संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्| अथमधुपर्क: अथसंस्कारप्रकरणम् अथसंस्कारप्रकरणम् अथसंस्कारक्रम: अथगणपतिपूजनम् अथपुण्याहवाचनम् अथकर्मांगदेवता: अथमातृकापूजनम् अथनांदीश्राध्दविचार: अथनांदीश्राध्दम् अथग्रहयज्ञ:परिशिष्टोक्त: ग्रहयज्ञोमात्स्योक्त: (अयुतहोम:) अथबलिदानम् अथवसोर्धारानुवाक: अथाग्न्युपघातेप्रायश्चित्तानि अथाग्निनामानि अथस्थालीपाकप्रयोग: अथगृह्याग्ने:पुन:संधानम् अथभुवनेश्वरीशांति: अथगर्भाधानम् अथनारायणबलि: अथनागबलि: अथदत्तपुत्रविधानम् पुंसवनानवलोभनसीमंतोन्नयनानि अथानवलोभनम् अथसीमंतोन्नयनम् अथजातकर्मप्रयोग: अथषष्ठीपूजा अथनामकरणप्रयोग: अथसूर्यावलोकनम् अथनिष्क्रमणप्रयोग: अथोपवेशनविधि: अथावन्नप्राशनप्रयोग: अववर्धापनविधि: अथकूष्मांडहोम: अथबृहस्पतिशांति: अथोपनयनम् अथमंडपदेवताप्रतिष्ठा अथघटीस्थापनं अथयेयज्ञेनसूक्तम् उपनयनप्रयोग: अथानुप्रवचनीयहोम: अथप्रदोषगर्जितादिशांति: उपनयनाग्मिनाशेप्रायश्चित्तम् अथमेधाजननप्रयोग: अथविवाहपूर्वंदिनकृत्यम् अथसीमांतपूजनम् अथवरस्यवधूग्रहगमनम् अथमधुपर्क: अथगौरीहरपूजा अथसत्येनोत्तभितासूक्तम् अथऋक् चवेत्यादिब्राह्मणखंडवाक्यानि अथकन्यादानम् अथविवाहहोम: अथगृहप्रवेशनीयहोम: अथविवाहचतुर्थदिनकृत्यम् अथवधूगृहप्रवेश: अथदेवकोत्थापनमंडपोद्वासने अथाग्निद्वयसंसर्गप्रयोग: अथाशौचेहोमविधि: अथापत्कालेकर्तव्योहोमद्वयसमासप्रयोग: अथगुर्वापदिपक्षहोम: अथाग्निसमारोपविधि: अथाग्रयणहोम: अथपिंडपितृयज्ञ: अथाग्निसंसर्गदोषेप्रायश्चित्तम् अथार्कविवाह: अथगोप्रसवशांति: अथमूलजननशांति: अथाश्लेषाजननशांति: अथज्येष्ठाजननशांति: अथकृष्णचतुर्दशीजननशांति: अथसिनीवालीकुहुजननशांति: अथदर्शजननशांति: अथव्यतीपातसंक्रमणजननशांति: अथवैधृतिजननशांति: अभद्राजननशांति: अथाधोमुखजननशांति: अथैकनक्षत्रजननशांति: अथग्रहणजननशांति: अथनक्षत्रगंडांतशांति: अथतिथ्यादिगंडांतशांति: अथविषनाडीजननशांति: अथयमलजननशांति: अथत्रिकप्रसवशांति: अथसदंतजननशांति: अथसिंहार्केगोप्रसवशांति: अथप्रसववैकृतशांति: संस्कारप्रकरणम् - अथमधुपर्क: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथमधुपर्क: Translation - भाषांतर श्री: ॥ पाध्यार्थमर्ध्यार्थमंत्रवत्रिराचमनीयार्थंशुध्दाष्टाचमनीयार्थंचलजलपात्रचतुष्टयंमधुपपर्ककांस्यपात्रंगांविष्टरंचसंपाध्य कर्ताआचम्यप्राणानायम्यदेशकालौस्मृत्वाकन्यार्थिनेगृहागतायास्मैस्नातकायवरायकन्यादानांगभूतंमधुपर्कंकरिष्ये ॥ कन्यार्थिनमित्यदिद्वीतीयांतमुक्त्वामधुपर्केणार्हयिष्ये इतिवा ॥ विष्टरोविष्टरोविष्टरइतिविष्ट्रंवरहस्तेदध्यात् ॥ वरस्तु ॥ अहंवर्ष्मेत्यस्यवामदेवोविष्टरोनुष्टुप् ॥ विष्टरोपवेशनेविनियोग: ॥ ॐ अहंवर्ष्मसजातानांविध्युतामिवसूर्य: ॥ इदंतमधितिष्ठामियोमाकश्चामिदासति ॥ इत्युदगग्रेविष्टरउपविशेत् ॥ ततोर्चकेनपाध्यंपाध्यंपाध्यमितित्रिर्निवेदितंपाध्यंवरोगृह्णीयात् ॥ततोर्चकस्तेनोदकेनपत्नीप्रक्षिप्तेनास्मिनास्मिन्नाष्ट्रइतिवरस्यदक्षिणसव्यपादौप्रक्षालयेत् ॥ ततोवरोलौकिकोदकेनाचम्य अर्ध्यमर्ध्यमर्ध्यमितिपूर्ववत्रिर्निवेदितंगंधमाल्यफलयुतमर्ध्यमंजलिनाप्रतिगृह्य ॥ आचमनीयमाचमनीयमाचमनीयमितित्रिर्निवेदितंपात्रंप्रतिगृह्यभूमौनिधायतस्यैकदेशंगृहीत्वा ॥ ॐ अमृतोपस्तरणमसीतिपीत्वा लौकिकोदकेनाचम्य ॥ आनीयामानंमधुपर्कवर: ॥ ॐ मित्रस्यत्वाचक्षुषाप्रतीक्षेइत्यवेक्ष्य दात्रामधुपर्कोमधुपर्कोमधुपर्कइतित्रिर्निवेदितंमधुपर्क ॐ देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यांप्रति गृह्णामीत्यंजलिनाप्रतिगृह्यांजलिस्थमेव ॥ मधुवाताइतितिसृणांराहूगणोगोतमोविश्वेदेवागायत्री ॥ मधुपर्कावेक्षणेविनियोग: ॥ ॐ मधुवाताऋतायतेमधुक्षरंतिसिंधव: ॥ मार्ध्वीर्न:संत्वोषधी: ॥ मधुनक्तमुतोषसोमधुमत्पार्थिवंरज: ॥ मधुध्यौरस्तुन:पिता ॥ मधुमान्नोवनस्पतिर्मधुमाँअस्तुसूर्य: ॥ माध्वीर्गावोभवंतुन: ॥ इत्यवेक्ष्यतत्पात्रंसव्यहस्तेगृहीत्वांगुष्ठोपकनिष्ठिकाभ्यांमधुपर्कंत्रि:प्रदक्षिणमालोडयांगुलिगतंमधुपर्कलेपं ॐ वसवस्त्वागायत्रेणच्छंदसाभक्षयंतुइतिपुरस्तान्निमृजेत् ॥ ॐ रुद्रास्त्वात्रैष्टुभेनच्छंदसाभक्षयंतुइतिदक्षिणत: ॥ ॐ आदित्यास्त्वाजागतेनच्छंदसाभक्षयंतुइतिपश्चात् ॥ ॐ विश्वेत्वादेवाआनुष्टुभेनच्छंदसाभक्षयंतुइत्युत्तरेनिमृज्य ॥ भूतेभ्यस्त्वाभूतेभ्यस्त्वाभूतेभ्यस्त्वाइतिमध्यात्किंचिद्गृहीत्वात्रिरुर्ध्वंक्षिप्त्वामधुपर्कपात्रंभूमौनिधायमधुर्कैकदेशंगृहीत्वा ॥ ॐ विराजोदोहोसीतिप्राश्य लौकिकोदकेनाचम्य पुनर्गृहीत्वा ॥ ॐ विराजोदोहमशीय इतिप्राश्य पूर्ववदाचम्य पुनर्गृहीत्वा ॥ ॐ मयिदोह:पध्यायैविराज:इतिप्राश्य पूर्ववदाचम्य ॥ मधुपर्कशेषमुदगुपविष्टायब्राह्मणायदध्याल्लोकविद्विष्टत्वादप्सुवाक्षिपेत् ॥ तत:पूर्वनिवेदिताचमनीयैकदेशं ॐ अमृतापिधानमसीतिपीत्वालौकिकोदकेनाचम्य आचमनीयजलशेषंसर्वंगृहीत्वा ॐ सत्यंयश:श्रीर्मयिश्री:श्रयतांइतिप्राश्यलौकिकोदकेनद्विराचामेत् ॥ ततोदात्रागौर्गौर्गौरितित्रिर्निवेदितांगांनिष्क्रयंवा ॥ मातारुद्राणामित्यस्यभार्गवोजमदग्निर्गौस्त्रिष्टुप् ॥ गोरुत्सर्जनेविनियोग: ॥ ॐ मातारुद्राणांदुहितावसूनांस्वादित्यानाममृतस्यनाभि: ॥ प्रनुवोचंचिकितुषेजनायमागामनागामदितिंवधिष्ट ॐ उत्सृजतइतिविसृजेत् ॥ ततोदातालक्ष्मीनारायणस्वरुपिणेवरायेतिगंधमाल्यवस्त्रयुगोपवीतयुगाभरणादिभिर्यथाविभवंवरंपूजयेत् ॥ ततोवरेणसहागतांस्तद्बंधूनपिपूशयेत् ॥ इतिमधुपर्क: ॥ N/A References : N/A Last Updated : July 29, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP