हिंदी सूची|हिन्दी अनुवादित साहित्य|स्तोत्रे|
अथश्रीचन्द्राष्टोत्तरशतना...

चन्द्राष्टोत्तरशतनामस्तोत्रम् - अथश्रीचन्द्राष्टोत्तरशतना...

वैदिक साहित्य में सोम का स्थान भी प्रमुख देवताओं में मिलता है। 


अथ श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् ।

अथ वक्ष्ये शशिस्तोत्रं तच्छृणुष्व मुदान्वितः ॥१॥

चन्द्रोऽमृतमयः श्वेतो विधुर्विमलरूपवान् ।

विशालमण्डलः श्रीमान् पीयूषकिरणः करी ॥२॥

द्विजराजः शशधरः शशी शिवशिरोगृहः ।

क्षीराब्धितनयो दिव्यो महात्माऽमृतवर्षणः ॥३॥

रात्रिनाथो ध्वान्तहर्ता निर्मलो लोकलोचनः ।

चक्षुराह्लादजनकस्तारापतिरखण्डितः ॥४॥

षोडशात्मा कलानाथो मदनः कामवल्लभः ।

हंसःस्वामी क्षीणवृद्धो गौरः सततसुन्दरः ॥५॥

मनोहरो देवभोग्यो ब्रह्मकर्मविवर्धनः ।

वेदप्रियो वेदकर्मकर्ता हर्ता हरो हरिः ॥६॥

ऊर्द्ध्ववासी निशानाथः श्रृङ्गारभावकर्षणः ।

मुक्तिद्वारं शिवात्मा च तिथिकर्ता कलानिधिः ॥७॥

ओषधीपतिरब्जश्च सोमो जैवातृकः शुचिः ।

मृगाङ्को ग्लौः पुण्यनामा चित्रकर्मा सुरार्चितः ॥८॥

रोहिणीशो बुधपिता आत्रेयः पुण्यकीर्तकः ।

निरामयो मन्त्ररूपः सत्यो राजा धनप्रदः ॥९॥

सौन्दर्यदायको दाता राहुग्रासपराङ्मुखः ।

शरण्यः पार्वतीभालभूषणं भगवानपि ॥१०॥

पुण्यारण्यप्रियः पूर्णः पूर्णमण्डलमण्डितः ।

हास्यरूपो हास्यकर्ता शुद्धः शुद्धस्वरूपकः॥११॥

शरत्कालपरिप्रीतः शारदः कुमुदप्रियः ।

द्युमणिर्दक्षजामाता यक्ष्मारिः पापमोचनः ॥१२॥

इन्दुः कलङ्कनाशी च सूर्यसङ्गमपण्डितः ।

सूर्योद्भूतः सूर्यगतः सूर्यप्रियपरःपरः ॥१३॥

स्निग्धरूपः प्रसन्नश्च मुक्ताकर्पूरसुन्दरः ।

जगदाह्लादसन्दर्शो ज्योतिः शास्त्रप्रमाणकः ॥१४ ॥

सूर्याभावदुःखहर्ता वनस्पतिगतः कृती ।

यज्ञरूपो यज्ञभागी वैद्यो विद्याविशारदः ॥१५॥

रश्मिकोटिर्दीप्तिकारी गौरभानुरिति द्विज ।

नाम्नामष्टोत्तरशतं चन्द्रस्य पापनाशनम् ॥१६॥

चन्द्रोदये पठेद्यस्तु स तु सौन्दर्यवान् भवेत् ।

पौर्णमास्यां पठेदेतं स्तवं दिव्यं विशेषतः ॥१७॥

स्तवस्यास्य प्रसादेन त्रिसन्ध्यापठितस्य च ।

सदाप्रसादास्तिष्ठन्ति ब्राह्मणाश्च द्विजोत्तम ॥१८॥

श्राद्धे चापि पठेदेतं स्तवं पीयूषरूपिणम् ।

तत्तु श्राद्धमनन्तञ्च कलानाथप्रसादतः ॥१९॥

दुःस्वप्ननाशनं पुण्यं दाहज्वरविनाशनम् ।

ब्राह्मणाद्याः पठेयुस्तु स्त्रीशूद्राः श्रृणुयुस्तथा ॥२०॥

इति बृहद्धर्मपुराणान्तर्गतं श्रीचन्द्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : August 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP