९॥


कालायस
नीलकृष्णप्रभं सान्द्रं मसृणं गुरु भासुरम् ।
लोहाघातेऽप्यभङ्गात्मधारं कालायसं मतम् ॥८०॥


तीक्ष्णलोह-खर-आयुर्वेदीय गुण
रूक्षं स्यात् खरलोहकं समधुरं पाकेऽथ वीर्ये हिमं तिक्तोष्णं कफपित्तकुष्ठजठरप्लीहामपांड्वर्तिनुत् ।
सद्यः शूलयकृद्गदक्षयजरामेहामवातापहं दीप्तं चातिरसायनं बलकरं दुर्नामदाहापहम् ॥८१॥

खरलोहात्परं सर्वमेकैकस्माच्छतोत्तरम् ॥८२॥


कान्त-
भ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा ।
एवं चतुर्विधं कान्तं रोमकान्तं च पञ्चमम् ॥८३॥


कान्त--मुख
एकद्वित्रिचतुष्पञ्चसर्वतोमुखम् एव तत् ।
कान्त
पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात्पृथक् पृथक् ।
क्रमेण देवतास्तत्र ब्रह्मविष्णुमहेश्वराः ॥८४॥

स्पर्शवेधि भवेत्पीतं कृष्णं श्रेष्ठं रसायने ।
रक्तवर्णं तथा चापि रसबन्धे प्रशस्यते ॥८५॥

भ्रामकं तु कनिष्ठं स्याच्चुम्बकं मध्यमं तथा ।
उत्तमं कर्षकं चैव द्रावकं चोत्तमोत्तमम् ॥८६॥


भ्रामक
भ्रामयेल्लोहजातं यत्तत्कान्तं भ्रामकं मतम् ॥८७॥

चुम्बयेच्चुम्बकं कान्तं कर्षयेत्कर्षकं तथा ॥८८॥


द्रावक
साक्षाद् यद्द्रावयेल्लोहं तत्कान्तं द्रावकं भवेत् ॥८९॥


रोमकान्त
तद्रोमकान्तं स्फुटिताद् यतो रोमोद्गमो भवेत् ॥९०॥


कान्त--मुख
कनिष्ठं स्यादेकमुखं मध्यं द्वित्रिमुखं भवेत् ।
चतुष्पञ्चमुखं श्रेष्ठमुत्तमं सर्वतोमुखम् ॥९१॥


कान्त-आयुर्वेदीय गुण
भ्रामकं चुम्बकं चैव व्याधिनाशे प्रशस्यते ।
रसे रसायने चैव कर्षकं द्रावकं हितम् ॥९२॥

मदोन्मत्तगजः सूतः कान्तम् अङ्कुशमुच्यते ॥९३॥


कान्त
क्षेत्रं ज्ञात्वा ग्रहीतव्यं तत्प्रयत्नेन धीमता ।
मारुतातपविक्षिप्तं वर्जयेन्नात्र संशयः ॥९४॥


कान्त-परीक्षा
पात्रे यस्य प्रसरति जले तैलबिन्दुर्न लिप्तो गन्धं हिङ्गुस्त्यजति च तथा तिक्ततां निम्बकल्कः ।
पाके दुग्धं भवति शिखराकारकं नैति भूमौ कान्तं लौहं तदिदमुदितं लक्षणोक्तं च नान्यत् ॥९५॥


कान्त-आयुर्वेदीय गुण
कान्तायोऽतिरसायनोत्तरतरं स्वस्थे चिरायुःप्रदं स्निग्धं मेहहरं त्रिदोषशमनं शूलाममूलापहम् ।
गुल्मप्लीहयकृत्क्षयामयहरं पाण्डूदरव्याधिनुत् तिक्तोष्णं हिमवीर्यकं किमपरं योगेन सर्वार्तिनुत् ॥९६॥

सम्यगौषधकल्पानां लोहकल्पः प्रशस्यते ।
तस्मात्सर्वप्रयत्नेन शुद्धं लोहं च मारयेत् ॥९७॥

नायः पचेत्पञ्चपलाद् अर्वाग् ऊर्ध्वं त्रयोदशात् ॥९८॥

आदौ मन्त्रस्ततः कर्म कर्तव्यं मन्त्र उच्यते ॥९९॥

ओं अमृतोद्भवाय स्वाहा अनेन मन्त्रेण लोहमारणम् ।
लक्षोत्तरगुणं सर्वं लोहं स्यादुत्तरोत्तरम् ।
कान्तं कोटिगुणं तत्र तदप्येवं गुणोत्तरम् ॥१००॥


इरोन्-शोधन
शशक्षतजसंलिप्तं त्रिवारं परितापितम् ।
मुण्डादिसकलं लोहं सर्वदोषान् विमुञ्चति ॥१०१॥


इरोन्-शोधन-गिरिदोष
क्वाथ्यमष्टगुणे तोये त्रिफलाषोडशं पलम् ।
तत्क्वाथे पादशेषे तु लोहस्य पलपञ्चकम् ॥१०२॥

कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् ।
एवं प्रलीयते दोषो गिरिजो लोहसम्भवः ॥१०३॥


इरोन्-शोधन-गिरिदोष
सामुद्रलवणोपेतं तप्तं निर्वापितं खलु ।
त्रिफलाक्वथिते नूनं गिरिदोषम् अयस्त्यजेत् ॥१०४॥


इरोन्-शोधन-गिरिदोष
चिञ्चाफलजलक्वाथादयो दोषम् उदस्यति ॥१०५॥


इरोन्-मारण-वारितर
यद्वा फलत्रयोपेतं गोमूत्रे क्वथितं क्षणम् ।
रेचितं घृतसंयुक्तं क्षिप्त्वायः खर्परे पचेत् ॥१०६॥

चालयेल्लोहदण्डेन यावत्क्षिप्तं तृणं दहेत् ।
पिष्ट्वा पिष्ट्वा पचेदेवं पञ्चवारमतः परम् ॥१०७॥

धात्रीफलरसैर् यद्वा त्रिफलाक्वथितोदकैः ।
पुटेल्लोहं चतुर्वारं भवेद्वारितरं खलु ॥१०८॥


इरोन्-मारण
स्नेहाक्तं लोहरजो मूत्रे स्वरसेऽपि रात्रिधात्रीणाम् ।
पृथगेवं सप्तकृत्वो भर्जितमखिलामये योज्यम् ॥१०९॥


तीक्ष्णलोह-मारण
तीक्ष्णलोहस्य पत्राणि निर्दलानि दृढेऽनले ।
ध्मात्वा क्षिपेज्जले सद्यः पाषाणोलूखलोदरे ॥११०॥

कण्डयेद्गाढनिर्घातैः स्थूलया लोहपारया ।
तन्मध्यात्स्थूलखण्डानि रुद्ध्वा मल्लद्वयान्तरे ॥१११॥

ध्मात्वा क्षिप्त्वा जले सम्यक् पूर्ववत्कण्डयेत्खलु ।
तच्चूर्णं सूतगन्धाभ्यां पुटेद्विंशतिवारकम् ॥११२॥

पुटे पुटे विधातव्यं पेषणं दृढवत्तरम् ।
एवं भस्मीकृतं लोहं तत्तद्रोगेषु योजयेत् ॥११३॥


कान्त-आयुर्वेदीय गुण
कान्तायः कमनीयकान्तिजननं पाण्ड्वामयोन्मूलनम् ।
यक्ष्मव्याधिनिबर्हणं गरहरं दोषत्रयोन्मूलनम् ।
नानाकुष्ठनिबर्हणं बलकरं वृष्यं वयःस्तम्भनम् ।
सर्वव्याधिहरं रसायनवरं भौमामृतं नापरम् ॥११४॥


इरोन-मारण
हिङ्गुलस्य पलान्पञ्च नारीस्तन्येन पेषयेत् ।
तेन लोहस्य पत्राणि लेपयेत्पलपञ्चकम् ॥११५॥

रुद्ध्वा गजपुटे पच्यात्कषायैस्त्रैफलैः पुनः ।
जम्बीरैरारनालैर्वा विंशत्यंशेन हिङ्गुलम् ॥११६॥

पिष्ट्वा रुद्ध्वा पचेल्लोहं तद्द्रवैः पाचयेत्पुनः ।
चत्वारिंशत्पुटैरेवं कान्तं तीक्ष्णं च मुण्डकम् ।
म्रियते नात्र संदेहो दत्त्वा दत्त्वैव हिङ्गुलम् ॥११७॥


तीक्ष्णलोह-मारण
अथ पूर्वोदितं तीक्ष्णं वसुभल्लकवासयोः ।
पुटितं पत्रतोयेन त्रिंशद्वाराणि यत्नतः ।
शोणितं जायते भस्म कृतसिन्दूरविभ्रमम् ॥११८॥


तीक्ष्णलोह-मारण
यद्वा तीक्ष्णदलोद्भूतं रजश्च त्रिफलाजलैः ।
पिष्ट्वा दत्त्वौदनं किंचिच्चक्रिकां प्रविधाय च ॥११९॥

शोषयित्वातियत्नेन प्रपचेत्पञ्चभिः पुटैः ।
रक्तवर्णं हि तद्भस्म योजनीयं यथायथम् ॥१२०॥


इरोन्-मारण-
मत्स्याक्षीगन्धबाह्लीकैर्लकुचद्रवपेषितैः ।
विलिप्य सकलं लोहं मत्स्याक्षीकल्कलेपितम् ॥१२१॥

भस्त्राभ्यां सुदृढं ध्मात्वा त्रिशूलीनिर्गमावधि ।
अथोद्धृत्य क्षिपेत्क्वाथे त्रिफलागोजलात्मके ॥१२२॥

तस्मादाहृत्य संताड्य मृतमादाय लोहकम् ।
पुनश्च पूर्ववद् ध्मात्वा मारयेदखिलायसम् ॥१२३॥

खण्डयित्वा ततो गन्धगुडत्रिफलया सह ।
पुटेत्त्रिंशतिवाराणि निरुत्थं भस्म जायते ॥१२४॥


इरोन्-मारण
समगन्धम् अयश्चूर्णं कुमारीवारिभावितम् ।
पुटीकृतं कियत्कालमवश्यं म्रियते ह्ययः ॥१२५॥


इरोन्-मारण
जम्बीररससंयुक्ते दरदे तप्तमायसम् ।
बहुवारं विनिक्षिप्तं म्रियते नात्र संशयः ॥१२६॥


इरोन्-मारण
गोमूत्रैस्त्रिफला क्वाथ्या तत्कषायेण भावयेत् ।
त्रिःसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्पुनः ॥१२७॥

रुद्ध्वा गजपुटे पच्याद्दिनं क्वाथेन मर्दयेत् ।
दिवा मर्द्यं पुटेद्रात्रावेकविंशद्दिनावधि ।
एकविंशत्पुटैरेवं म्रियते त्रिविधं ह्ययः ॥१२८॥


कान्तलोह-शोधन
यत्पात्राध्युषिते तोये तैलबिन्दुर्न सर्पति ।
तारेणावर्तते यत्तत्कान्तलोहं तनूकृतम् ॥१२९॥

अयसामुत्तमं सिञ्चेत्तप्तं तप्तं वरारसे ।
एवं शुद्धानि लोहानि पिष्टान्यम्लेन केनचित् ॥१३०॥

मृतसूतस्य पादेन प्रलिप्तानि पुटानले ।
पचेत्तुल्येन वा ताप्यगन्धाश्महरतेजसा ॥१३१॥

तप्तं क्षाराम्लसंलिप्तं शशरक्ते निधापितम् ।
कान्तलोहं भवेद्भस्म सर्वदोषविवर्जितम् ॥१३२॥


इरोन्-मारण
शुद्धं सूतं द्विधा गन्धं खल्लेन कृतकज्जलम् ।
द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥१३३॥

यामद्वयात्समुद्धृत्य यद्गोलं ताम्रपात्रके ।
आच्छाद्यैरंडपत्रैश्च यामार्धेऽत्युष्णतां व्रजेत् ॥१३४॥

धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत् ।
संपेष्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् ।
कान्तं तीक्ष्णं च मुंडं च निरुत्थं जायते मृतम् ॥१३५॥


धातु-मारण
स्वर्णादीन्मारयेदेवं चूर्णं कृत्वा च लोहवत् ।
सिद्धयोगो ह्ययं ख्यातः सिद्धानां सुमुखागतः ॥१३६॥

अनुभूतं मया सत्यं सर्वरोगजरापहम् ।
त्रिफलामधुसंयुक्तं सर्वरोगेषु योजयेत् ॥१३७॥

एतस्माद् अपुनर्भवं हि भसितं लोहस्य दिव्यामृतं सम्यक् सिद्धरसायनं त्रिकटुकीवेल्लाज्यमध्वन्वितम् ।
हन्यान्निष्कमितं जरामरणजव्याधींश्च सत्पुत्रदं दिष्टे श्रीगिरिशेन कालयवनोद्भूत्यै पुरा तत्पितुः ॥१३८॥


इरोन्-मृत-आयुर्वेदीय गुण
लोहं जन्तुविकारपाण्डुपवनक्षीणत्वपित्तामयस्थौल्यार्शोग्रहणीज्वरार्तिकफजिच्छोफप्रमेहप्रणुत् ।
गुल्मप्लीहविषापहं बलकरं कुष्ठाग्निमान्द्यप्रणुत् सौख्यालम्बिरसायनं मृतिहरं किट्टं च कान्तादिवत् ॥१३९॥

मृतानि लोहानि रसीभवन्ति निघ्नन्ति युक्तानि महामयांश्च ।
अभ्यासयोगाद् दृढदेहसिद्धिं कुर्वन्ति रुग्जन्मजराविनाशम् ॥१४०॥


कान्त-ओप्तिमल्-गुण
पक्वजम्बूफलच्छायं कान्तलोहं तदुत्तमम् ॥१४१॥


तीक्ष्ण-द्रावण
त्रिःसप्तकृत्वो गोमूत्रे जालिनीभस्मभावितम् ।
शोषयेत्तस्य वापेन तीक्ष्णं मूषागतं द्रवेत् ॥१४२॥


तीक्ष्ण-द्रावण
सुरदालिभस्म गलितं त्रिःसप्तकृत्वोऽथ गोजले शुष्कम् ।
वापेन सलिलसदृशं करोति मूषागतं तीक्ष्णम् ॥१४३॥


कान्त-द्रावण
सुरदालिभवं भस्म नरमूत्रेण गालितम् ।
त्रिःसप्तवारं तत्क्षारवापात् कान्तद्रुतिर् भवेत् ॥१४४॥


इरोन्-द्रावण
गंधकं कांतपाषाणं चूर्णयित्वा समं समम् ।
द्रुते लोहे प्रतीवापो देयो लोहाष्टकं द्रवेत् ॥१४५॥


इरोन्-द्रावण
देवदाल्या द्रवैर्भाव्यं गंधकं दिनसप्तकम् ।
तेन प्रवापमात्रेण लौहं तिष्ठति सूतवत् ॥१४६॥


इरोन्-अशुद्ध-आयुर्वेदीय गुण
अशुद्धलोहं न हितं निषेवणाद् आयुर्बलं कान्तिविनाशि निश्चितम् ।
हृदि प्रपीडां तनुते ह्यपाटवं रुजं करोत्येव विशोध्य मारयेत् ॥१४७॥

किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शतोन्मितम् ।
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणान् ।
तस्मात् कान्तं सदा सेव्यं जरामृत्युहरं नृणाम् ॥१४८॥

आयुष्प्रदाता बलवीर्यकर्ता रोगप्रहर्ता मदनस्य कर्ता ।
अयःसमानं न हि किंचिद् अन्यद्रसायनं श्रेष्ठतमं हि जन्तोः ॥१४९॥


मण्डूर
अक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः ।
सेचयेदक्षपात्रान्तः सप्तवारं पुनः पुनः ।
मण्डूरोऽयं समाख्यातश्चूर्णं श्लक्ष्णं प्रयोजयेत् ॥१५०॥


मण्डूर
गोमूत्रैस्त्रिफला क्वाथ्या तत्क्वाथे सेचयेच्छनैः ।
लोहकिट्टं सुसंतप्तं यावज्जीर्यति तत्स्वयम् ।
तच्चूर्णं जायते पेष्यं मण्डूरोऽयं प्रयोजयेत् ॥१५१॥


मुण्ड-मण्डूर-आयुर्वेदीय गुण
ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके ।
तस्मात्सर्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् ॥१५२॥


तिन्-
खुरकं मिश्रकं चेति द्विविधं वंगमुच्यते ।
खुरं तत्र गुणैः श्रेष्ठं मिश्रकं न हितं मतम् ॥१५३॥
खुर-मृत-परीक्षा
धवलं मृतं स्निग्धं द्रुतद्रावं सगौरवम् ।
मिश्रक-गुण
निःशब्दं खुरवंगं स्यात् मिश्रकं श्यामशुभ्रकम् ॥१५४॥


तिन्-आयुर्वेदीय गुण
वङ्गं तिक्तोष्णकं रूक्षमीषद् वातप्रकोपनम् ।
मेहश्लेष्मामयघ्नं च मेदोघ्नं कृमिनाशनम् ॥१५५॥


खुर-शोधन
द्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसे ।
विशुध्यति त्रिवारेण खुरवंगं न संशयः ॥१५६॥


मिश्रक-शोधन
अम्लतक्रविनिक्षिप्तं वर्षाभूविषतिन्दुभिः ।
कट्फलांबुगतं वंगं द्वितीयं परिशुध्यति ॥१५७॥


धातु-शोधन
शुध्यति नागो वंगो घोषो रविरातपेऽपि मुनिसंख्यैः ।
निर्गुण्डीरससेकैस्तन्मूलरजःप्रवापैश्च ॥१५८॥


तिन्-मारण
सतालेनार्कदुग्धेन लिप्त्वा वंगदलानि च ।
बोधिचिंचात्वचः क्षारैर्दद्याल्लघुपुटानि च ।
मर्दयित्वा चरेद्भस्म तद्रसादिषु शस्यते ॥१५९॥


तिन्-मारण
प्रद्राव्य खर्परे वंगं षोडशांशं रसं क्षिपेत् ।

स्वल्पस्वल्पालकं दत्त्वा भारद्वाजस्य काष्ठतः ।
मर्दयित्वा चरेद्भस्म तद्रसादिषु शस्यते ॥१६०॥


तिन्-मारण
पलाशद्रवयुक्तेन वंगपत्रं प्रलेपयेत् ।
तालेन पुटितं पश्चान्म्रियते नात्र संशयः ॥१६१॥


तिन्-मारण
भल्लाततैलसंलिप्तं वंगं वस्त्रेण वेष्टितम् ।
चिंचापिप्पलपालाशकाष्ठाग्नौ याति पञ्चताम् ॥१६२॥


तिन्
वंगभस्मसमं कान्तं व्योमभस्म च तत्समम् ।
मर्दयेत्कनकाम्भोभिर्निम्बपत्ररसैरपि ॥१६३॥

दाडिमस्य मयूरस्य रसेन च पृथक् पृथक् ।
भूपालावर्तभस्माथ विनिक्षिप्य समांशकम् ॥१६४॥

गोमूलकशिलाधातुजलैः सम्यग्विमर्दयेत् ।
ततो गुग्गुलतोयेन मर्दयित्वा दिनाष्टकम् ॥१६५॥

विशोष्य परिचूर्ण्याथ समभागेन योजयेत् ।
घृष्टं बन्धूकनिर्यासैर् नाकुलीबीजचूर्णकैः ॥१६६॥

ततः क्षिपेत्करण्डान्तर्विधाय पटगालितम् ।
गोतक्रपिष्टरजनीसारेण सह पाययेत् ॥१६७॥

चतुर्भिर् वल्लकैस्तुल्यं रम्यं वंगरसायनम् ।
निश्चितं तेन नश्यन्ति मेहा विंशतिभेदकाः ॥१६८॥

शालयो मुद्गसूपं च नवनीतं तिलोद्भवम् ।
पटोलं तिक्ततुण्डीरं तक्रं पथ्याय शस्यते ॥१६९॥


लेअद्-शुद्ध-परीक्षा
द्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् ।
पूतिगन्धं बहिः कृष्णं शुद्धं सीसमतोऽन्यथा ॥१७०॥


लेअद्-आयुर्वेदीय गुण
अत्युष्णं सीसकं स्निग्धं तिक्तं वातकफापहम् ।
प्रमेहतोयदोषघ्नं दीपनं चामवातनुत् ॥१७१॥


लेअद्-शोधन
सिन्दुवारजटाकौन्तीहरिद्राचूर्णकं क्षिपेत् ।
द्रुते नागेऽथ निर्गुण्ड्यास् त्रिवारं निक्षिपेद्रसे ।
नागः शुद्धो भवेदेवं मूर्छास्फोटादि नाचरेत् ॥१७२॥


लेअद्-मारण
तिर्यगाकारचुल्ल्यां तु तिर्यग्वक्त्रं घटं न्यसेत् ।
तं च वक्त्रं विना सर्वं गोपयेद्यत्नतो मृदा ॥१७३॥

भृष्टयन्त्राभिधे तस्मिन् पात्रे सीसं विनिक्षिपेत् ।
पलविंशतिकं शुद्धमधस्तीव्रानलं क्षिपेत् ॥१७४॥

द्रुते नागे क्षिपेत्सूतं शुद्धं कर्षमितं शुभम् ।
घर्षयित्वा क्षिपेत्क्षारमेकैकं हि पलं पलम् ॥१७५॥

अर्जुनस्याक्षवृक्षस्य महाराजगिरेरपि ।

दाडिमस्य मयूरस्य क्षिप्त्वा क्षारं पृथक् पृथक् ॥१७६॥

एवं विंशतिरात्राणि पचेत्तीव्रेण वह्निना ।
विघट्टयन्दृढं दोर्भ्यां लोहदर्व्या प्रयत्नतः ॥१७७॥

रक्तं तज्जायते भस्म कपोतच्छायमेव वा ।
नागं दोषविनिर्मुक्तं जायतेऽतिरसायनम् ॥१७८॥

लेअद्-मारण
हतमुत्थापितं सीसं दशवारेण सिध्यति ।
तन्मृतं सीसकं सर्वदोषमुक्तं रसायनम् ॥१७९॥


लेअद्-मारण-निरुत्थ
अश्वत्थचिंचात्वग्भस्म नागस्य चतुरंशतः ।
क्षिपेन्नागं पचेत्पात्रे चालयेल्लोहचाटुना ॥१८०॥

यामाद्भस्म तदुद्धृत्य भस्मतुल्या मनःशिला ।
जम्बीरैर् आरनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ॥१८१॥

स्वांगशीतं पुनः पिष्ट्वा विंशत्यंशशिलायुतम् ।
अम्लेनैव तु यामैकं पूर्ववत्पाचयेत्पुटे ।
एवं षष्टिपुटैः पक्वो नागः स्यात्सुनिरुत्थितः ॥१८२॥


लेअद्-मारण-निरुत्थ
शिलया रविदुग्धेन नागपत्राणि लेपयेत् ।
मारयेत्पुटयोगेन निरुत्थं जायते तथा ॥१८३॥


लेअद्
एवं नागोद्भवं भस्म ताप्यभस्मार्धभागिकम् ।
पादं पादं क्षिपेद्भस्म शुल्बस्य विमलस्य च ॥१८४॥

कान्ताभ्रसत्त्वयोश् चापि स्फटिकस्य पृथक् पृथक् ।
सर्वमेकत्र संचूर्ण्य पुटेत्त्रिफलवारिणा ॥१८५॥

त्रिंशद्वनगिरिण्डैश्च त्रिंशद्वारं विचूर्ण्य तत् ।
व्योषवेल्लकचूर्णैश्च समांशैः सह मेलयेत् ॥१८६॥

मध्वाज्यसहितं हन्ति प्रलीढं वल्लमात्रया ।
अशीतिवातजान्रोगान्धनुर्वातं विशेषतः ॥१८७॥

कफरोगानशेषांश्च मूत्ररोगांश्च सर्वशः ।
श्वासं कासं क्षयं पाण्डुं श्वयथुं शीतकज्वरम् ॥१८८॥

ग्रहणीमामदोषं च वह्निमान्द्यं सुदुर्जरम् ।
सर्वानुदकदोषांश्च तत्तद्रोगानुपानतः ॥१८९॥


ब्रस्स्-
रीतिका काकतुण्डी च द्विविधं पित्तलं भवेत् ॥१९०॥

रीतिका-परीक्षा
संताप्य कांजिके क्षिप्ता ताम्राभा रीतिका मता ॥१९१॥


काकतुण्डी-परीक्षा
एवं या जायते कृष्णा काकतुण्डीति सा मता ॥१९२॥


रीतिका-आयुर्वेदीय गुण
रीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत् ।
पाण्डुकुष्ठहरा योगात्सोष्णवीर्या च शीतला ॥१९३॥


काकतुण्डी-आयुर्वेदीय गुण
काकतुण्डी गतस्नेहा तिक्तोष्णा कफपित्तनुत् ।
यकृत्प्लीहहरा शीतवीर्या च परिकीर्तिता ॥१९४॥


ब्रस्स्-रीति-गुण
गुर्वी मृद्वी च पीताभा साराङ्गी ताडनक्षमा ।
सुस्निग्धा मसृणाङ्गी च रीतिरेतादृशी शुभा ॥१९५॥

रीति-परीक्षा
पाण्डुपीता खरा रूक्षा बर्बरा ताडनाक्षमा ।
पूतिगन्धा तथा लघ्वी रीतिर्नेष्टा रसादिषु ॥१९६॥


रीति-शोधन
तप्त्वा क्षिप्त्वा च निर्गुण्डीरसे श्यामारजोऽन्विते ।


पञ्चवारेण संशुद्धिं रीतिरायाति निश्चितम् ॥१९७॥


रीति-मारण
निम्बूरसशिलागन्धवेष्टिता पुटिताष्टधा ।
रीतिरायाति भस्मत्वं ततो योज्या यथायथम् ॥१९८॥


रीति-मारण
ताम्रवन्मारणं तस्याः कृत्वा सर्वत्र योजयेत् ॥१९९॥


ब्रस्स्
मृतारकूटकं कान्तं व्योमसत्त्वं च मारितम् ।
त्रयं समांशकं तुल्यं व्योषं जन्तुघ्नसंयुतम् ॥२००॥

ब्रह्मबीजाजमोदाग्निभल्लाततिलसंयुतम् ।

सेवितं निष्कमात्रं हि जन्तुघ्नं कुष्ठनाशनम् ।
विशेषाच्छ्वेतकुष्ठघ्नं दीपनं पाचनं हितम् ॥२०१॥


ब्रस्स्-द्रावण
सुवर्णरीतिकाचूर्णं भक्षितं वेष्टितं पुनः ।
छागेन कृष्णवर्णेन मत्तेन तरुणेन च ॥२०२॥

तल्लिप्तं खर्परे दग्धं द्रुतिं मुञ्चति शोभनाम् ।
चतुर्दशलसद्वर्णसुवर्णसदृशछविः ।
देहलोहकरी प्रोक्ता युक्ता रसरसायने ॥२०३॥


ब्रोन्शे
अष्टभागेन ताम्रेण द्विभागखुरकेण च ।
विद्रुतेन भवेत्कांस्यं तत्सौराष्ट्रभवं शुभम् ॥२०४॥


ब्रोन्शे-परीक्षा-गोओद् ॠउअलित्य्
तीक्ष्णशब्दं मृदु स्निग्धमीषच्छ्यामलशुभ्रकम् ।
निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते ॥२०५॥


ब्रोन्शे-परीक्षा-
तत्पीतं दहने ताम्रं खरं रूक्षं घनासहम् ।
मन्दनादं गतज्योतिः सप्तधा कांस्यमुत्सृजेत् ॥२०६॥


ब्रोन्शे-आयुर्वेदीय गुण
कांस्यं लघु च तिक्तोष्णं लेखनं दृक्प्रसादनम् ।
कृमिकुष्ठहरं वातपित्तघ्नं दीपनं हितम् ॥२०७॥

घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणाम् ।
भुक्तमारोग्यसुखदं हितं सात्म्यकरं तथा ॥२०८॥


ब्रोन्शे-शोधन
तप्तं कांस्यं गवां मूत्रे वापितं परिशुध्यति ॥२०९॥


ब्रोन्शे-मारण-निरुत्थ
म्रियते गन्धतालाभ्यां निरुत्थं पञ्चभिः पुटैः ॥२१०॥


ब्रोन्शे-मारण
त्रिक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् ।

कांस्यारकूटपत्राणि तेन कल्केन लेपयेत् ।
रुद्ध्वा गजपुटे पक्वं शुद्धभस्मत्वमाप्नुयात् ॥२११॥


वर्तलोह
कांस्यार्करीतिलोहाहिजातं तद्वर्तलोहकम् ।
तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतम् ॥२१२॥


वर्तलोह-आयुर्वेदीय गुण
हिमाम्लं कटुकं रूक्षं कफपित्तविनाशनम् ।
रुच्यं त्वच्यं कृमिघ्नं च नेत्र्यं मलविशोधनम् ॥२१३॥

तद्भाण्डे साधितं सर्वम् अन्नव्यञ्जनसूपकम् ।
अम्लेन वर्जितं चातिदीपनं पाचनं हितम् ॥२१४॥


वर्तलोह-शोधन
द्रुतमश्वजले क्षिप्तं वर्तलोहं विशुध्यति ॥२१५॥


वर्तलोह-मारण
म्रियते गन्धतालाभ्यां पुटितं वर्तलोहकम् ।
तेषु तेष्विह योगेषु योजनीयं यथाविधि ॥२१६॥


मेर्चुर्य्
जातिमद्भिर्विशुद्धैश्च विधिना परिसाधितैः ।
रसोपरसलोहाद्यैः सूतः सिध्यति नान्यथा ॥२१७॥

रत्नानि लोहानि वराटशुक्तिपाषाणजातं खुरशृङ्गशल्यम् ।
महारसाद्येषु कठोरदेहं भस्मीकृतं स्यात् खलु सूतयोग्यम् ॥२१८॥


भूनाग-सत्त्व
वज्राणां द्रावणार्थाय सत्त्वं भूनागजं ब्रुवे ।
तदेव परमं तेजः सूतराजेन्द्रवज्रयोः ॥२१९॥

धौतभूनागसम्भूतं मर्दयेद्भृंगजद्रवैः ।
निम्बूद्रवैश्च निर्गुण्ड्याः स्वरसैस्त्रिदिनं पृथक् ॥२२०॥

तद्द्रावणगणोपेतं संमर्द्य वटकीकृतम् ।
निरुध्य दृढमूषायां द्विदण्डं प्रधमेद् दृढम् ॥२२१॥

स्वतःशीतं समाहृत्य पट्टके विनिवेश्य तत् ।
रवकान् राजिकातुल्यान् रेणून् अतिभरान्वितान् ॥२२२॥

द्वादशांशार्कसंयुक्तान्धमित्वा रवकान्हरेत् ।
प्रक्षाल्य रवकानाशु समादाय प्रयत्नतः ॥२२३॥

वज्रादिद्रावणं तेन प्रकुर्वीत यथेप्सितम् ।
खरसत्त्वम् इदं प्रोक्तं रसायनमनुत्तमम् ।
द्वित्रिमूषासु चैकस्यां सत्त्वं भवति निश्चितम् ॥२२४॥


भूनाग-सत्त्व
भुजङ्गमानुपादाय चतुष्प्रस्थसमन्वितान् ।
सुवर्णरूप्यताम्रायस्कांतसंभूतिभूमिजान् ॥२२५॥

प्रक्षाल्य रजनीतोयैः शीतलैश्च जलैरपि ।
उपोषितं मयूरं वा शूरं वा चरणायुधम् ॥२२६॥

क्रमेण चारयित्वाथ तद्विष्ठां समुपाहरेत् ।
क्षाराम्लैः सह संपेष्य विशोष्य च खरातपे ॥२२७॥

ततः खर्परके क्षिप्त्वा भर्जयित्वा मषीं चरेत् ।
मषीं द्रावणवर्गेण संयुक्तां संप्रमर्दिताम् ॥२२८॥

निरुध्य कोष्ठिकामध्ये प्रधमेद् घटिकाद्वयम् ।

शीतलीभूतमूषायाः खोटमाहृत्य पेषयेत् ॥२२९॥

प्रक्षाल्य रवकान्सूक्ष्मान्समादाय प्रयत्नतः ।
सुवर्णमानवद् ध्मात्वा रवं कृत्वा नियोजयेत् ॥२३०॥


भूनाग-मुद्रिका
भूनागोद्भवसत्त्वमुत्तममिदं श्रीसोमदेवोदितं दत्तं पादमितं द्विशाणकनकेनैकं गतेनोर्मिकाम् ।
तद्धौताम्बुविलेपितं स्थिरचरोद्भूतं विषं नेत्ररुक् शूलं मूलगदं च कर्णजरुजो हन्यात् प्रसूतिग्रहम् ॥२३१॥


तैलपातन
मूलान्युत्तरवारुण्या जर्जरीकृत्य कांजिके ।
क्षिपेदङ्कोल्लबीजानां पेशिकां जर्जरीकृताम् ।
तत्तैलं घृतवत्स्त्यानं ग्राह्यं तत्तु यथाविधि ॥२३२॥
तैलपातन
संपेष्योत्तरवारुण्याः पेटकार्या दलान्यथ ।
काञ्जिकेन ततस्तेन कल्केन परिमर्दयेत् ॥२३३॥

रजश्चाङ्कोल्लबीजानां तद्बद्ध्वा विरलाम्बरे ।
तद्विलम्ब्यातपे तीव्रे तस्याधश्चषकं न्यसेत् ।
तस्मिन्निपतितं तैलमादेयं श्वित्रनाशनम् ॥२३४॥


तैल-पातन
अङ्कोल्लबीजसम्भूतं चूर्णं संमर्द्य काञ्जिकैः ।
एकरात्रोषितं तत्तु पिण्डीकृत्य ततः परम् ॥२३५॥

स्वेदयेत्कन्दुके यन्त्रे घटिकाद्वितयं ततः ।
तां च पिण्डीं दृढे वस्त्रे बद्ध्वा निष्पीड्य काष्ठतः ॥२३६॥

अधःपात्रस्थितं तैलं समाहृत्य नियोजयेत् ।
एवं कन्दुकयन्त्रेण सर्वतैलान्युपाहरेत् ॥२३७॥

अङ्कोलस्यापि तैलं स्यात्काकतुण्ड्या समूलया ॥२३८॥

तैल-पातन
वाकुचिदेवदाल्योश्च कर्कोटीमूलतो भवेत् ॥२३९॥


तैल-विषमुष्टि
अपामार्गकषायेण तैलं स्याद्विषमुष्टिजम् ॥२४०॥


तैल-जैपाल
मूलक्वाथैः कुमार्याश्च तैलं जैपालजं हरेत् ॥२४१॥


तैल-वाकुची
क्वाथै रक्तापामार्गस्य वाकुचीतैलमाहरेत् ॥२४२॥


तैल-पातन
कृष्णायाः काकतुण्ड्याश्च बीजचूर्णानि कारयेत् ।
कान्तपाषाणचूर्णं च एकीकृत्य निरोधयेत् ।
धान्यराशिगतं पश्चादुद्धृत्य तैलमाहरेत् ॥२४३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:10.5570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

offset drilling

  • अपस्थित वेधन 
RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site