संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - बुधभावाध्यायः

मानसागरी - अध्याय १ - बुधभावाध्यायः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


चन्द्रात्प्रथमगः सौम्यः सुखरुपं विना नरः ।

दुष्टभाषी मतिभ्रंशी स्थानभ्रष्टो दिनेदिने ॥१॥

चन्द्राद्वितीयगः सौम्यो धनधान्यसमाकुलः ।

गृहबन्धुधनप्राप्तिः शीतरोगैर्विनश्यति ॥२॥

चन्द्रात्सहजगः सौम्यः कुरुते चार्थसम्पदः ।

राज्यलाभो भवेत्तस्य महतां सङ्गमो ध्रुवम् ॥३॥

चन्द्राच्चतुर्थगः सौम्यः सर्वदा सुखकारकः ।

मातृपक्षे महालाभः सुखं जीवति मानवः ॥४॥

चन्द्रात्पञ्चमगः सौम्यो बुद्धिमांश्च विचक्षणः ।

रुपवांश्च महाकामी कुवाक्यं धारयेन्नरः ॥५॥

चन्द्रात्पञ्चमगः सौम्यः कृपणः कातरो भवेत् ।

विवादे च महाभीरु रोमशो दीर्घलोचनः ॥६॥

चन्द्रात्सप्तमगः सौम्यः स्त्रीणां च वशगो नरः ।

कृपणश्च धनाढ्यश्च बह्वायुश्च भविष्यति ॥७॥

चन्द्रादष्टमगे सौम्ये देहे शीतो भविष्यति ।

राजमध्ये प्रसिद्धश्च शत्रूणां च भयंकरः ॥८॥

चन्द्रान्नवमगः सौम्यः स्वधर्मस्य विरोधकः ।

अन्यधर्मरतः पुंसो विरोधी दारुणो भवेत् ॥९॥

चन्द्राद्दशमगः सौम्यो राजयोगी नरः सदा ।

कर्मराशौ यदा चन्द्रः कुटुम्बे नायको भवेत् ॥१०॥

चन्द्रादेकादशे सौम्यो लाभकारी पदेपदे ।

वर्ष एकादशे पुंसः पाणिग्राहो भविष्यति ॥११॥

चन्द्राद्वादशगः सौम्यः सर्वदा कृपणो भवेत् ।

तत्सुतस्य जयो नास्ति पराजयं लभेद्दिने ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP