संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - नवांशफलम्

मानसागरी - अध्याय १ - नवांशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


पिशुनश्चपलो दुष्टः पापकर्मा निराकृतिः ।

परेषां व्यसने सक्तः प्रथमांशे प्रजायते ॥१॥

उत्पन्नविभवो भोक्ता संग्रामे विगतस्पृहः ।

गान्धर्वप्रमदासक्तो द्वितीयांशे प्रजायते ॥२॥

धर्मिष्ठः सन्ततव्याधिः सर्वसारज्ञ एव च ।

सर्वज्ञो देवताभक्तसृतीयांशे प्रजायते ॥३॥

चतुर्थाशेऽभिजातस्तु दीक्षितो गुरुभक्तिमान् ।

यत्किंचिद्धरणौ वस्तु तत्सर्व लभते हि सः ॥४॥

सर्वलक्षणसंपन्नो राजा भवति विश्रुतः ।

दीर्घायुर्बहुपुत्रश्च जायते पञ्चमांशके ॥५॥

स्त्रीनिर्जितः शुभैर्हीनो बहुमानी नपुंसकः ।

अर्थध्वसी प्रमाथी च षष्ठांशे जायते नरः ॥६॥

विकान्तो मतिमाञ्छूरः संग्रामेष्वपराजितः ।

महोत्साही च संतोषी जायते सप्तमांशके ॥७॥

कृतघ्नो मत्सरी क्रूरः क्लेशभोगी बहुप्रजः ।

फलकाले परित्यागी जायते चाष्टमांशके ॥८॥

क्रियासु कुशलो दक्षः सुप्रतापी जितेन्द्रियः ।

भृत्यैश्च वेष्टितो नित्यं जायते नवमेंऽशके ॥९॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP