हिंदी सूची|हिन्दी अनुवादित साहित्य|स्तोत्रे|
सूर्यसहस्रनामस्तोत्रम्

सूर्यसहस्रनामस्तोत्रम्

सूर्य स्त्रोत (Surya Stotra) एक संस्कृत स्तोत्र है जो भगवान सूर्य ( सूर्य देव ) को समर्पित है।


ॐ आदित्यश्चादिदेवोऽयं भास्करो भवनाशनः ।

विश्वमूर्तिर्विश्वनेता चिन्मूर्तिश्चिन्तितार्थदः ॥१॥

सद्योजातो वामदेवस्सर्वपापविनाशकः ।

वेद्यो वैद्यस्सदायोगी विश्वकर्मा विभावसुः ॥२॥

विरिञ्चिर्विश्रुतात्मा च विश्वसर्गप्रवर्तकः ।

विद्यात्मा विषयज्ञश्च विश्वात्मा विश्वपापहा ॥३॥

विदुषामीश्वरो विद्वान्विश्वनेता विशेषवित् ।

वीरहा विषयश्शून्यो वालखिल्यादिवन्दितः ॥४॥

वामनो वरदः प्रांशुर्वासुदेवस्सनातनः ।

वालखिल्यपुरोगश्च वारिदो वसुमान्वसुः ॥५॥

वरेण्यो वासुदेवश्च वसुरेता वसुप्रदः ।

वायुर्वाचस्पतिर्विश्वं विष्णुर्विश्वामरेश्वरः ॥६॥

ओङ्कारश्च वषट्कारः सोमग्रहपुरोगमः ।

ग्रहनक्षत्रमाली च शिंशुमारशरीरवान् ॥७॥

शरण्यश्शङ्करश्शम्भुः कालात्मा कान्तिवर्धनः ॥

कामदेवः कामहर्ता विराड्वीरासनस्थितः ॥८॥

विस्तारभूमा भूतेशो विश्वगुप्तनुरीश्वरः ।

मन्देहरिपुरिन्दुश्च बिन्दुस्सुन्दरविग्रहः ॥९॥

सामगानप्रियस्साधुस्सत्यसन्धस्सदाशिवः ।

समात्मासन्धिरव्यक्तं साम्बस्सारसवर्धनः ॥१०॥

सूदस्सूक्ष्मस्सूक्ष्मकायस्सूक्ष्मदृक्सुदृगव्ययः ।

रथाङ्गहेतिरम्भोजवर्धनः सर्वसम्मतः ॥११॥

वज्रभृद्वत्सलो वाग्मी वागीशो वायुवाहनः ।

धर्मात्माऽधर्मशत्रुश्च कर्मसाक्षी परन्तपः ॥१२॥

पञ्चाननः पञ्चमूर्तिः पञ्चाङ्गी पापभञ्जनः ।

पराशरः पुण्यमूर्तिः पुरुहूतानुजः परः ॥१३॥

सनात्सर्वं सहस्सर्वस्सर्वगस्सर्वपोषकः ।

सप्ताश्वस्सप्तरज्जुश्च सप्तैधास्सप्तसारथिः ॥१४॥

सप्तप्रियस्सप्तदोग्धा मुञ्जिकेशो मुरान्तकः ।

शुकश्शुद्धश्शुभाचारस्सर्वबीजमनायकः ॥१५॥

कर्ता विकर्ता गहनो कारणं करणं महत् ।

अकुण्ठविक्रमश्शौरिर्वैकुण्ठो भगवान्भवः ॥१६॥

भानुर्हंसस्सहस्रांशुस्तपनस्सविता पिता ।

जातुकर्णो जयी ज्यायान् मीनाङ्गी सिंहपालकः ॥१७॥

एकोच्चस्सप्तनीचश्च षट्पतिर्मानवल्लभः ।

ऋतुस्सुदर्शनः कालः कुञ्जराननपूजितः ॥१८॥

द्विजोऽद्विजश्शुचिर्धीरः श्रीमान् मूर्तित्रयात्मकः ।

शिवङ्करः श्रीभूतेशस्सिन्धुरुच्चैश्श्रवा हरिः ॥१९॥

प्रद्मप्रबोधकः पद्मी पद्मगर्भः प्रभाकरः ।

अह्नाम्प्रभुर्दिनमणिदैतेयकुलमृत्युकृत् ॥२०॥

कला काष्ठा मुहूर्तात्मा दिनरात्रिशरीरवान् ।

पद्मापतिः परंधाम परमात्मा परायणम् ॥२१॥

निदानं नित्यमद्वैतं केवलं मुक्तिकारणम् ।

सर्वभूतशरीरस्थं चैतन्यं ब्रह्मनिर्गुणम् ॥२२॥

एको नैकः कृतिश्शान्तिर्मतिर्बुद्धिधृतिस्स्मृतिः ।

मन्त्रो यन्त्रं तथाक्षेत्रं क्षेत्रज्ञोऽक्षरसंज्ञिकः ॥२३॥

इन्द्रियाणामधिष्ठाता तत्त्वं तत्पुरुषाग्रणीः ।

अमायी मायिनामग्र्यो लोकस्वामी स्वराड्गुरुः ॥२४॥

प्राणदः प्रणवः प्राणो प्राप्तिसाधनमम्बरम् ।

जगन्मित्रं पवित्रं च देवानामपिदैवतम् ॥२५॥

सिन्धुनिद्राद्धिरण्याङ्गो सैंहिकेयविशोधितः ।

विषुवच्चायनं कान्तिश्चन्द्रोत्पत्त्ययनं ग्रहः ॥२६॥

दिगीशो देववृन्देशो नक्षत्रेशो धनेश्वरः ।

सूर्यवर्चास्सूरिराद्यस्सूर्यापतिरुमाधवः ॥२७॥

विभाकरो द्वादशात्मा कपिलः कपिशिक्षकः ।

कपितातः कपिः पिङ्गः पङ्गुकालपिता हरः ॥२८॥

विविक्तस्सागरस्सेतुस्ताम्रस्ताम्ररथो रथी ।

मेरुप्रभस्सुमेरुश्च बुधनुन्नरथो भवः ॥२९॥

सहस्रप्रग्रहो धन्वी मेधावी श्रुतिसागरः ।

भिषक्पिता भिषक्सारो भैषजं भवरोगहृत् ॥३०॥

जन्मादिश्शास्त्रयोनिश्च विज्ञानं ज्ञानमेव च ।

ज्ञाता ज्ञेयं स्फुटस्फूर्तिरनीशो नाहविर्नृपः ॥३१॥

अविच्छिन्नान्वयश्शास्ता रामो राजीवलोचनः ।

गायत्रीवल्लभः प्रांशुर्गेयो गाता गुणार्णवः ॥३२॥

सत्यमेधास्समाम्नायस्सन्धाता कश्यपात्मजः ।

सर्वधर्ममयस्साक्षी चित्कूटनिलयोऽनलः ॥३३॥

चिरन्तनश्चिदात्मा च वैशाखशिखिवाहनः ।

अश्वत्थः कुशनाभश्च साम्राज्यं जगदीश्वरः ॥३४॥

दीप्तमूर्तिमहामूर्तिस्सुतपाः ऋतुभुक्पशुः ।

यज्वा जाज्ज्वल्यदेहश्च शत्रुमण्डलखण्डनः ॥३५॥

शरारुध्वंसकश्शास्ता शास्त्रयोनिर्निरञ्जनः ।

अनिन्द्यो निन्द्यविध्वंसी विश्वामित्रवरप्रदः ॥३६॥

विध्यर्थबोधको भानुर्विन्ध्यवीथी प्लवङ्गमः ।

तत्पदार्थोऽहंपदार्थस्तत्त्वमस्यर्थबोधकः ॥३७॥

त एते त्वमहं देवयक्षरक्षोभयङ्करः ।

मृत्युञ्जयः पाकभेदी सुषुम्नातालशोभितः ॥३८॥

सहस्राराम्बुजारूढो कर्णिकामध्यमण्डपः ।

गुहाशयश्शिवस्स्थाणुर्गोप्ता गुणपतिर्गिरिः ॥३९॥

गोमूर्तिस्सर्वदेवात्मा सर्वसन्ध्याप्रवर्तकः ।

ज्योतिष्मानिन्द्रशर्मा च चिदानन्दो दिगम्बरः ॥४०॥

किरीटी कवची खड्गी शङ्खी शार्ङ्गी च पद्मकः ।

वेत्री शूली निषङ्गी च तापनस्तपतां वरः ॥४१॥

शङ्करश्चारुसर्वाङ्गस्सर्वबन्धविमोचकः ।

महात्मा चारुसर्वाङ्गस्सर्वभूषणभूषितः ॥४२॥

भक्तेप्सितार्थसन्धानकल्पवृक्षः ककुत्पतिः ।

बन्धूककुसुमप्रख्यस्सर्वशस्त्रभृतां वरः ॥४३॥

ब्रह्मण्यो ब्राह्मणो ब्राह्मी राजर्षिरमितप्रभः ।

सनातनवरस्सोमस्सर्वतत्त्वावलम्बनः ॥४४॥

महापातालसम्मान्यो मानिनामग्रणीर्महान् ।

सिद्धार्थकृत्सिद्धगुह्यः सिद्धानामुत्तमागतिः ॥४५॥

लोकनाथो विभानाथो माठरो मधुवल्लभः ।

तीक्ष्णांशुस्तीर्थगर्भश्च श्वेतलोहितवाहनः ॥४६॥

कर्म कर्मविदां नेता सदावरणमण्डलः ।

सहस्रगुरनन्तात्मा विशिष्टश्शिष्टपोषकः ॥४७॥

दिव्यमूर्तिर्देवसिंहो दिविषत्प्रवरो दमः ।

विशालाक्षश्श्रीमूर्तिर्विश्वभ्भरविभावसुः ॥४८॥

मूर्धन्वदिष्टदायी च कृतिचिन्तानिवर्तकः ।

गन्धर्वगणगोप्ता च वस्वादिगणवन्दितः ॥४९॥

ग्रहपो ग्रहनेता च ग्रन्धिबन्धविभञ्जनः ।

ग्रसिष्णुर्ग्रहगोप्ता च ग्राही ग्राह्यशरीरभाः ॥५०॥

तपस्वी तापसश्शोच्यो तरणिर्द्युमणिर्मणिः ।

चिन्तामणिर्दिनमणिर्ज्योतिर्मणिरजेश्वरः ॥५१॥

छन्दोमयश्शास्त्रमयस्सर्वकान्तिखनिर्मनुः ।

अनूरुसारथिः पीलो पैप्पलो त्रिविलोचनः ॥५२॥

त्रिशिखी ब्राह्मणमयो ज्योतिस्सिद्धान्तबोधनः ।

त्रिनामा त्रिशरीरश्च त्रिकाण्डश्चण्डदीधितिः ॥५३॥

मुक्तिद्वारं मुनिवरो महोरस्को महामनाः ।

अन्नपात्रप्रदाता च विष्णुचिन्तापरः पुमान् ॥५४॥

आपदामपहर्ता च रोगकाण्डदवानलः ।

निवृत्तात्मा समावृत्तो चक्षुरिन्द्रियदेवता ॥५५॥

तपोमयस्तप्ततनुः पूषा पूषादिवन्दितः ।

सर्वजन्तुशरण्यश्च बह्वृचो बहुदायकः ॥५६॥

कृष्णात्मा कमनीयश्च सर्ववेदविभागकृत् ।

कर्णो विकर्णः कान्तश्च बहुभोजी बहुप्रियः ॥५७॥

दक्षिणो दक्षिणामूर्तिर्दयावान् दम्भवर्जितः ।

सद्भूतिः कोशगः कोशी सर्वसिद्धिपरायणः ॥५८॥

शिवदेहश्शिवात्मा च शिवदेहश्शिवप्रदः ।

वाराणसीवासपरो हंसतीर्थप्रवर्तकः ॥५९॥

सूर्यलिङ्गप्रतिष्ठाता सोमकान्तिविवर्धनः ।

सुग्रहस्सुखदस्सूक्ष्मस्खरसस्वारित एवच ॥६०॥

सङ्ख्यावान्सर्वसंसारी सूरिः परपुरञ्जयः ।

कृतागमः कृतविधिः कृतशास्त्रः कृताह्निकः ॥६१॥

राजा राजद्वितीयश्च ग्रहराजः प्रमाणवित् ।

बाडवो बाडवामूलं हव्यं कव्यं पितृप्रियः ॥६२॥

समाधिवेत्ता सारार्थस्सारदृक्शारदाप्रियः ।

रक्तपुष्पार्चनीयश्च रक्तगन्धाक्षतप्रियः ॥६३॥

परार्थ्यार्थ्यः पूर्णकान्तिः कृततत्त्वार्थनिर्णयः ।

निखिलप्राणनिलयो नित्यमेरुप्रदक्षिणः ॥६४॥

पूर्णः पूर्णयिता पूज्यः परमान्नकृतादरः ।

परहिंसादिरहितो गुरुमूर्तिर्गतिप्रदः ॥६५॥

गोपालो लोकपालश्च सर्वस्सर्वस्वमच्युतः ।

मरुदीशो मरुच्चक्षुर्मित्रो हृत्तापनाशकः ॥६६॥

हृद्रोगहारी कौमारी हरिमादिविनाशकः ।

उत्तरां दिवमारूढो हारिद्रः कोकनायकः ॥६७॥

ह्रीं बीजमध्यनिलयो नवनाथविवर्धनः ।

योगिनीवन्द्यचरणो बलिग्रहणतत्परः ॥६८॥

नित्यकल्याणनिलयो कल्याणाचलसेवकः ।

कल्याणदानः कल्पात्माऽत्युग्रो रिपुभयङ्करः ॥६९॥

भूतिकृद्भूतिभृद्भूतिर्भूतभावनपूर्वजः ।

त्रियुगश्च त्रिपृष्ठश्च त्रिपान्मूर्तित्रयात्मकः ॥७०॥

सर्वविघ्नविनाशी च सर्वबन्धविमोचकः ।

त्रिशिरास्त्रिप्रलम्बश्च त्रिदंष्ट्रस्त्रिचतुर्गतिः ॥७१॥

कुजमित्रं पितृपतिः पितृकारक एव च ।

शुभाङ्गो लोकसारङ्गस्सारङ्गोऽरुणसारथिः ॥७२॥

पुण्यश्लोकः पुण्यदायी पुण्यकारी पुरातनः ।

विजयो विष्णुराजश्च विष्णुरातो भवादिहृत् ॥७३॥

वदान्यश्च विराड्रूपी विद्यानाथो विधिर्विधुः ।

प्रशस्तगुणसिन्धुश्च बन्धुर्वेदान्तवेदिनाम् ॥७४॥

तत्त्वार्थमाता ताम्राश्वस्तरुणस्तडिदुज्ज्वलः ।

तीर्णदुःखस्तीव्रवेगो चन्दनद्युतिरात्मवान् ॥७५॥

अर्कपर्णस्नानतोषी वीतिहोत्रादिदैवतः ।

एकाक्षश्चैकचक्रश्च स्वतेजोभास्स्वयम्प्रभः ॥७६॥

परागतिः पिण्डजानामण्डजानां भयावहः ।

क्रूरव्रतः क्रूरकल्पो तामसः परवीरहा ॥७७॥

षट्पल्लवविधानज्ञष्षट्पल्लववरप्रदः ।

श्रुतिपादपसञ्चारी कोकिलः कमलाश्रयः ॥७८॥

कुष्ठव्याधिविनाशी च दुष्टपीडानिबर्हणः ।

धृतपद्मद्वयो योद्धा तेजोमण्डलमध्यगः ॥७९॥

सर्वाधिव्याधिशमनो सर्वतापालितापनः ।

सर्वसाक्षी सदुदयः स्वाष्टाक्षर्यधिदेवता ॥८०॥

स्फोटादिदोषहारी च गुल्मदुःखप्रभञ्जनः ।

योजनार्बुदसञ्चारी सालोक्यादिप्रदः पिता ॥८१॥

खेटः कृपीटदायी च नग्नो नलिनवल्लभः ।

कुन्तीप्रसन्नः कौबेरः श्रीवक्षाः श्रीनिकेतनः ॥८२॥

अरुणोऽरुणकेतुश्च युद्धप्रेतगतिप्रदः ।

संज्ञामनोनुकूलश्च महेन्द्रकृतपूजनः ॥८३॥

गरुडाग्रजसूतश्च सस्यालिसुहृदूर्मिकृत् ।

गोधूमधान्यनाथश्च वर्तुलाकारमण्डलः ॥८४॥

रुद्रप्रत्यधिदेवश्च हस्तनक्षत्रनायकः ।

गुञ्जापुञ्जप्रतीकाशः पवित्रीकृतवृत्रहा ॥८५॥

कालिन्दीजनकश्चैव गोब्राह्मणहिते रतः ।

इन्द्रो वृद्धश्रवाः पूषा विश्ववेदाः प्रजापतिः ॥८६॥

अग्निर्वायुश्च सूर्यश्च वाय्वश्वो रश्मिपालकः ।

मरीच्यात्मा भुवनसूरद्रोही पुत्रदायकः ॥८७॥

महानाम्नीव्रतहितो महामानोपराक्षसः ।

आदित्योऽदितिदेवश्च दितिदेवो दिवस्पतिः ॥८८॥

व्योमसन्दृग्विमानस्थो सुमृडीकस्सरोविभुः ॥

स्मृतिप्रत्यक्षमैतिह्यमनुमानं विधायकः ॥८९॥

सतैस्सर्वैस्समाविष्टोऽणुर्महानधिवत्सरः ।

पटरो विक्लिधः पिङ्गः प्रदर्शी चोपदर्शकः ॥९०॥

नानामुखश्चैव शीर्षो ऋतुलक्षणलक्षितः ।

शुक्लात्मा दक्षिणः पक्षः कृष्णात्मा वामपक्षकः ॥९१॥

अहोद्यौर्विषुरूपी च विश्वावनविशेषवित् ।

अपशुश्चापशुघ्नश्च नपशुः पशुपालकः ॥९२॥

संवत्सरप्रियतमः प्रत्यक्षज्ञेयमण्डलः ।

षडुद्यमस्सप्तयात्रो विनादी चाभिधावकः ॥९३॥

षष्टिवल्गस्सार्ष्टिकश्च प्रैषकृत्प्रथमस्स्मृतः ।

अघोराक्षस्सदोनादी वाक्प्रयोजक एव च ॥९४॥

संवत्सरीणः कर्मफलपद्मापीत इवोज्ज्वलः ।

कनकोज्ज्वलवासाश्च अहताम्बर एव च ॥९५॥

कपर्दी विशिखश्चैव वातवान्मरुतां मुखम् ।

क्षपणो योत्स्यमानश्च हेमचक्षुरकोपनः ॥९६॥

अपध्वस्तश्च सन्नद्धस्सहदृग्जीवनप्रदः ।

न देवो न मनुष्यश्च नाग्निर्नेन्द्रो न मारुतः ॥९७॥

नोपमो रुद्रधन्वा च कर्मब्रह्मप्रपञ्चकः ।

ऋतुभिस्सन्नुतस्स्वामी सर्वकामधुगव्ययः ॥९८॥

आरोग्यस्थानभा भ्राजः पटरस्थानभा अपि ।

सप्तसूर्यार्पितश्चैव कश्यपो मेर्वमोचकः ॥९९॥

वात्स्यायनः पञ्चकर्णो सप्तहोता च ऋक्पतिः ।

तस्थिवाञ्जगदात्मा च वैशम्पायन एव च ॥१००॥

अनम्भा अम्भसां मूलमग्निवायुपरायणम् ।

कश्यपस्यातिथिश्चैव सिद्धागमन एव च ॥१०१॥

नम उक्तिप्रियः पुण्यो अजिराप्रभुरेव च ।

नर्यापाः पङ्क्तिराधाश्च विसर्पी नीललोहितः ॥१०२॥

नीलार्चिः पीतकार्चिश्च वायुरेकादशात्मकः ।

वासुकिवैद्युतश्चैव रजतः परुषादिकः ॥१०३॥

नासत्यजनकश्चैव शाम्बरश्चापपूरुषः ।

सुब्रह्मण्यश्च सूरीन्द्रो गौतमः कौशिकीपतिः ॥१०४॥

अग्निश्च जातवेदाश्च सहोजा अजिराप्रभुः ।

कः किं कं तत्सत्यमन्नममृतो जीव एव च ॥१०५॥

व्ययजन्मानुजन्मोऽग्रस्सप्तसप्तकदृष्टिभाक् ।

भानुर्विधुश्च भौमश्च चन्द्रसूनुश्च गीष्पतिः ॥१०६॥

उशना सूर्यसूनुश्च तमः केतुस्तथाद्रिभृत् ।

अर्धप्रहारो गुलिको यमकण्टक एव च ॥१०७॥

कारको मारकश्चापि पोषकस्तोषकस्तथा ।

पश्चाल्लत्तः पुरोलत्तः पार्श्वलत्तस्तथैव च ॥१०८॥

आकाशग्रहसंसेव्यो धूमकेतुविजृम्भणः ।

भूकम्पनादिहेतुश्च रक्तवृष्टिविधायकः ॥१०९॥

गर्जन् पर्जन्यरूपी च दुर्जयो दुरतिक्रमः ।

निर्जराराध्यचरणो जरामरणवर्जितः ॥११०॥

वियद्गमनजङ्घालो वीतिहोत्रसमप्रभः ।

विरिञ्चिगर्भसम्भूतो विषव्यालविनाशकृत् ॥१११॥

श्रीपुष्टिकीर्तिसन्दायी नमतां नमनप्रियः ।

वेदाध्ययनसम्पन्नो वेदान्तेषु च निष्ठितः ॥११२॥

शब्दशास्त्रप्रणेता च शब्दब्रह्ममयः परः ।

अर्थब्रह्ममयोऽर्थार्थी स्वार्थिनामर्थदायकः ॥११३॥

जपयज्ञस्तपोयज्ञो दानयज्ञस्तथैव च ।

स्वाध्याययज्ञो धर्मज्ञो नीतिज्ञो विज्ञ एव च ॥११४॥

गुहाशायी गुहाभेदी साक्षान्मन्मथमन्मथः ।

मञ्जुदेहो मञ्जुकान्तिर्महिमातिशयोज्ज्वलः ॥११५॥

मित्रविन्दावन्द्यपादो मुनिवृन्दावने हितः ।

ब्रह्मचारी सुमेधाश्च ऊर्ध्वरेतास्तपोमयः ॥११६॥

ऐङ्कारनिलयो वाग्मी वागर्थप्रद एव च ।

ह्रीङ्कारनिलयो मायी इन्द्रजालादितत्त्ववित् ॥११७॥

श्रीङ्कारनिलयश्श्रीमान् धनदो धनवर्धनः ।

श्रीचक्रराजनिलयः श्रीदेवीकर्णभूषणम् ॥११८॥

क्लीङ्कारमध्यनिलयः कामराजवशङ्करः ।

सौश्शक्तिसहितो ज्ञानदानदक्षः प्रकाशकः ॥११९॥

परमात्मान्तरात्मा च जीवात्मा च नियामकः ।

हृदयग्रन्थिभेत्ता च सर्वसंशयनाशनः ॥१२०॥

ब्रह्मव्याख्याननिपुणो यज्ञदीक्षाधुरन्धरः ।

दौर्भाग्यतूलवातूलो जराध्वान्तनिवर्तकः ॥१२१॥

द्वैतमोहविनाशी च भेदवादिविभेदनः ।

वीरभद्रमतध्वंसी वीराराध्यनिबर्हणः ॥१२२॥

कापालिमतकोपी च मीमांसान्यायतत्परः ।

कार्तान्तिकवरस्सर्वकार्तान्तिकपरायणः ॥१२३॥

जङ्गमाजङ्गममयो जानकीपूजितः पुरा ।

इक्ष्वाकुवंशनाथश्च इन्दिरास्थानसुन्दरः ॥१२४॥

विद्याविनयविज्ञान त्रयीताण्डवमण्डपः ।

रामचन्द्रकुलाम्भोधिः कामिनीकामदायकः ॥१२५॥

सङ्गीतशास्त्रनिपुणः सर्वविद्याप्रवर्तकः ।

राजग्रहोऽधिकारी च राजराजेश्वरीप्रियः ॥१२६॥

राज्यं भौज्यं च साम्राज्यं वैराज्यं राज्यमेव च ।

गौः पञ्चगव्यं शुद्धात्मा चान्द्रायणफलप्रदः ॥१२७॥

कृच्छ्रादिफलदायी च दारिद्र्यभयनाशनः ।

दुःखार्णवोत्तारकश्च दुरितवातखण्डनः ॥१२८॥

ब्रह्महत्यादिविध्वंसी भ्रूणहत्यानिबर्हणः ।

गुरुद्रोहादिशमनो मातृगामिवधोद्यतः ॥१२९॥

पञ्चास्त्रशस्त्रमेघालिझञ्झावातो झषादिकः ।

चित्रगुर्दानशौण्डश्च सिंहसंहननो युवा ॥१३०॥

वैधव्यबाधाशमनो विधवानां गतिप्रदः ।

रजोदोषविनाशी च कृतपक्वान्नगर्हणः ॥१३१॥

पट्टाभिषिक्तभक्तालिर्दुष्टमत्तेभकेसरी ।

अनर्गलगतिगूढो गोमतीतीरपुण्यकृत् ॥१३२॥

जरायुदोषहारी च पूर्णायुर्योगकारकः ।

भक्ताब्जपूर्णचन्द्रश्च धर्ममार्गप्रवर्तकः ॥१३३॥

सौवर्गसुखहेतुश्च निरयध्वंसदीक्षितः ।

भ्रमन्मण्डलसंस्थानो भ्रान्तिपित्तादिरोगहृत् ॥१३४॥

मेहादिरोगशमनो पाण्डुक्षयविनाशनः ।

पापवेतालमन्त्रज्ञो पापकृज्जनदुर्लभः ॥१३५॥

ज्वरादिदोषदूरश्च विज्वरीकृतभूसुरः ।

मोक्षनिश्रेणिकासाक्षी दाक्षायण्यादिसेवकः ॥१३६॥

भावुको भद्रकरुणमश्विनीपुष्करोज्ज्वलः ।

प्रशस्तवान्निस्तुलन प्रबन्धशतकल्पनः ॥१३७॥

भूनेता भूधरो भोगी भाग्यदायी भवप्रियः ।

कर्मन्दी वललः क्लीबः पशुपालोऽश्वपालकः ॥१३८॥

शनिपीडाविनाशी च कृत्यादोषनिबर्हणः ।

आभिचारिकविध्वंसी गदावनदवानलः ॥१३९॥

जपपूजार्चनरतो नारायणपदं परम् ।

पापपाषाणदलनटङ्कीकृतकरावलिः ॥१४०॥

मोक्षलक्ष्मीकवाटश्च मातृकावर्णमण्डनः ।

अकारादिक्षकारान्तवर्णमालाविभूषणः ॥१४१॥

अनुस्वारादिसङ्ख्यात्मा स्वरो व्यञ्जन एव च ।

सर्वार्थदस्सर्वकर्मसर्वकार्यप्रकाशकः ॥१४२॥

पञ्चविंशतितत्त्वस्थः पञ्चब्रह्मसमुद्भवः ।

पारमार्थिकसन्दायी पङ्ग्वादिगतिदायकः ॥१४३॥

सफलीकृतपूजार्थो विफलीकृतदुष्कृतिः ।

श्रुतिस्मृतिसमाम्नातस्मार्तकर्मप्रकाशकः ॥१४४॥

यज्ञोपवीतधारी च याज्ञवल्क्यादिवन्दितः ।

सुषुम्नायोगमध्यस्थो लम्बिकायोगसाधनः ॥१४५॥

सालम्बनोद्दीपनादिक्रियाबीजं महामनुः ।

कल्पातिशायिसङ्कल्पो विकल्पविधिवर्जितः ॥१४६॥

अनल्पमूर्तिरश्वात्मा स्वात्मानन्दविधायकः ।

आत्मानात्मविवेकज्ञो निरावरणबोधनः ॥१४७॥

निदानभूतस्तत्त्वानां नित्यकल्याणसुन्दरः ।

शान्तरक्षणनिर्निद्रः श्रुतिस्मृतिशुभद्रुमः ॥१४८॥

आलापीकृतवेदाङ्गो मालालङ्कृतकन्धरः ।

रुद्राक्षकङ्कणलसत्करो रुद्रजपप्रियः ॥१४९॥

सदाशिवपरब्रह्मस्थानं श्रीशम्भुविग्रहः ।

मूलाधाराम्बुजारूढो दहराकाशमध्यगः ॥१५०॥

सहस्राराम्बुजारूढो ज्ञानडोलाविलासवान् ।

वेलोल्लङ्घनसामर्थ्यो वेत्ता निर्वृतिदायकः ॥१५१॥

सुरभूसुरदत्तार्घ्यशुद्धाम्बुग्रहणे रतः ।

ब्रह्मवर्चस्वितामूलं ब्रह्मश्रीसूर्यविग्रहः ॥१५२॥

फलश्रुतिः -

इति नामानि गौणानि भास्करस्य महात्मनः ।

कानिचिद्वर्णितान्यत्र देवस्यानन्तरूपिणः ॥१५३॥

सूर्यवर्चः कृतार्थोऽसि त्वमद्य न हि संशयः ।

दिव्यानामपि यन्नाम्नां सहस्रमनुकीर्तितम् ॥१५४॥

एतस्य श्रवणादेव कीर्तनाज्जीवकोटयः ।

तरन्ति दुस्तरं घोरं संसारं नात्र संशयः ॥१५५॥

यश्शृणोति सदा नाम्नां सहस्रं भास्करस्य च ।

विद्याकामो लभेद्विद्यामर्थार्थी सार्थको भवेत् ॥१५६॥

अनपत्यो लभेत्पुत्रमराजा राज्यमाप्नुयात् ।

ग्रहपीडा विनश्यन्ति नश्यन्ति ब्रह्मराक्षसाः ॥१५७॥

आरोग्यमाप्नुयाद्रोगी कामी कामानवाप्नुयात् ।

किमत्र बहुनोक्तेन सर्वसिद्धिर्भविष्यति ॥१५८॥

धर्मार्थकाममोक्षाणां साधनं सर्वसम्मतम् ।

श्रुतिस्मृतिपुराणादिसारार्थकृतनिर्णयम् ॥१५९॥

नाम्नां सहस्रं यो भकया पठेन्नियतमानसः ।

सिध्यन्ति सर्वधर्मार्थास्तस्य नैवात्र संशयः ॥१६०॥

विश्वावसुरुवाच -

नारायण नमस्तेऽस्तु भानुमण्डलमध्यग ।

कर्मणामपि धर्माणां साक्षी त्वं ब्रह्म निर्मलम् ॥१६१॥

अनन्तोऽनन्तनामा च श्रीमान् लोकत्रयेश्वरः ।

विभूतिः केन वा ज्ञेया ज्योतिषामयनस्य च ॥१६२॥

गन्धर्वा ऊचुः -

सूर्य आत्माऽस्य जगतस्तस्थुषश्च त्वमेव हि ।

त्वामृते नहि पश्यामो जन्तूनां शरणं कलौ ॥१६३॥

वालखिल्या ऊचुः -

यः कर्मसाक्षी विदुषां वरेण्यं भर्गश्च सूते सविता जगच्च ।

यो वृष्टिदायी तपनश्च पुष्टिदस्तमेव देवं गतिमामनाम ॥१६४॥

वैखानसा ऊचुः -

कलाश्चेन्दोः कलास्सर्वाः कलाभिश्च प्रपञ्चिताः ।

तमेव कलयामोऽद्य चक्षुषो रतिदैवतम् ॥१६५॥         

वैष्णवा ऊचुः -

नारायणाश्रयो मर्त्यो नारायणपरायणः ।

सर्वत्र विजयी भूयात्स एव सविता स्वयम् ॥१६६॥

रुद्रगणा ऊचुः -

अष्टमूर्तेरियं मूर्तिरेका दीप्तिमयी यतः ।

एनं भजाम लोकेशं भानुमण्डलमध्यगम् ॥१६७॥

श्रीसूत उवाच -

बृहस्पतिस्सुराचार्यः कृपया परया मुदा ।

सूर्यवर्चसमित्युक्त्वा विररामोमिति स्वयम् ॥१६८॥

व्यासप्रसादाच्छ्रुतवानहमेतन्महर्षयः ! ।

भवन्तस्सर्वधर्मार्थसिद्ध्यै नित्यं पठन्तिवदम् ॥१६९॥

॥ इति श्रीस्कन्दपुराणे सूर्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : August 11, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP