हिंदी सूची|हिन्दी अनुवादित साहित्य|स्तोत्रे|
नमश्चन्द्राय सोमायेन्दवेक...

चन्द्रस्तोत्रम् - नमश्चन्द्राय सोमायेन्दवेक...

वैदिक साहित्य में सोम का स्थान भी प्रमुख देवताओं में मिलता है। 


नमश्चन्द्राय सोमायेन्दवे कुमुदबन्धवे ।

विलोहिताय शुभ्राय शुक्लाम्बरधराय च ॥१॥

त्वमेव सर्वलोकानामाप्यायनकरः सदा ।

क्षीरोद्भवाय देवाय नमः शङ्गरशेखर ॥२॥

युगानां युगकर्ता त्वं निशानाथो निशाकरः ।

संवत्सराणां मासानामृतूनां तु तथैव च ॥३॥

ग्रहाणां च त्वमेकोऽसि सौम्यः सोमकरः प्रभुः ।

ओषधीपतये तुभ्यं रोहिणीपतये नमः ॥४॥

इदं तु पठते स्तोत्रं प्रातरुत्थाय यो नरः ।

दिवा वा यदि वा रात्रौ बद्धचित्तो हि यो नरः ॥५॥

न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ।

अहोरात्रकृत्तं पापं पठनादेव नश्यति ॥६॥

द्विजराजो महापुण्यस्तारापतिर्विशेषतः ।

ओषधीनां च यो राजा स सोमः प्रीयतां मम ॥७॥

इति चन्द्रस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : August 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP