हिंदी सूची|हिन्दी अनुवादित साहित्य|स्तोत्रे|
ध्यानं श्वेताम्बरा...

चन्द्रस्तोत्रम् - ध्यानं श्वेताम्बरा...

वैदिक साहित्य में सोम का स्थान भी प्रमुख देवताओं में मिलता है। 


ध्यानं

श्वेताम्बरान्वितवपुर्वरशुभ्रवर्णं

श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ।

दोर्भ्यां वृताभयगदं वरदं सुधांशुं

श्रीवत्समौक्तिकधरं प्रणमामि चन्द्रम् ॥१॥

आग्नेयभागे सरथो दशाश्वश्चात्रेयजो यामुनदेशजश्च ।

प्रत्यङ्मुखस्थश्चतुरस्रपीठे गदाधराङ्गो वररोहिणीशः ॥२॥

चन्द्रं चतुर्भुजं देवं केयूरमकुटोज्ज्वलम् ।

वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥३॥

चन्द्रं च द्विभुजं ज्ञेयं श्वेतवस्त्रधरं विभुम् ।

श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम् ॥४॥

श्वेतछत्रधरं देवं सर्वाभरणभूषणम् ।

एतत्स्तोत्रं तु पठतां सर्वसम्पत्करं शुभम् ॥५॥

फलश्रुतिः -

क्षयापस्मारकुष्ठादि तापज्वरनिवारणम् ।

इदं निशाकरस्तोत्रं यः पठेत् सततं नरः ।

सोपद्रवाद्विमुच्येत नात्र कार्या विचारणा ॥६॥

इति चन्द्रस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : August 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP