हिंदी सूची|हिन्दी अनुवादित साहित्य|स्तोत्रे|
ॐ सप्ताश्वं समारु...

सूर्यस्तोत्रम् - ॐ सप्ताश्वं समारु...

सूर्य स्त्रोत (Surya Stotra) एक संस्कृत स्तोत्र है जो भगवान सूर्य ( सूर्य देव ) को समर्पित है।


ॐ सप्ताश्वं समारुह्यारुणसारथिमुत्तमम् ।

श्वेतपद्मधरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥१॥

बन्धूकपुष्पसङ्काशं हारकुण्डलभूषणम् ।

एकचक्रधरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥२॥

लोहितस्वर्णसङ्काशं सर्वलोकपितामहम् ।

सर्वव्याधिहरं देवं त्वां सूर्यं प्रणमाम्यहम् ॥३॥

त्वं देव ईश्वरः शक्रब्रह्मविष्णुमहेशराट् ।

परं धर्मं परं ज्ञानं त्वां सूर्यं प्रणमाम्यहम् ॥४॥

त्वं देवलोककर्ता च कीर्त्यात्मा करणांशकम् ।

तेजो रुद्रधरं दैवं त्वां सूर्यं प्रणमाम्यहम् ॥५॥

पृथिव्यप्तेजो वायुश्चात्माप्याकाशमेव च ।

सर्वज्ञं श्रीजगन्नाथं त्वां सूर्यं प्रणमाम्यहम् ॥६॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।

गगनालिङ्गमाराध्यं त्वां सूर्यं प्रणमाम्यहम् ॥७॥

निर्मलं निर्विकल्पं च निर्विकारं निरामयम् ॥

जगत्कर्ता जगद्धर्तास्त्वां सूर्यं प्रणमाम्यहम् ॥८॥

सूर्यस्तोत्रं जपेन्नित्यं ग्रहपीडाविनाशनम् ।

धनं धान्यं मनोवाञ्छा श्रियः प्राप्नोति नित्यशः ॥९॥

शिवरात्रिसहस्रेषु कृत्वा जागरणं भवेत् ।

यत्फलं लभते सर्वं तद्वै सूर्यस्य दर्शनात् ॥१०॥

एकादशीसहस्राणि सङ्क्रान्त्ययुतमेव च ।

सप्तकोडिसु दर्शेषु तत्फलं सूर्यदर्शनात् ॥११॥

अश्वमेधसहस्राणि वाजपेयशतानि च ।

कोटिकन्याप्रदानानि तत्फलं सूर्यदर्शनात् ॥१२॥

गयापिण्डः परं दाने पितृणां च समुद्धरम् ।

दृष्ट्वा ह्यग्र्येश्वरं देवं तत्फलं समवाप्नुयात् ॥१३॥

अग्र्येश्वरसमोपेतो सोमनाथस्तथैव च ।

कैदारमुदकं पीत्वा पुनर्जन्म न विद्यते ॥१४॥

सूर्यस्तोत्रं पठेन्नित्यमेकचित्तः समाहितः ।

दुःखदारिद्र्यनिर्मुक्तः सूर्यलोकं स गच्छति ॥१५॥

इति सूर्यस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : August 11, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP