चन्द्र बीज मन्त्र - ॐ
श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥
श्रीमान् शशधरश्चन्द्रो
ताराधीशो निशाकरः ।
सुधानिधिः सदाराध्यः
सत्पतिः साधुपूजितः ॥१॥
जितेन्द्रियो जगद्योनिः
ज्योतिश्चक्रप्रवर्तकः ।
विकर्तनानुजो वीरो
विश्वेशो विदुषाम्पतिः ॥२॥
दोषाकरो दुष्टदूरः
पुष्टिमान् शिष्टपालकः ।
अष्टमूर्तिप्रियोऽनन्त
कष्टदारुकुठारकः ॥३॥
स्वप्रकाशः प्रकाशात्मा
द्युचरो देवभोजनः ।
कळाधरः कालहेतुः
कामकृत्कामदायकः ॥४॥
मृत्युसंहारकोऽमर्त्यो
नित्यानुष्ठानदायकः ।
क्षपाकरः क्षीणपापः
क्षयवृद्धिसमन्वितः ॥५॥
जैवातृकः शुची शुभ्रो जयी
जयफलप्रदः ।
सुधामयस्सुरस्वामी
भक्तानामिष्टदायकः ॥६॥
भुक्तिदो मुक्तिदो भद्रो
भक्तदारिद्र्यभञ्जकः ।
सामगानप्रियः सर्वरक्षकः
सागरोद्भवः ॥७॥
भयान्तकृत् भक्तिगम्यो
भवबन्धविमोचकः ।
जगत्प्रकाशकिरणो
जगदानन्दकारणः ॥८॥
निस्सपत्नो निराहारो
निर्विकारो निरामयः ।
भूच्छायाऽऽच्छादितो भव्यो
भुवनप्रतिपालकः ॥९॥
सकलार्तिहरः सौम्यजनकः
साधुवन्दितः ।
सर्वागमज्ञः सर्वज्ञो
सनकादिमुनिस्तुतः ॥१०॥
सितच्छत्रध्वजोपेतः
सीतांगो सीतभूषणः ।
श्वेतमाल्याम्बरधरः
श्वेतगन्धानुलेपनः ॥११॥
दशाश्वरथसंरूढो दण्डपाणिः
धनुर्धरः ।
कुन्दपुष्पोज्ज्वलाकारो
नयनाब्जसमुद्भवः ॥१२॥
आत्रेयगोत्रजोऽत्यन्तविनयः
प्रियदायकः ।
करुणारससम्पूर्णः
कर्कटप्रभुरव्ययः ॥१३॥
चतुरश्रासनारूढश्चतुरो
दिव्यवाहनः ।
विवस्वन्मण्डलाग्नेयवासो
वसुसमृद्धिदः ॥१४॥
महेश्वरःप्रियो दान्त्यो
मेरुगोत्रप्रदक्षिणः ।
ग्रहमण्डलमध्यस्थो ग्रसितार्को
ग्रहाधिपः ॥१५॥
द्विजराजो द्युतिलको
द्विभुजो द्विजपूजितः ।
औदुम्बरनगावास उदारो
रोहिणीपतिः ॥१६॥
नित्योदयो मुनिस्तुत्यो
नित्यानन्दफलप्रदः ।
सकलाह्लादनकरो
फलाशसमिधप्रियः ॥१७॥
एवं नक्षत्रनाथस्य
नाम्नामष्टोत्तरं शतम् ।