संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - संवत्सरनामानि

मानसागरी - अध्याय १ - संवत्सरनामानि

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


प्रभवादिषष्टिसंवत्सरनामानि।

प्रभवो १ विभवः २ शुक्लः ३ प्रमोदोऽथ ४ प्रजापतिः ५ । अङ्गिराः ६ श्रीमुखो ७ भावो ८ युवा ९ धाता १० तथैव च ॥१॥

ईश्वरो ११ बहुधान्यश्च १२ प्रमाथी १३ विक्रमो १४ वृषः १५। चित्रभानुः १६ सुभानुश्च १७ तारणः १८ पार्थिवो १९ व्यव्यः २० ॥२॥

सर्वजित् २१ सर्वधारी च २२ विरोधी २३ विकृतिः २४ खरः २५ । नन्दनो २६ विजयश्चैव २७ जयो २८ मन्मथ २९ दुर्मुखौ ३० ॥३॥

हेमलंबी ३१ विलंबी च ३२ विकारी ३३ शार्वरी ३४ प्लवः ३५ । शुभकृत् ३६ शोभकृत् ३७ क्रोधी ३८ विश्वावसु ३९ पराभवौ ४० ॥४॥

प्लवङ्गः ४१ कील्कः ४२ सौम्यः ४३ साधारण ४४ विरोधकृत् ४५ । परिधावी ४६ प्रमादी च ४७ आनन्दो ४८ राक्षसो ४९ नलः ५० ॥५॥

पिङ्गलः ५१ कालयुक्तश्च ५२ सिद्धार्थी ५३ रौद्र ५४ दुर्मती ५५ । दुन्दुभी ५६ रुधिरोद्नारी ५७ रक्ताक्षी ५८ क्रोधनः ५९ क्षयः ६० ॥६॥ शाकेन्द्रकालः पृथगाकृतिघ्नः २२ शशाङ्कनन्दाश्वियुगैः ४२९१ समेतः

शराद्रिवस्विन्दु १८५७ हतः सलब्धः षष्टयाप्तशेषे प्रभवादयोऽष्टौ ॥१॥

शककालमारभ्य ये संवत्सरा गतास्ते पृथक् द्वितीयस्थाने स्थाप्याः तत आवृत्त्या द्वादिंशत्या २२ गुणयेत् । स गुणितो राशेः शशांकनंदाश्वियुगैः एकनवत्याधिकद्धाचत्वारिंशच्छतैः युक्तः कार्यः तं शराद्रिवस्विन्दुभिः पंचसप्ताधिकाष्टादशशतैर्भजेत् लब्धं वत्सराः ते बृहस्पतेराशयः । शेषं त्रिंशता संगुण्य तेनैव छेदेन ये भागा लभ्यंते ते राशीनामधः स्थाप्याः । शेषं षट्या संगुण्य तेनैव छेदेन कलाविकलाः अङ्कानामधः स्थाप्याः । ततः शककालः सलब्धः कार्यस्तेन वर्षादिना युक्तः कार्यः । वत्सरा वत्सरेषु क्षेप्याः शेषमधोधः स्थापयेत् । ततस्तस्य षट्या भागे हते प्रभवादयोऽब्दा गतवत्सरा भवंति । अधःस्थमंशादिवत्सरस्य गतं तदेव त्रिंशता विशोध्य वर्तमानवत्सरम्य गम्यमेवैतीति ॥१॥

अन्यप्रकारः ।

शाकं रामाक्षि २३ संयोज्य षष्टिभागेन हारयेत् ।

शेषं संवत्सरं ज्ञेयं लब्धं तत्परिवर्तकम् ॥१॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP