श्वेताम्बर: श्वेतवपु:
किरीटी , श्वेतद्युतिर्दण्डधरो
द्विबाहु: ।
चन्द्रो मृतात्मा वरद:
शशांक: , श्रेयांसि
मह्यं प्रददातु देव: ॥१॥
दधिशंखतुषाराभं
क्षीरोदार्णवसम्भवम ।
नमामि शशिनं सोमं
शम्भोर्मुकुटभूषणम ॥२॥
क्षीरसिन्धुसमुत्पन्नो
रोहिणी सहित: प्रभु: ।
हरस्य मुकुटावास:
बालचन्द्र नमो s स्तुते
॥३॥
सुधायया यत्किरणा:
पोषयन्त्योषधीवनम ।
सर्वान्नरसहेतुं तं नमामि
सिन्धुनन्दनम ॥४॥
राकेशं तारकेशं च
रोहिणीप्रियसुन्दरम ।
ध्यायतां सर्वदोषघ्नं
नमामीन्दुं मुहुर्मुहु: ॥५॥
(इति मन्त्रमहार्णवे
चन्द्रमस: स्तोत्रम )