अथ सोमस्तोत्रप्रारम्भः ।
अस्य
श्रीसोमस्तोत्रमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः ।
सोमो देवता । सोमप्रीत्यर्थे
जपे विनियोगः ।
वां अङ्गुष्ठाभ्यां नमः ।
वीं तर्जनीभ्यां नमः ।
वूं मध्यमाभ्यां नमः । वैं
अनामिकाभ्यां नमः ।
वौं कनिष्ठिकाभ्यां नमः ।
वः करतलकरपृष्ठाभ्यां नमः ।
वां हृदयाय नमः । वीं
शिरसे स्वाहा ।
वूं शिखायै वषट् । वैं
कवचाय हुम् ।
वौं नेत्रत्रयाय वौषट् ।
वः अस्त्राय फट् ।
भूर्भुवः सुवरोमिति
दिग्बन्धः ।
ध्यानम् ।
श्वेताम्बरोज्ज्वलतनुं
सितमाल्यगन्धं
श्वेताश्वयुक्तरथगं सुरसेविताङ्घ्रिम् ।
दोर्भ्यां धृताभयगदं वरदं
सुधांशुं
श्रीवत्समौक्तिकधरं
प्रणमामि चन्द्रं ॥१॥
आग्नेयभागे सरथो
दशाश्वश्चात्रेयजो यामुनदेशजश्च ।
प्रत्यङ्मुखस्थश्चतुरश्रपीठे
गदाधरो नोऽवतु रोहिणीशः ॥२॥
चन्द्रं नमामि वरदं
शङ्करस्य विभूषणम् ।
कलानिधिं कान्तरूपं
केयूरमकुटोज्ज्वलम् ॥३॥
वरदं वन्द्यचरणं
वासुदेवस्य लोचनम् ।
वसुधाह्लादनकरं विधुं तं
प्रणमाम्यहम् ॥४॥
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम्
।
श्वेतछत्रोल्लसन्मौलिं
शशिनं प्रणमाम्यहम् ॥५॥
सर्वं जगज्जीवयसि
सुधारसमयैः करैः ।
सोम देहि ममारोग्यं
सुधापूरितमण्डलम् ॥६॥
राजा त्वं ब्राह्मणानां च
रमाया अपि सोदरः ।
राजा नाथश्चौषधीनां रक्ष
मां रजनीकर ॥७॥
शङ्करस्य शिरोरत्नं
शार्ङ्गिणश्च विलोचनम् ।
तारकाणामधीशस्त्वं
तारयाऽस्मान्महापदः ॥८॥
कल्याणमूर्ते वरद
करुणारसवारिधे ।
कलशोदधिसञ्जातकलानाथ कृपां
कुरु ॥९॥
क्षीरार्णवसमुद्भूत
चिन्तामणिसहोद्भव ।
कामितार्थान् प्रदेहि त्वं
कल्पद्रुमसहोदर ॥१०॥
श्वेताम्बरः
श्वेतविभूषणाढ्यो गदाधरः श्वेतरुचिर्द्विबाहुः ।
चन्द्रः सुधात्मा वरदः
किरीटी श्रेयांसि मह्यं प्रददातु देवः ॥११॥
इदं निशाकरस्तोत्रं यः
पठेत् प्रत्यहं नरः ।
उपद्रवात्स मुच्येत नात्र
कार्या विचारणा ॥१२॥
इति सोमस्तोत्रं सम्पूर्णम् ।