संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - जन्मलग्नफलम्

मानसागरी - अध्याय १ - जन्मलग्नफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मेषलग्ने समुत्पन्नश्चण्डो मानी धनी शुभः ।

क्रोधी स्वजनहन्ता च विक्रमी परवत्सलः ॥१॥

वृषलग्नभवो लोके गुरुभक्तः प्रियंवदः ।

गुणी कृती धनी लोभी शूरः सर्वजनप्रियः ॥२॥

मिथुनोदयसंजातो मानी स्वजनवल्लभः ।

त्यागी भोगी धनी कामी दीर्घसूत्रोऽरिमर्दकः ॥३॥

कर्कलग्ने समुत्पन्नो भोगी धर्मजनप्रियः ।

मिष्टान्नपानसंयुक्तः सौभाग्यः सुजनप्रियः ॥४॥

सिंहलग्नोदये जातो भोगी शत्रुविमर्दकः ।

स्वल्पोदरोऽल्पपुत्रश्च सोत्साही रणविक्रमः ॥५॥

कन्यालग्ने भवेद्वलो नानाशास्त्रविशारदः ।

सौभाग्यगुणसंपन्नः सुन्दरः सुरतप्रियः ॥६॥

तुलालग्नोदये जातः सुधीः सत्कर्मजीविकः ।

विद्वान् सर्वकलाभिज्ञो धनाढ्यो जनपूजितः ॥७॥

वृश्चिकोदयसंजातः शौर्यवान्धनवान्सुधीः ।

कुलमध्ये प्रधानश्च प्राज्ञः सर्वस्य पोषकः ॥८॥

धनुर्लग्नोदये जातो नीतिमान् धर्मवान्सुधीः ।

कुलमध्ये प्रधानश्च प्राज्ञः सर्वस्य पोषकः ॥९॥

मकरोदयसंजातो नीचकर्मा बहुप्रजः ।

लुब्धो विनष्टोऽलसश्च स्वकार्येषु कृतोद्यमः ॥१०॥

कुंभलग्ने नरो जातोऽचलचित्तोऽतिसौदृदः ।

परदाररतो नित्यं मृदुकार्यो महासुखी ॥११॥

मीनलग्ने भवेब्दालो रत्नकाञ्चनपूरितः ।

अल्पकामोऽतिकृशश्च दीर्घकालविचिन्तकः ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP