अस्य
श्रीचन्द्राष्टाविंशतिनामस्तोत्रस्य गौतम ऋषिः ,
सोमो देवता , विराट्
छन्दः , चन्द्रप्रीत्यर्थे
जपे विनियोगः ॥
चन्द्रस्य श्रृणु नामानि
शुभदानि महीपते ।
यानि श्रुत्वा नरो
दुःखान्मुच्यते नात्र संशयः ॥१॥
सुधाकरश्च सोमश्च
ग्लौरब्जः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुश्चन्द्रमा
रोहिणीपतिः ॥२॥
शशी हिमकरो राजा द्विजराजो
निशाकरः ।
आत्रेय इन्दुः
शीतांशुरोषधीशः कलानिधिः ॥३॥
जैवातृको रमाभ्राता क्षीरोदार्णवसम्भवः
।
नक्षत्रनायकः
शम्भुशिरश्चूडामणिर्विभुः ॥४॥
तापहर्ता नभोदीपो
नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसंयुक्तस्तस्य
पीडा विनश्यति ॥५॥
तद्दिने च पठेद्यस्तु
लभेत्सर्वं समीहितम् ।
ग्रहादीनां च सर्वेषां
भवेच्चन्द्रबलं सदा ॥ ६॥
॥ इति श्रीचन्द्राष्टाविंशतिनामस्तोत्रं
सम्पूर्णम् ॥