संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथार्कविवाह: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथार्कविवाह: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथार्कविवाह: Translation - भाषांतर श्री: ॥ अथात्रानंतभट्टकृत:प्रयोग: ॥ वर:कृतनित्यक्रियोरविशनिवारयोर्हस्तनक्षत्रेऽन्यस्मिन्वाशुभेऽन्हिग्रामात्प्राच्यामुदीच्यांवाअर्कगत्वादेशकालौसंकीर्त्य ॥ ममतृतीयमानुषीविवाहस्यशुभतासिध्दर्थंअर्कविवाहंकरिष्ये ॥ तदंगतयागणेशपूजनंस्वस्तिवाचनंमातृकापूजनंनांदीश्राध्दंचकरिष्ये ॥ इतिसंकल्प्यनांदीश्राध्दांतंसमाप्य आचार्यंवृणुयात् ॥ अमुकगोत्रोमुकशर्माहंअमुकगोत्रममुकशर्माणंब्राह्मणमस्मिन्नर्कविवाहकर्मणिआचार्यत्वेनत्वांवृणेइतिवृत्वाततआचार्योवरोवा आकृष्णेनेतिमंत्रेणार्केछायासहितसूर्यमावाह्यषोडशोपचारै:संपूज्यगुडौदनंनैवेध्यंसमर्प्यवस्त्रेणतंतुभिश्चावेष्टयपूजोत्तरंप्रार्थयेत् ॥त्रिलोकवासिन्सप्ताश्वछाययासहितोरवे ॥ तृतीयोद्वाहजंदोषंनिवारयसुखंकुरु ॥ ततोवरोजलमादायत्रि:प्रदक्षिणंपरिषिंचेदेभिर्मंत्रै: ॥ ममप्रीतिकराचेयंमयास्पृष्टापुरातनी ॥ अर्कजा ब्रह्मणासृष्टाह्यस्मान्संप्रतिरक्षतु ॥ नमस्तेमंगलेदेविनम:सवितुरात्मजे ॥ त्राहिमांकृपयादेवीपत्नीत्वंमइहागता ॥ अर्कत्वंब्रह्मणासृष्ट:सर्वप्राणिहितायच ॥ वृक्षाणामादिभूतस्त्वंदेवानांप्रीतिवर्धन: ॥ तृतीयोद्वाहजंपापंमृत्युंचाशुविनाशय ॥ इत्यर्कंप्रदक्षिणीकृत्यतत: कन्यांप्रयच्छेत्याचार्यंप्रार्थयेत् ॥ ततआचार्योवाग्दानंकुर्यात् ॥ तच्चेत्थं ॥ काश्यपावत्सारनैध्रुवेतित्रिप्रवरान्वितकाश्यपगोत्रोत्पन्नांआदित्यस्यप्रपौत्रींसवितु:पौत्रींममामुकशर्मण:पुत्रीमर्कनाम्नींकन्यां अमुकप्रवरान्वितायामुकगोत्रोभ्दवाय अमुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकनाम्नेवरायदास्ये इतित्रिवर्वाग्दानंकृत्वावरस्यमधुपर्कपूजांकुर्यात् ॥ ततोवर:सुमुहूर्तेमंगलपाठपूर्वगमर्कंनिरीक्ष्यस्वस्तिनोमिमीतामितिसूक्तंपठेत् ॥ ततआचार्येणार्ककन्यादानंकारयेत् ॥ तत्रायंक्रम: ॥ वाग्दानवद्गोत्राध्युच्चार्यआत्मनश्छायासहितसवितृप्रीयतेइमामर्ककन्यांतुभ्यमहंसंप्रददेनममेत्युक्त्वावरहस्तेसाक्षतंजलंक्षिप्त्वामंत्रंपठेत् ॥ आचार्य:कृतस्यैतदर्ककन्यादानकर्मण:संपूर्णतासिध्यर्थंइमांदक्षिणांतुभ्यमहंसंप्रददेइतिहिरण्यंदध्यात् ॥ तत:तत्रकन्याप्रतिनिधिराचार्य:कर्मणि ॥ वर:कंकणबंधनमक्षतारोपणंचार्कीएवकुर्यात् ॥ ततोवर:परित्वेत्यादिभिर्गायत्र्यात्रिवृत्त्यापंचकृत्वोर्कंवरंचसूत्रेणावेष्टयतत्सूत्रंद्वेधाकृत्वाएकंगायत्र्यार्कस्यस्कंधेवरोबध्द्वाअपरंवरहस्ते आचार्योबध्नीयाब्दृहत्सामेतिमंत्रेण ॥ बृहत्सामक्षत्रभृध्दृध्दवृष्णियत्रिष्टुभौज:शुभितमुग्रवीरं ॥ इंद्रस्तोमेनपंचदशेनमध्यमिदंवातेनसगरेणरक्ष ॥ ततोवराआचार्योवार्कस्याष्टदिक्षुमहीध्यौरित्यादिमंत्रावृत्त्याकलशान्संस्थाप्यकलशकंठान्सूत्रेणावेष्टयहरिद्रागंधयुक्तजलेनापूर्यप्रतिकुंभंइदंविष्णुरितिमंत्रेणविष्णुप्रतिमा:संस्थाप्यषोडशोपचारै:संपूज्याऽर्कोत्तरत:स्थंडिलेयोजकसंज्ञमग्निंप्रतिष्ठाप्यान्वाधानंकुर्यात् ॥ अस्मिन्नन्वाहितेग्नावित्याध्याधारदेवतेआज्येनेत्यंतमुक्त्वाअत्रप्रधानं बृहस्पतिमग्निमग्निंवायुंसूर्यंप्रजापतिंचाज्येनशेषेणस्विष्टकृतमित्याध्याघारांतेसंगोभिरित्यस्यांगिराबृहस्पतिस्त्रिष्टुप् ॥ अर्कविवाहप्रधानाज्यहोमेविनियोग: ॥ ॐ संगोभिरांगिरसोनक्षमाणोभगइवेदर्यमणंनिनाय ॥ जनेमित्रोनदंपतीअनक्तिबृहस्पतेवाजयाशूँरिवाजौस्वाहा ॥ बृहस्पतयइदं० ॥ यस्मैत्वावामदेव:काम:सम्राडनुष्टुप् ॥ विनियोग:प्राग्वत् ॥ ॐ यस्मैत्वाकामकामायवयंसम्राड्यजामहे ॥ तमस्मभ्यंकामंदत्त्वाथेदंत्वंघृतंपिबस्वाहा ॥अग्नयइदं० ॥ ततोव्यस्तसमस्तव्याहृतिभिराज्यंहुत्वाकर्मशेषंसमापयेत् ॥ तत:आचार्यंसंपूज्यतस्मैगोयुगंयथाशक्तिभूयसींदक्षिणांचदत्त्वा ॥ ममप्रीतिकराचेयमितिमंत्रेणार्कंपुनस्त्रि:प्रदक्षिणीकृत्यप्रार्थयेत् ॥ मयाकृतमिदंकर्मस्थावरेषुजरायुणा ॥ अर्कापत्यानिनोदेहितत्सर्वंक्षंतुमर्हसि ॥ ततोमहाशांतिंपठित्वाकलशप्रतिमाध्याचार्यायदत्त्वापुण्याहवाचनंकुर्यात् ॥ अस्मिनकर्मणिदशब्राह्मणाभोज्या: ॥ ततश्चतुर्थदिनेसध्योवापुनरर्केपूर्ववत्सूर्यसंपूज्यविसृज्यमानुषींपरिणयेत् ॥ इत्यर्कविवाह: ॥ N/A References : N/A Last Updated : August 06, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP