संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - तिथिफलम्

मानसागरी - अध्याय १ - तिथिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


क्रूरसङ्गो धनैर्हीनः कुलसन्तापकारकः ।

व्यसनासक्तचित्तश्च प्रतिपत्तिथिजो नरः ॥१॥

परदाररतो नित्यं सत्यशौचविवर्जितः ।

तस्करः स्नेहहीनश्च द्वितीयासंभवो नरः ॥२॥

अचेतनोऽतिविकलो निर्द्रव्यः पुरुषः सदा ।

परद्वेषरतो नित्यं तृतीयायां भवेन्नरः ॥३॥

महाभोगी च दाता च मित्रस्त्रेही विचक्षणः ।

धनसन्तायुक्तश्च चतुर्थ्या यदि जायते ॥४॥

व्यवहारी गुणग्राही पितृमात्रोश्च रक्षकः ।

दाता भोक्ता तनुप्रीतः पञ्चमीसंभवो नरः ॥५॥

नानादेशाभिगामी च सदा कलहकारकः ।

नित्यं जठरपोषी च षष्ठ्यां जातो भवेन्नरः ॥६॥

अल्पतोषी च तेजस्वी सौभाग्यगुणसंयुतः ।

पुत्रवान् धनसंपन्नः सप्तम्यां जायते नरः ॥७॥

धर्मिष्ठः सत्यवादी च दाता भोक्ता च वत्सलः ।

गुणज्ञः सर्वकार्यज्ञो ह्यष्टमीसंभवो नरः ॥८॥

देवताराधकः पुत्री धनस्त्रीसक्तमानसः ॥

शास्त्राभ्यासरतो नित्यं नवम्यां जायते यदि ॥९॥

दशम्यां धर्माधर्मज्ञो देवसेवी च याजकः ।

तेजस्वी सौख्यसंयुक्तो जायते मानवः सदा ॥१०॥

अल्पतोषी नरेन्द्रस्य गेहगामी शुचिर्भवेत् ।

धनी पुत्री भवेद्धीमानेकादश्यां भवेन्नरः ॥११॥

चपलश्चपलज्ञानी सदा क्षीणवपुः स्मृतः ।

देशभ्रमणशीलश्च द्वादशीजातको भवेत् ॥१२॥

महासिद्धो महाप्राज्ञः शास्त्राभ्यासी जितेन्द्रियः ।

परकार्यरतो नित्यं त्रयोदश्यां यदा भवेत् ॥१३॥

धनाढ्यो धर्मशीलश्च शूरः सद्वाक्यपालकः ।

राजमान्यो यशस्वी च चतुर्दश्यां यदा भवेत् ॥१४॥

श्रीमांश्च मतिमांश्चापि महाभोजनलालसः ।

उद्यतः परदारेषु ह्यासक्तः पूर्णिमाभवः ॥१५॥

स्थिरारम्भः परद्वेषी वक्रो मूर्खः पराक्रमी ।

मूढमन्त्री च सज्ञानोप्यमावास्याभवो नरः ॥१६॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP